सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 170, कुल 723 में से
संदर्भ में पढ़ें६८ गोलाध्याये
भूम्यैकदेशरूपं मेरुमध्यकमिलावृतसंज्ञं वर्षम् । तथा च षडतिरिक्तवर्षसिद्ध्या प्रामाण्यं
सिद्धमेवेति भावः ॥२८॥
ननु तथाऽपि नववर्षसिद्ध्या कथमत्र तत्प्रामाण्यमित्यतो रथोद्धतयाऽऽह—माल्यवदिति ।
माल्यवत्पर्वतलवणसमुद्रैकदेशयोरन्तः स्थितं तद्भूखण्डं तच्छकलद्वयसंधिस्थं नीलनिषधयो-
रन्तररूपं तुकारादर्धं भद्राश्वसंज्ञम् । बुधाः पौराणिका भूगोलतत्त्वज्ञाः प्रोचुः । गन्धशब्दे
नामैकदेशे नामग्रहणाद्गन्धमादनः स चासौ शैलश्च । जलराशिलवणसमुद्रस्तयोरन्तरे
वर्तमानं यद्भूखण्डं शकलद्वयसंधिस्थं नीलनिषधयोरन्तररूपम् । इलाकलाविदो भूगोलश्रित-
सूक्ष्मयुक्तिज्ञाः । केतुमालसंज्ञं वर्षमूचुः । तथा चात्र पुराणाभिमतनववर्षाणां प्रतिपादना-
त्पुराणप्रामाण्यं स्वतः सिद्धमिति भावः ॥२९॥
ननु माल्यवद्गन्धमादनपर्वतान्तरत्वेनैवेलावृतप्रतिपादनमयुक्तम् । तस्य निषधनीलपर्वत-
योरभ्यन्तरेऽप्यवस्थानादित्यतो द्रुतविलम्बितवृत्तेनेलावृतं विशदयति—निषधेति । निषधनीलौ
प्रसिद्धौ । सुगन्धो गन्धमादनः । सुमाल्यो माल्यवानेतैश्चतुर्भिः पर्वतैश्चतुर्दिक्षु, आवृत्त-
मावरणं संजातं यस्येत्येतादृशमिलावृतं वर्षमलमत्यर्थमतिशयेनेत्यर्थः । आबभावशोभत ।
वर्तमानेऽपि भूतकालसंबन्धादुक्तः । तथा च नोलनिषधयोरेवान्तरेणैतदुक्तौ भद्राश्वकेतु-
मालयोरपीलावृतत्वापत्तिस्तद्वारणार्थं गन्धमादनमाल्यवतोरप्यन्तरत्वेनेलावृतोक्तिरावश्यकेति
लाघवात्तयोरेवान्तरेणेलावृतोक्तियुक्ता । तदुक्त्यैव सिद्धेरिति स्पष्टम् । चतुःपर्वतान्तर-
रूपमिलावृतं सिद्धमिति भावः नन्वावरणेनेलावृतस्य का वा शोभेत्यत आह—अमरेति ।
अमराणां देवानां रहःक्रीडार्थं यानि कुलायानि गृहाणि तैः समाकुलं व्याप्तम् । तथा
चानेकरत्नसुवर्णादिरचितगृहप्रभासंघातशोभायमानेलावृतस्य स्वत एव शोभेति भावः ।
ननु देवैरपि तत्र क्रीडागृहाणि कुतः कृतानि कथं चान्यत्र न कृतानीत्यत आह—रुचिरेति ।
रुचिरं शोभायमानं च तत्काञ्चनं सुवर्णं तेन चित्रितं महीतलं भूप्रदेशो यस्यैतादृशमिला-
वृतम् । तथा चान्यस्मिन्वर्षे सुवर्णभूमित्वासंभवादनेकरत्ननिचयरचितगृहाणामत्रैवाधिक-
शोभायमानत्वसंभवेनाऽऽवृत्तत्वेन रहःस्थानत्वाच्चात्रैव गृहाणि कृतानीति भावः ॥३०॥
केदारदत्तः—पुराणों के अनुसार आचार्य यहाँ अष्टादश प्राचीन भूमण्डलीय देशों
की स्थिति बता रहा है । भूगोल के उत्तरार्ध उत्तर में जम्बू द्वीप के साथ क्षार समुद्र की
सन्धि निरक्ष देश में होती है । पूर्वोक्त लंका, यमकोटि, रोमकपत्तन और सिद्धपुर नाम के
४ पौराणिक नगर गोल सिद्ध होते हैं ।
उक्त चारों नगरों की स्थिति भूमध्यरेखा पर होने से इन चारों नगरों का पृष्ठीय
केन्द्र बिन्दु ध्रुव है । ध्रुव या मेरु सर्वोपरि सर्वत्रगत भू बिन्दुओं के उत्तर में हैं । निरक्ष
देशीय लङ्का नगर से हिमवान् पर्वत उत्तर पूर्व पश्चिम समुद्रों के मध्य में फैला है ।
इसके उत्तर में हेमकूट नामक पर्वत है जो प्राक् समुद्र तक फैला है । हेमकूट के
उत्तर में निषध पर्वत है । इन पर्वतों के मध्य में द्रोणि देश, द्रोणि वर्ष संज्ञक भूखण्ड