सामग्री पर जाएँ
सर्वकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 151, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 151

भुवनकोशः ४९
अथ प्रत्यक्षविरोधशङ्कां परिहरन्नाह-
समो यतः स्यात्परिधेः शतांशः पृथ्वी च पृथ्वी नितरां तनीयान् ।
नरश्च तत्पृष्ठगतस्य कृत्स्ना समेव तस्य प्रतिभात्यतः सा ॥१३॥
वा० भा०-स्पष्टम् ॥१३॥
इदानीं स्वोक्तस्य भूपरिधिप्रमाणस्योपपत्तिमाह-
पुरान्तरं चेदिदमुत्तरं स्यात्तदक्षविश्लेषलवैस्तदा किम् ।
चक्रांशकैरित्यनुपातयुक्त्या युक्तं निरुक्तं परिधेः प्रमाणम् ॥१४॥
वा० भा०-निरक्षदेशः स्वदेशाद्यथा यथा दक्षिणतो भवति तथा खस्व-
स्तिकाद्विषुवद्वृत्तं नतम् । तयोरन्तरेंऽशाक्षाः । ते च निरक्षदेशादपसारयोजनैर्नु-
पातेनोत्पद्यन्ते । अतः कस्मिंश्चित्पुरेऽक्षांशाञ्ज्ञात्वा तस्मात्पुरादुत्तरतोऽन्यस्मिन्
पुरे ज्ञेयाः । ततस्तेषामन्तरांशैः पुरान्तरयोजनैश्चानुपातः । यद्यन्तरांशैः पुरान्तर-
योजनानि लभ्यन्ते तदा चक्रांशैः ३६० किमिति । फलं भूपरिधियोजनानि ॥१४॥
मरीचिः-नन्वेकयोजनमुपरि भ्रमतः पुरुषस्य कुत्रापि भूयो गोलावयवत्वानुप-
लम्भात्सर्वत्राऽऽदर्शोदराकारप्रतीतेश्च गोलाकारत्वं प्रत्यक्षोपलब्ध्यनुपपन्नमित्यत उपजाति-
कयाऽऽह-सम इति ।
अतोऽस्मात्कारणात् । तत्पृष्ठगतस्य भूमिगोलपृष्ठस्थितस्ये । तस्य पुरुषस्य । यत्र
तत्रावस्थितस्य । सा भूमिर्गोलरूपाणि(पि) कृत्स्ना संपूर्णा । समा । आदर्शकारा । इवे-
त्यनेन वस्तुतस्तत्स्वरूपाभावात् । प्रतिभाति । आदर्शाकारेयमिति प्रतीतिर्भवतीत्यर्थः । कुत
इत्यतःपद् सूचितं हेतुमाह-सम इति । यतो यस्मात्कारणात् । वृत्तपरिधेः शतभागतुल्यदेशः
समयष्टिवत्स्यान्न तिरश्चीनः । कन्दुकादुपरितनप्रदेशे तत्परिधिशतभागप्रमितमेव सर्षपादि
स्थापितं सन्न पतति । तदधिकमामलकादि पतत्येवातो ज्ञातमेवास्य वस्तुनोऽपि कियानपि
प्रदेशः समोऽस्तीति । अन्यथाऽवस्थानायोगात् । असमस्यातिरश्चीनत्वेन स्थापितवस्तुनः
प्रपातसंभवनात् । अत उपलब्धं शतभागस्य समत्वम् । किंच वृत्तस्य तिरश्चीनत्वे सर्वोऽपि
वृत्तपरिध्यवयवस्तिरश्चीनोऽपि कश्चन वृत्तपरिध्यंशः सूक्ष्मस्तिरश्चीनोऽपि तत्त्वतया न
भासते । स तु वृत्तस्य षण्णवत्यंशो दण्डवद्दृश्यते तु स इति शाकल्योक्त्या षण्णवत्यं-
शरूपः । अयमपि प्रथमः । ज्यायाः सूक्ष्मप्रकाशावगमेन तत्त्वाश्वितुल्यत्वानुत्पत्त्या स्थूल
इति मत्वा लब्धा(घ्वा)र्यभट्टेन ततोऽप्यतिसूक्ष्मांशाज्ञानार्थं पतनो भागः परिधेयसमस्थ
इत्युक्त्या दशाधिकशतभागः सम इत्युक्तम् । तत्राऽऽचार्यैरार्षपीहर्षसंमतांशयोर्योगादर्द्धासन्नः
शतभागो लाघवादङ्गीकृत इति । तथा च गोलाकारत्वेऽप्यंशे समत्वभानान्मण्डलाकारदर्शने
न क्षतिरिति भावः । नन्वेवं कन्दुकस्यापि समतया दर्शनापत्तिरित्यत आह-पृथ्वीति ।
भूमिः । नितरामतिशयेन पृथ्वी । किंचिद्दूनपञ्चसहस्रप्रमाणतया महतीत्यर्थः । चः समु-
४