सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 139, कुल 723 में से
संदर्भ में पढ़ेंयाति लघु द्रुतं हि मही स्थिराधारमृते कथं स्यादिति । न चैवं भूगोले तिर्यंगधः-
प्रदेशयोः पर्वतसमुद्रमनुष्यावस्थानानुपपत्तिरिति वाच्यमिति चेन्न । पतन्त्यधः स्थिताः
किं गिरयः सिन्धुसरिन्नराः ख एते । अधृतं गुरु वस्त्वेवं यत्तदधः संपततीति
दृश्यत इत्यस्माभिराशङ्क्यम् । नाऽऽशङ्कनीयमिति वस्तुनि देशभेदे सामर्थ्य-
लक्षणगुणाः कतिचिद्विभिन्नाः । यद्वत्सुशीतलकराश्मशिला द्रवन्ति सूर्याश्मनिर्मलशिलास्वनल-
प्रवृत्तिः । वज्राणि वारिषु तरन्ति हि चुम्बकाश्मा लोहं समानयति चाऽऽत्मनि दूरवर्ति ।
उच्चैस्तरं भवति पर्वतवत्समुद्रे नीरं यतो बत विचित्रगुणाः प्रदेशाः । भाषाकाराचारसामर्थ्य-
भेदो ह्यत्रैवाद्वौ देशभेदेन दृष्टाः । नृणामेव किं पुनरन्यभागे तस्मात्स्थैर्यं नाम शक्तिश्च
तेषामित्यनेन तत्तद्देशोत्पन्नवस्तूनां सामर्थ्यातिशयवशेन पतनाभाव इति स्थैर्यशक्त्यङ्गी-
कारेण स्वग्रन्थे समर्थितत्वात् । अनन्तशक्तिकल्पनागौरवं चान्यथानुपपत्त्या प्रामाणिकत्वाद-
दोष इत्याहुः । तन्न । ऊर्ध्वाधस्तिर्यग्भेदेनाऽऽकर्षणस्य त्रैविध्याभ्युपगमेन तिर्यगधःस्थयोरा-
कर्षणस्य भवदुक्तनियमत्वेऽप्यूर्ध्वस्थयोरेकस्थानावस्थयोर्गुरुहलघोराकर्षणे गुरोरेव प्रथममा-
कर्षकसंयोगोऽनन्तरं लघोरिति दर्शनात् । भूमेरूर्ध्वाकर्षणशक्त्यङ्गीकारे बाधकाभावात् ।
भूमेरभितः सर्वाधस्त्वेनाधःकर्षणशक्त्यसंभवात् । अन्यथा तलतिर्यग्भागयोः कदाचिदपि
वृष्टिरनुकूला न स्यात् । तत्तदायत्तस्य सस्यादेरनुत्पादे कथमेतदधःस्थितं जीवेत् । किंच
वह्नेरूर्ध्वज्वलनमेव स्वाभाविकमिति तलतिर्यग्भागयोरयमपि पाकानुकूलो न स्यात् । तथा
चोभयथाऽपि तत्र जीवनसंदेह एव स्यात् । न चैवं भूमेः सर्वाधस्त्वेनाधस्तिर्यग्भागावस्थित-
जनादीनां तत्रैव प्रपातसंभवात् । तत्र तदवस्थाने न क्षतिरिति व्यर्थमाकृष्टिशक्तिकल्पन-
मिति वाच्यम् । नहि तदवस्थानार्थमेव तच्छक्तिकल्पनं किंतु भूमौ स्थिरत्वशक्तिसंरक्षण-
हेतुत्वेन तत्कल्पनात् । किं नोऽमुना बहुत्तरेण मुधोदितेन गुर्वी स्थिरा वियति येन धृतेय-
मुर्वी । सर्वं धराधरचरं धरतीति भाति देवो धराय न निवारणतोऽवतीर्ण इत्यत्र पाताला-
वस्थितेन कूर्मेण स्वचरणचतुष्टय उदाकृष्यैव भूमेर्धारणादाकर्षणवशादाकृष्टया भुवा भूता-
न्याकृष्टानीति भाव इति भवत्तनयलिखितभवदभिप्रायेण भवद्भिरप्याऽऽगन्तुकाकृष्टिशक्ते-
रङ्गीकाराच्च । ननु वस्तुन आकर्षणे भूसंयोगानन्तरं तद्वस्तुनः परावर्तनेन स्थलान्तरगम-
नानुपपत्तेः पतने चाभिघातात्तदुपपत्तेः पतनानुभवापलापेन तदुच्छेदप्रसङ्गाच्छक्तिद्वयकल्प-
नागौरवाच्चेत्यस्वरसादाह - समे इति । इयं गोलरूपा भूमिः समन्तात् । स्वस्थानादभितः
सर्वत्र ब्रह्माण्डपरिधिपर्यन्तं समे तुल्ये ख आकाशे क्व कस्मिन्स्थले पततु । न कुत्रापि स्थिरे
[स्थिरै] वेत्यर्थः । तथा च शक्तिद्वयकल्पनं त्वत्संमताधःप्रदेशाभ्युपगमेन भूमेर्निराधारत्व-
निर्वाहायोक्तम् । वस्तुतस्तु भूमिगोलस्य ब्रह्माण्डगर्भविस्थानेन भूमिगोलादभितो ब्रह्माण्डा-
न्तर्नभसस्तुल्यतया तेनाऽऽधाररहितेन गुरुभूतेनापि भूमिगोलेन केनाऽऽकाशमार्गेण पतनीयं
विनिगमनाविरहादभितः पतनं युगपद्संभव्येवेति भूमेरभितस्तदूर्ध्वप्रदेशत्वाद