सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 165, कुल 723 में से
संदर्भ में पढ़ेंबाधितमित्यत आह—स्वादूदकान्तरमिति । असौ प्रागुक्त्या प्रसिद्धो वडवाग्निः स्वादूदक-
समुद्रमध्येऽस्ति । तथा चाग्निजलयोर्विरोधेऽप्यग्निविशेषस्य वडवाख्यस्य जलेऽवस्थानम-
विरुद्धमत एव वडवात्वं जलान्तःस्थितित्वेनाग्नेरिति भावः । नन्वेवं भूपृष्ठे सकलद्वीपादि-
संनिवेशात्पाताललोकावस्थानानुक्तेस्तल्लोकापलापापत्तिः । पुराणे भूमेरधः सप्तपाताल-
सद्भावप्रसिद्धेः । तन्मते भूगोलादभितः सर्वत्राऽऽकाश ऊर्ध्वत्वाङ्गीकारेणाधः प्रदेशसिद्धिरि-
त्यत आह—पाताललोका इति । पृथिव्यन्तो यानि पुटानि गोलाकाराणि भूगर्भाविवरण-
रूपाणि तान्येव स्वान्तरभेदैः सप्त पाताललोकाः । अतलवितलनितलगभस्ति [म]
न्महीतलसुतलपातालात्मका भूपृष्ठादयो ऽभ्वन्तर्गता गोलाकाराः सन्तीति न तदपलाप
इति भावः ॥२३॥
ननु पाताललोका इत्ययुक्तमुक्तम् । भ्वन्तःप्रदेशे लोकाधिष्ठानसंचारादेरभानात् । नहि
विना लोकसंचारं प्रदेशस्य लोकत्वं संभवतीत्यतो वसन्ततिलक्याऽऽह—चञ्चदिति । एतेषु
पातालप्रदेशेषु । फणिनो वासुकिप्रमुखाः सर्पाः सासुरगणा असुरा दैत्यदानवास्तेषां समुदायैः
सह वर्तमानाः सर्पा दैत्याश्चेत्यर्थः । अधितिष्ठन्ति । पुराणोक्तरीत्या यथायोग्यमधोधः ।
अत्राऽऽचार्यैरेतेषु वसन्तीति पदाभ्यामेतेषु विलस्वर्गेषु स्वर्गादप्यधिककामभोगैश्वर्यानन्दविभू-
तिभिः सुसमृद्धभवनोद्यानक्रीडाविहारेषु दैत्यदानवकाद्रवेयाः । नित्यप्रमुदितानुरक्तकलत्रापत्य-
बन्धुसुहृदनुचरा गृहपतय ईश्वरादप्यप्रतिहतकामा मायाविनोदा निवसन्तीति भागवतं
प्रमाणं सूचितम् । तथा च पाताललोका इति पूर्वोक्तं युक्तमिति भावः । ननु सूर्यस्य
भूगोलादभितो भ्रमणादन्तस्तद्भ्रमणाभावात्पाताले सूर्यकिरणासंसर्गादन्धकारसमये तत्स्थ-
लोकानां कथं संभवत्यालोकाभावादित्यत आह—चञ्चदिति । चञ्चन्तो देदीप्यमाना ये
फणामणयस्तेषां गणाः समूहास्तेषां येऽंशवः किरणास्तैः । वृतः प्रकाश आलोको येषां ते ।
तथा च व्यवहारानुपपत्तिर्न । तत्र महाहिप्रवरशिरोमणयः सर्वं तमः प्रबाधन्त इति भागव-
तोक्तेरिति भावः । अथ प्रसङ्गान्मेरुपृष्ठस्थितानां सिद्धानां रहः केलिस्थानमिदमेवेत्याह—
दीव्यन्तीति । तत्र पातालप्रदेशे । चकारोऽन्ययोगव्यवच्छेदार्थवकारपरस्तेन दिने मेरो
प्रकाशप्राबल्येन सर्वजनसंदर्शनाद्यदा सिद्धानां संभोगेच्छा जायते तदा तत्र विहर्तुमशक्ताः
पुराणमते रात्र्यभावात्सदैवेति ध्येयम् । सिद्धा मेरुपृष्ठस्था योगिनः । चकाराद्देवा दिव्या
दिवि स्वर्गे जाता या रमण्यो बाला मेरोरेव स्वर्गत्त्वप्रतिपादनान्मेरुस्थनिजकामिन्यस्तासां
ये रमणीयदेहा मनोहरसुकुमारमूर्तयस्तैः । आगत्य दीव्यन्ति क्रीडन्ति । अत्रत्यप्रकाशाल्लो-
कान्तरसंचाराभावाच्च । ननु देहस्य रमणीयत्वं कुत इत्यतो देहविशेषणमाह—लसदिति ।
लसद्देदीप्यमानं च तत्कनकं च सुवर्णं तद्वदवभासन्ते शोभन्ते । एतादृशैः सुवर्णकान्ति-
सदृशैरित्यर्थः ॥२४॥
ननु याम्ये द्वीपषट्कस्येत्यादिना प्रथममुद्दिष्टस्य द्वीपषट्कस्यावस्थानमनुक्त्वैव प्रथमं
समुद्रावस्थानकथनं नोचितमित्यत उपजातिकायाऽऽह—शाकमिति ।
अत्र भूगोलस्य दक्षिणार्धभागे द्वयोर्द्वयोः समुद्रयोरन्तरालमेकमेकं द्वीपं पूर्वाचार्या