सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
DevanagariHindipublished723 पृष्ठ
पृष्ठ 172, कुल 723 में से
संदर्भ में पढ़ेंपृष्ठ 172
७० गोलाध्याये
सन्त । कथ मेरोर्विष्कम्भशैला इत्याधारपर्वताः । यस्यां दिशि यमकोटिस्त-
दिक्प्रभृतिमन्दरसुगन्धविपुलसुपार्श्वा दिक्षु सन्ति । मन्दरे कदम्बः केतुवृक्षश्चैत्ररथं
वनमरुणोदं सरः । सुगन्धशैलमस्तके केतुवृक्षो जम्बूः । येनेदं जम्बूद्वीपमुच्यते ।
नन्दनं वनं मानसं सरः । विपुलशैलमस्तके केतुवृक्षो वटो धृतिर्वनं महाह्रदं
सरः । सुपार्श्वमस्तके केतुवृक्षः पिप्पलो वैभ्राजं वनं श्वेतोदं सरः । शेषं
सुगमम् ॥३१॥ ३२॥३३॥३४॥३५॥=६॥
मरीचिः—ननु देवानां स्वर्गवासित्वेन भूमौ तदवस्थानाश्रवणात्कथमत्र तेषां गृहाणि
संभवन्तीत्यतो द्रुतविलम्बितवृत्तेनाऽऽह—इहेति ।
इह । इलावृतवर्षे । किल निश्चयेन । हि यस्