षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम् । १९
कृपाजलधिसंश्रिते मम मनस्सुखं भावय ॥ ४ ॥
भवति । इयं तु तादृशं श्रीव्रजशं संश्रिता । एतेन त्वत्सङ्गतो भगवत्सङ्गतो
भवतीति भावः सूचितः ॥ ४ ॥
श्रीहरिरायप्रणीतं टिप्पणम् ।
र्धश्चाऽपि वैराग्ये हरेरपि हरिर्यदी'त्यत्रोक्तं वैराग्यं निरूपितमित्यर्थः । एवं
षड्भिर्विशेषणैः षड् धर्मान्निरूप्य धर्मिस्वरूपं निरूपयन्ति कृपाजलधिसंश्रित
इति । प्रभुविशेषणपक्षे निरवधिकृपायुक्तत्वेन स्वरूपमेवाऽभिहितं न धर्मः । करुणा-
र्यास्तु नित्याविर्भूतधर्मत्वेन स्वरूपमध्यपातात् । अन्ये धर्मा नित्या अपि लीलोप-
योगिनस्तत्तल्लीलायां प्रकटीक्रियन्ते नाऽन्यदा । करुणा तु सर्वदाऽऽविर्भूतैव स्वरूप
इति सदा तद्युक्तत्वात्स्वरूपमेव सेति भावः । श्रीमद्यमुनापक्षे कृपाजलधिरपारकरुणो
भगवांस्तं सम्यगविच्छेदेन श्रितेति मुख्यस्वामिनीवर्द्धनारीनरवद्वा तत्स्वरूपमेवो-
क्तमिति भावः । मम मनस्सुखं भावयेति । पूर्वोक्तधर्मवति हरौ मम मनस्सुखं
भावेनाऽनुभूयमानानन्दस्तं भावय विचारय, कथं स भविष्यतीति । तद्विषयिणीं
चिन्तां कुर्वित्यर्थः । अनेन त्वच्चिन्तयैवाऽयमानन्दः प्राप्यो नाऽन्यसाधनैरिति भावो
निरूपितः । सम्बुद्धिपक्षे मम मनसि भगवत्स्वरूपानुभवजन्यं यत्सुखं तत् त्वं भावय
स्वमनस्यानयेत्यर्थः । अनेन त्वच्चेतसि समागतावेव तत्सुखं सर्वदाऽनुभवविषयो
श्रीपुरुषोत्तमप्रणीता विवृतिः ।
'भू व्याप्तौ' । क्रियाफलस्य कर्तृगामित्वाभावान्नाऽऽत्मनेपदम् । मनसः सुखं स्वामी-
ष्टरीतिकं भगवत्प्राप्त्येति तथा तां संपाद्य तदुत्पादयेति । आदित आप्राप्ति यथा
सुखं भवति तथा अनायासेन मनः प्रापयेति वा प्रार्थना । अत्राऽऽद्येन विशेषणेन
गुणेषु सङ्ख्याकालापरिच्छेदबोधनादतिसामर्थ्यरूपमैश्वर्यं बोधितम् । द्वितीयेन
"सवनशस्तदुपधार्य सुरेशाः शक्रशर्वपरमेष्ठिपुरोगा" इत्याद्युक्तदेवजेतृत्वरूपं वीर्यम् ।
तृतीयं तु विशेष्यमेव । तुरीयेण दातृत्वाद्यशः । पञ्चमेन ज्ञानम् । स्वसन्निधाना-
देव ज्ञानकार्यस्य विशुद्धत्वस्य मथुरायामाविर्भावात् । षष्ठेन श्रीः । 'चकास गोपी-
परिषद्गतोऽचितस्त्रैलोक्यलक्ष्म्यैकपदं वपुर्दधदि'ति तदावरणेनैव तत्प्रकाशात् । सकल-
पदेनाऽनीर्ष्याद्योतनाद्विवक्षितमपि गुणातीतत्वं स्फोरितम् । सप्तमेन वैराग्यम् ।
विरक्त एव हि कृपालुर्भवति, न तु रक्तः, रागस्य गर्द्धात्मकत्वात् । 'नाऽहमा-
१ करुणायाः स्वनित्याविर्भूतधर्मत्वेनेत्यादिः ङ.
२० श्रीयमुनाष्टकम् ।
यया चरणपद्मजा मुररिपोः प्रियम्भावुका
अथ भगवदीयानामप्युत्कर्षाधायिका या तदुत्कर्षं को वक्तुं शक्त
इति भावेनाऽऽहुर्ययेति । चरणपद्मजा गङ्गा । तेन भक्तिमार्गीया ।
श्रीहरिरायप्रणीतं टिप्पणम् ।
भवति । भगवताऽष्टविधैश्वर्यस्य त्वयि निक्षिप्तत्वात् स्वयं त्वदधीनः सर्वदाऽनीश्वर
इवेति त्वद्विचारेणैव तद्भवतीत्यभिप्रायः सूचितः । एतेनेत्यादिना तव सर्वदा तद्द्रवी-
भूतरसात्मकत्वेन लीलाविशिष्टप्रभुसङ्गतत्वाद्येन केनाऽपि सम्बन्धेन त्वत्सङ्गतौ तादृ-
क्प्रभुसङ्गतिरेव जातेत्याशयोऽत्र बोध्यः ॥ ४ ॥
अथेत्यार्थान्तरोपक्रमे । पूर्वं चतुर्भिः श्लोकैरूत्कर्षवर्णनेन स्तुतिः कृता । अतः
परमुत्कर्षवर्णनस्याऽशक्यत्वनिरूपणेन सा निरूप्यत इत्यर्थः । भगवदीयानाम-
पीति, भगवता भगवदीयत्वरूपपरमोत्कर्षं प्रापितानामपीत्यर्थः । चरणपद्मजेति,
चरणजेत्येतावर्तव चारितार्थ्येऽपि पद्मपदोपादानस्याऽयमाशयः । यथा पद्मजो ब्रह्मा
भगवतः पपञ्चे क्रीडार्थं भगवदाज्ञां च प्राप्य प्रपञ्चं सृष्टवान् स्वयं निरपेक्षस्तथेय-
मपि स्वगतभगवच्चरणरेणुभिः सेवौपयिकदेहसम्पादनेन भगवतो भक्तिमार्गप्रकटने-
च्छामवगत्य स्वयमनपेक्षैव भगवत्क्रीडार्थं भगवदीयजनान् सृष्टवतीति । अत्र ब्रह्म-
वदाज्ञाऽभावोऽस्या भगवति साक्षात्सम्बन्धत्वेन हार्दवित्त्या । न हि हार्दविदो
लोकेऽप्याज्ञाप्यन्ते, अतिचतुरत्वादिति भावः । तेनेति, चरणपद्मजातत्वेनेत्यर्थः ।
चरणं हि निर्दोषपूर्णगुणं भक्तिरूपं च तज्जातत्वेना श्यामपि तद्गुणसङ्क्रमः । तथौ-
चाऽन्येषामपि सेविनां तथा करणमुचितम् । 'कारणगुणा हि कार्यगुणानामारम्भका'
श्रीपुरुषोत्तमप्रणीता विवृतिः ।
त्मानमाशासे मद्भक्तैः साधुभिर्विने'ति भक्तान् विना स्वस्मिन्नपि वैराग्यबोध-
नाच्च । तत्संश्रितत्वेन श्रीयमुनाया अपि तथात्वाच्च । अत्र भगवत्समानधर्मवत्त्वा-
ज्जीवस्याऽनायासेन भगवत्सम्बन्धसम्पादकत्वं तुरीयमैश्वर्यं स्फुटमेव । एवं चतुर्भिः
श्लोकैः स्वरूपं गुणाश्चोक्ताः ॥ ४ ॥
अतः परं पूर्वोक्तस्य सर्वस्याऽसत्समारेपणत्ववारणाय गुणानामानन्त्या-
द्विशेषो वाग्विषय इति तत्सत्ता दिङ्मात्रेणोच्यत इति बोधयितुमग्रिमः श्लोक
इत्याशयेन तमवतारयन्त्यथेत्यादि । अत एव प्रक्रमान्तरबोधकपदोक्तिः ।
१ सम्बन्धत्वेनेति क-ख-ग-घ-च. २ तथाऽन्येषामिति ख.
श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम् । २१
समागमनतो भवतसकलसिद्धिदा सेवताम् ।
निर्दोषपूर्णगुणाऽपि यया त्वया सह समागमनतो मिलनतो हरेस्तथाऽभवत् ।
श्रीहरिरायप्रणीतं टिप्पणम् ।
इति न्यायादिति भावः । यया त्वयेति, त्वया पुष्टिमार्गीयया सर्वाङ्गसम्बन्धिन्या
मिलनतो मुररिपोर्भक्तप्रतिबन्धनिवर्त्तकस्याऽत एव तद्दुःखहर्त्तुः प्रियम्भावुका । यथा
श्रीयमुना साक्षात्सेवोपयोगिदेहसम्पादनेन सेवकसृष्टिककरणात्तत्कृतसेवया प्रियम्भा-
वुका, तथा गङ्गा श्रीयमुनासङ्गानन्तरं तद्गतसरश्रमजलाणुसम्बन्धे साक्षात्सेवो-
श्रीपुरुषोत्तमप्रणीता विवृतिः ।
मिलनत इति । सञ्ज्ञापूर्वकस्य विधेरनित्यत्वादुणाभावः । तथाऽभवदिति ।
प्रियम्भावुका अभवत् । 'भुवः खिष्णुच् खुकञावि'त्यनेनाऽऽख्यादिभ्यः परस्य
भूधातोरिच्छ्यर्थे खुकञि प्रियम्भावुकशब्दसिद्धिः । तथाचाऽप्रिया प्रिया सम्पन्ने-
त्यर्थः । अप्रियत्वं चरणक्षालनजलत्वाद्भौतिकत्वाभ्यां च । तेनेत्याद्युक्तगुणवत्त्वं
तु चरणस्यैव माहात्म्यमतो न चोद्यावसरः। सेवतामित्यनुदात्तेत्त्वलक्षणस्याऽऽत्मने-
पदस्याऽनित्यत्वेन शतृप्रत्ययः । अत एव 'त्वां सेवतां सुरकृता बहवोऽन्तराया'
इत्याद्यार्षप्रयोगः । यद्वा । क्विबन्तो नामधातुप्रयोगः । सेवेवाऽऽचरताम् । सेवा
यथा प्रसादिका तथा स्तोत्रपाठादिना प्रसादयतामित्यर्थः । ननु पूर्वार्द्धोक्तेऽर्थे
किं मानमित्याकाङ्क्षायां तद्वदन्त एवोत्तरार्द्धं विवृण्वन्ति पूर्वमित्यादि । अन्य-
सङ्गतिजनितमिति । कुटिलाजलावरणजलशिवजटादिसङ्गतिजनितम्। वामनपुराणे
उमातो ज्येष्ठा हिमवत्सुता ब्रह्मशापेन नदी भूत्वा सत्यलोके प्रवहन्ती आर्षे
रामायणे गङ्गापदेन निर्दिष्टा । पञ्चमस्कन्धे “साक्षाद्यज्ञलिङ्गस्य विष्णोर्विक्रमतो
वामपदाङ्गुष्ठनखनिर्भिन्नोर्ध्वाण्डकटाहविवरेणाऽन्तः प्रविष्टाया बाह्यजलधारे”त्यादि-
नैका गङ्गोक्ता । पुराणान्तरे गोदामाहात्म्ये विवाहसप्तपदीसामयिकपार्वतीदर्शन-
जातेरेतःपातलज्जया बहिर्निर्गतस्य ब्रह्मणः पापापनुत्तये शिवेन पृथिवीसारतः
कमण्डलुं निर्माय तत्र सकलजलसारमादाय तस्मै दत्तं तन्त्रिविक्रमचरणक्षालनेन
गङ्गात्वमापन्नं भगीरथगौतमाभ्यां शिवजटाजूटद्वाराभेदेनाऽऽनीतम् । एतदेव “या
वै लसच्छ्रीतुलसीविमिश्रपादाब्जरेण्वभ्यधिकाम्बुनेत्री”ति प्रथमस्कन्ध उक्तम् । तिसृ-
१ सेवकसृष्टिकर्तृत्वतादिति ग-घ. २ तत्कृतेसेवायांमिति च, अ.
२२ श्रीयमुनाष्टकम् ।
तया सदृशतामियात्कमलजा सपत्नीव यद्धरि-
सेवतां च तथा । पूर्वं गङ्गाया अन्यसङ्गतिजनितमुत्कर्षमुक्त्वा भगव-
त्सङ्गतिजनित उत्कर्षः पठितः " सा राजन् दर्शनादेव ब्रह्महत्यापहा-
रिणी " त्यादिरूपः । एतादृश्या त्वया सह सदृशतां किं काऽपीयादिति
श्रीहरिरायप्रणीतं टिप्पणम् ।
पयोगिदेहादिसम्पादनपूर्वकं सेवकसृष्टिकरणात्तथा जाता । सेवतां भवन्मिलितगङ्गा-
सेवकानां च पूर्वोक्तसकलसिद्धिदा जातेत्यर्थः । अयमुत्कर्षः स्वानुभवेनोक्तः । परं
नाऽत्र चित्रं किञ्चित् । यो हि यदाविष्टः स तदा तत्कार्यं करोति । भगवदाविष्टभक्त
इव । अत एव " कस्याश्चित्पूतनायन्त्या " इत्यादिवाक्यानीति नाऽनुपपत्तिः ।
पूर्वमिति, यद्यपि पूर्वमाचार्यवर्यप्राकट्यात्पूर्वं पुराणादिष्वपि सरस्वतीसङ्गतिजनित-
मुत्कर्षमभिधाय भवतीसङ्गतिज उत्कर्षः पठितः । परन्तु "सा राजन् दर्शनादेव
ब्रह्महत्यापहारिणी"त्यादिरूपो न तु पूर्वोक्तरूपः । श्रीयमुनाया निजाचार्यप्राकट्या-
त्पूर्वमेवंविधस्वरूपज्ञानात्तदन्निरूपणात् । अतोऽयमेवोत्कर्ष एतत्सङ्गत्त्यनन्तरं भावी
मन्तव्य इति भावः । एतादृश्येति, स्वसम्बन्धेन स्वसमानगुणसम्पादिकयेत्यर्थः ।
श्रीपुरुषोत्तमप्रणीता विवृतिः ।
णामेकीभावेन पातेऽपि "विष्णोः पादाच्छिशुमाराद्ध्रुवाच्च सोमात्सूर्यान्मेरुरूपाच्च
विष्णोः । समागता शिवमूर्ध्नो हिमाद्रिमि"ति महाभारतेऽवतरणक्रम उक्तः ।
एवमग्रे तत्तत्क्षेत्रसम्बन्धे तत्तत्पुराणेषु तत्तत्कृत उत्कर्षश्चेति तथा । आदिपदेन
"सितासिते सरिते यत्र सङ्गते तत्राऽऽप्लुतासो दिवमुत्पतन्ति । ये वै तन्वां
विसृजन्ति धीरास्ते जनासो अमृतत्वं भजन्त" इति श्रुतिरन्यच्च सङ्गृहीतम् ।
तेन श्रीयमुनासङ्गमात्सेवकसकलसिद्धिदातृत्वं स्पष्टमेवेति बोधितम् । भगव-
त्प्रियम्भावुकत्वं तु समागम एव माहात्म्याधिक्यबोधनाद्भगवत्प्रियत्व एव च
तथाभावात् । अन्यथा चर्मण्वत्यादिनद्यन्तरस्याऽपि तथात्वापत्तेः । अतस्तदेतैरेव
वाक्यैः सिद्धयतीति तत्र विशेषतः प्रमाणान्तरं नोपन्यस्तम् । यद्वा । "आकेस्तच्छी-
लतद्धर्मतत्साधुकारिष्व"त्यधिकारस्थितेन "लषपते"ति सूत्रेण भुञ् उक्तम् । तथा च
१ भवतीसङ्गति० पाठ. २ पूर्वकसेवाकारणादिति ग-घ. पूर्वकसेवाकरणादिति क. पूर्वकं सेवाकरणादिति ङ.
पूर्वकं तत्सेवाकरणादिति ख-च. पूर्वकं सेवाकारणादिति मुद्रितग्रन्थे स्वीकृतः । अ ग्रन्थे उपरि निर्दिष्टोन्वर्थः
पाठः वर्तते सोऽस्माभिः स्वीकृतः ३ भवत्सङ्गतिज इति च, भगवत्सङ्गतिज इति ग.
श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम् । २३
प्रियकलिन्दया मनसि मे सदा स्थीयताम् ॥ ५ ॥
काकूक्तिः । यदीयात् कमलजेयात् । तत्र हेतुमाहुर्यद्यस्मात्सा भगवत्पत्नी-
त्वात्सपत्नी भवति । तत्रा१पि भवती प्रियेति—इवेति । भक्तानुगुणत्वमाहु-
र्हरिप्रियाणां कलिं (दोषं) यति खण्डयति ॥ ५ ॥
श्रीहरिरायप्रणीतं टिप्पणम् ।
भगवत्पत्नीत्वादिति, पत्नीत्वादेव सपत्नीत्वं न तु पुष्टिमार्गीयलीलासम्बन्धित्व-
भक्तानुगुणत्वादिगुणैरित्यर्थः । तत्राऽपीति, पत्नीत्वेऽपीत्यर्थः । भक्तानुगुणत्व-
मिति, दोषनिवर्त्तकत्वेनेत्यर्थः । गुणस्तु हरिप्रियपदेनैव सिद्ध इति भावः । मनसि
मे सदा स्थीयतामिति मूले। मनसो भावाधिष्ठानत्वेन तत्र पूर्वोक्तधर्मवत्याः सतत-
स्थितौ भावस्याऽपि निर्दोषपूर्णगुणत्वं सेत्स्यतीति भावः ॥ ५ ॥
श्रीपुरुषोत्तमप्रणीता विवृतिः ।
मुररिपोः प्रियं यथा स्यात्तथा भावुका भवनसाधुकारिणी। भगवत्सेवायोग्यशरीरोत्प-
त्तिसाधिकेत्यर्थः । कमलजेति । लक्ष्म्याः कमलजत्वं विष्णुपुराणे "पुनश्च
पद्मादुद्भूता आदित्योऽभूद्यदा हरिरि"ति लक्ष्म्यवतारकथने । "नमस्ते सर्वभूतानां
जननीमब्जसम्भवामि"तीन्द्रस्तुतौ च स्फुटम् । अतिप्रियत्वे प्रमाणं कार्यलिङ्ग-
कानुमानमेवेति मूलाशयमुद्घाटयन्ति भक्तेत्यादि, कलिं यतीति । अत्र "तत्पुरुषे
कृति बहुलमि"ति बहुलग्रहणाद्वितीयाया अलुक् । एतेन लक्ष्म्यंशास्तदाविष्टाश्च
सापत्न्येनेर्ष्यावत्यो भवन्ति, भवती तु तासां तदपाकरोतीति गुणातीतत्वं
प्रियत्वबीजभूतं कार्यद्वारा निश्चायितम् । कलिन्देयेति भावप्रधानो निर्देशः ।
तथाचाऽनेन रूपेण मे मनसि सदा स्थीयतामिति तदावेशेन स्वस्य भगवत्प्रि-
यत्वफलिका द्वितीया प्रार्थना । पूर्वश्लोकोक्तसम्बुद्धिभिश्चारितार्थ्यान्न पुनस्तदुक्तिः ।
अत्र भगवत्प्रियकलिनिवारकत्वरूपं पञ्चममैश्वर्यं स्फुटमेव ॥ ५ ॥
१ तत्रापि प्रियेति वेतीति ख. तत्रापि भगवती प्रियातीवेतीति ग. दृष्टस्त्वेवम्.
२४ श्रीयमुनाष्टकम् ।
नमोऽस्तु यमुने सदा तव चरित्रमत्यद्भुतं
न जातु यमयातना भवति ते पयःपानतः ।
एतादृश्यां त्वयि नमनातिरिक्तं न वक्तुं शक्यमित्याशयेनाऽऽहु-
र्नमोऽस्त्विति । त्वयि नमनमपि दुर्लभमतः प्रार्थ्यते अस्त्विति । अद्भुत-
त्वमेवाऽग्रे उपपादितम् ॥ ६ ॥
श्रीहरिरायप्रणीतं टिप्पणम् ।
एतादृश्यामिति । भक्तोत्कर्षाधायिकायां भक्तानुगुणायां चेत्यर्थः । एते-
नैतादृगुपकर्त्र्या प्रत्युपकृत्यसम्भवेन यथाकथञ्चिन्नमनमेव माहात्म्यज्ञानात्सम्भवति
नाऽन्यदित्युक्तं भवति । नमनमपीति । भगवति नमनं सम्भवत्यपि । भगवन्माहा-
त्म्यस्य शास्त्रसिद्धत्वात् । भवत्यां तु लीलासृष्टिप्रवेशे तादृग्भावसम्पत्तौ तत एव तथा-
विधभावावगतौ तद्भवतीति दुर्लभमेवेत्यर्थः । अद्भुतत्वमेवेति । मूले अति-
१शब्दादद्भुतत्वमपि तथाविधं वाच्यम् । तत्राऽयं भावः । भगवानद्भुतकर्मा, “कृष्णा-
श्रीपुरुषोत्तमप्रणीता विवृतिः ।
एवं निरस्तसाम्यत्वबोधनेनाऽधिकवर्णनाशक्तिं समर्थयित्वा ‘नमामी’त्यादौ
नमनस्याऽग्रे ‘नमते’त्युपदेशे कैमुतिकेन हेतुतोक्त्याऽपि चारितार्थाद्यन्न पूर्वोक्त आचार्या-
शय इति शङ्कां वारयितुं भगवत्कृपाङ्कुरं विना श्रीयमुनानमनमपि कोऽपि कर्तुं न
शक्तः कुतस्तरां नमनातिरिक्तमित्याशयमग्रेिमे स्वयमेव प्रकाशयन्तीति नाऽस्मदुक्तं
विरुद्धमित्याशयेनाऽग्रिममवतारयन्त्येतादृश्यामित्यादि । एतादृश्यामिति वैषयिका-
धिकरणसप्तमी । दुर्लभमिति । भगवत्कृपाङ्कुरं विना तत्र तादृक्श्रद्धाया एवाऽनुदयात्त-
थेत्यर्थः । ननु प्रार्थनाव्यतिरिक्ताथ्र्थान्तरेऽपि तथा प्रयोगान्नेदं गमकमित्यत
आहुरद्भुतत्वमेवेत्यादि । अन्यथा चरित्रस्याऽद्भुतत्वं नोपपादयेयुः । इदमपि
तत्रैवोक्तम् । “गण्डूषमात्रमप्यम्बु पीत्वा भवति सोमपाः । सप्तकृत्वश्च सप्तैव
सोमसंस्थाः समाप्नुयादि”ति । “विनिग्राहास्त्वया आतर्ये नराः पापकारिणः ।
तानहं तारयिष्यामि प्राप्स्यामि च सुरालयमि”ति । तथा च यस्या ईदृशं
चरित्रं तस्या उत्कर्षज्ञानं न भगवत्कृपाङ्कुरं विना, तदभावे तदभावान्न नमनमपी-
त्यतिदुर्लभत्वात्तदर्थमपि कृपाऽपेक्षेतेति प्रार्थनैऽवार्थ इति भावः । मूले पयःपाने
१ अत्युपसर्गादिति ख-ग-घ. २ अद्भुततमपीति क-ग-घ.
श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम्। २५
यमोऽपि भगिनीसुतान्कथमु हन्ति दुष्टानपि
प्रियो भवति सेवनात्तव हरेर्यथा गोपिकाः ॥ ६ ॥
श्रीहरिरायप्रणीतं टिप्पणम् ।
याऽद्भुतकर्मण" इत्याचार्यैर्निरूपितत्वात् । तच्च "असाधनं साधनं करोति" इत्यादि-
रूपम् । यथाऽसाधनं कामादि प्रमेयबलप्राकट्येन साधनं भगवद्भावनाहेतुत्वेन । तत्र
विषयत्वेन स्वप्रवेशात् । अत एव 'गोप्यः कामादि'त्यादिवाक्यानि । उक्तं चाऽऽचार्यवर्यैः
'कामान्ता च कृतिः स्फुटा । कामोद्भूते तथा प्रीतिरि'ति । एवं सति भगवानसाधन-
मपि स्वरूपबलेन साधनं करोति । तथाविधस्वरूपप्रदर्शनेन तादृग्भावजननात् । अत्र तु
भावनाभावेऽपि असाधनं पयःपानं पिपासाहेतुकं तथा फलसाधकं साधनीकरणा-
भावेऽपीत्यत्यद्भुतत्वमेतच्चरित्रस्येति भावः । न हि पिपासया पानीयपाने काऽपि
तद्भावना सम्भवति । अतस्तदसाधनमेव । ननु यमयातनाभावस्तु भगवन्नाम्नाऽपि
भवतीति को विशेष एतच्चरित्र इति चेत्तत्राऽऽहुर्जातु इति मूले । कदाचिन्नामाप-
राधेपु सत्सु गुरुवैमुख्यदुःसङ्गवर्जनरूपाङ्गद्वयाभावे न फलत्यपि नाम, न तथा
प्रकृते । न हि पिपासया पाने नामग्रहण इव किञ्चिदङ्गमपेक्ष्यम् । अतो महानेव
विशेष इति भावः । नन्वत्र कोपपत्तिः पयःपानेन यमयातनाभावे । लौकिकेन
तेनाऽदृष्टाजननात् । नाऽपि दृष्टद्वारा, असम्भवात् । न हि पिपासाहेतुकपयःपानस्य
श्रीपुरुषोत्तमप्रणीता विवृतिः ।
युष्मदनुरोधेन यातनाभावेऽपि स्वस्याऽधिकृतत्वादल्पदण्डं तु दास्यत्येवेत्यत
आहुर्यमोऽपीत्यादि । उस्तर्के । इदमपि तत्रैव, "यमुने कृपया पापानवशं तार-
यिष्यसि । मयि त्वया दया कार्या निर्दये निगृहीतरी'ति यमेनोक्तम् । "एवमस्तु
मदम्भोभिः स्नात्वा त्वामादरान्नराः । दशभिश्च चतुर्भिश्च तर्पयिष्यन्ति नामाभिः । तेन
हिंसापरोऽपि त्वं धृतकल्पो भविष्यसि । निरातङ्का भविष्यन्ति भवतो येऽपि पापिन"
इति यमुनावाक्यैरेव सिद्धम् । उपपत्तिमात्रं परं तर्क्यत इत्यर्थः । यथा गोपिका इति ।
१ तच्चरित्रिति च. २ दर्शनेनेति क-ख-ग-घ. प्रदर्शने इति च. ३ पयःपानेन यमयातनाभावहेतुत्वं
क्विदपि लोके सिद्धमित्याशङ्कयाऽऽहुः - यमोऽपीति ख. पयःपानेन यमयातनाभावः । लौकिके पयःपाने कृते
अदृष्टे अलौकिको यमयातनाभावः । तस्याऽनुत्पत्तिः । नापि दृष्टद्वारा । असम्भवादित्यादिः च.
४
२६ श्रीयमुनाष्टकम्।
श्रीहरिरायप्रणीतं टिप्पणम्।
यमयातनाभावहेतुत्वं क्वचिदपि लोके सिद्धमित्याशङ्कयाऽऽहुर्यमोऽपीति मूले।
श्रीयमुना हि यमभगिनी, सूर्यापत्यत्वात्। तत्राऽपि कनिष्ठा, यमोत्पत्त्यनन्तरं तद्दो-
षपरिहाराय रविणा पश्चादुत्पादितत्वात्। अतो यमसन्माननीया। तस्याः पयःपाने
तत्सुतत्वम्। पयःशब्दस्य श्लिष्टार्थकत्वात्। वस्तुतोऽपि पयःपानेन तत् सुत-
त्वम्। पञ्च महाभूता तदपेक्षया जलस्यैव मुख्यत्वं, पयसैव
देहोत्पत्तेः। भूतान्तरापेक्षया पयस एव विशेषतो देहोत्पादकत्वात्। "पञ्च-
म्यामाहुतावापः पुरुषवचसो भवन्ती"ति श्रुतेः। तादृशेषु दोषसत्त्वेऽपि भागिनेय-
त्वेनाऽतिमान्यत्वात्स्वत एव कथं यमस्ताँस्तथा करोतीत्यर्थः। एवं दोषनिवारक-
मद्भुतचरित्रमुक्त्वा फलसम्पादकमद्भुतचरित्रमाहुः प्रियो भवतीति मूले। भग-
वदङ्गीकृतानां भगवदुक्तसाधनैर्भगवति प्रीतिसिद्धिर्भगवच्छास्त्रसिद्धा, न तु भगवतो
जीवेषु प्रीतिः, तेषामविद्यादिदोषग्रस्तत्वात्। न हि निर्दोषः सदोषेषु रमते प्रीणाति
च। तव पुष्टिमार्गीयायाः सेवनात्सर्वभावेन चेतसस्त्वदधीनत्वकरणात्त्वदीयत्वे सम्पन्ने
स्वसम्बन्धिसम्बन्धाद्धरेः सर्वदुःखहर्तुस्तादृक्स्वभावस्य स सेवकस्तदीयः प्रियो भव-
तीत्यर्थः। इदमपि तवाऽद्भुतचरित्रम्, शास्त्रासिद्धत्वात्, लोकेऽपीतरतोषहेतुकृते-
रितरतोषासाधकत्वाच्च। ननु किं प्रमाणमत्र कुत्राऽप्येवं फलस्याऽदृष्टत्वादित्याशङ्क्य
दृष्टान्तमाहुर्यथा गोपिका इति मूले। यथा व्रतप्रसङ्गे फलप्रकरणीयगुणगानप्रसङ्गे
च तव सेवनाद् गोपिका हरेस्तथा जाताः। तथाऽन्योऽपि भगवत्सेवकस्तथा भव-
तीति भावः। अथवा। यथा गोपिका इति दृष्टान्तेन न प्रीतिमात्रं किन्तु यथा ताः
सर्वभावेन प्रीतिविषया भगवतस्तथाऽयमपि भवतीति भावः॥ ६॥
श्रीपुरुषोत्तमप्रणीता विवृतिः।
प्रियत्वे उदाहरणम्। अन्यथा बहुषु भक्तेषु सत्स्वप्येकादशे तास्वेवैतानत्वेन
प्रियत्वं न वदेदतस्तथेत्यर्थः। प्रियभवने दृष्टान्तश्चाऽयम्। सेवनस्य हेतोस्तुल्यत्वात्।
तेन ब्रह्मत्वेन सेवने "रसो यः परमाधार"इति तथा सेवकस्य प्रियत्वं युक्तमेव। अतः
प्रतिबन्धकनिवृत्तिरर्थादेव सिद्ध्यतीति भावः। एतावदन्तं व्याख्यानं प्रभूणाम्।
अग्रे तदाज्ञप्तश्रीगोकुलनाथानाम्। अत्राऽपि स्वसेवनाद्गोपिकावद्भगवत्प्रियत्वसम्पाद-
कत्वरूपं षष्ठमैश्वर्यं स्पष्टम्॥ ६॥
१ स्वसेवकस्तदीय इति च. २ प्रतीतिमात्रमिति च.
श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम् । २७
ममाऽस्तु तव सन्निधौ तनुनवत्वमेतावता
न दुर्लभतमा रतिर्मुररिपौ मुकुन्दप्रिये ।
श्रीगोकुलनाथचरणानाम् विवृतिः ।
आवश्यकदैहिकधर्मेऽपि त्वत्सम्बन्धे मुक्त्यधिकभक्तिप्राप्तिर्यत्र, तत्र
का शङ्का यमयातनाभाव इत्याहुर्ममाऽस्त्विति । तव सन्निधौ तनोर्नवत्वं
लीलोपयोगिनूतनदेहसम्पत्तिरस्तु । एतेन पूर्वदेहनिवृत्तिः सूचिता । इद-
मपि त्वत्कृतमेव भवति न त्वन्यथेति ज्ञापनार्थं प्रार्थनमस्त्विति । एतावता
श्रीहरिरायप्रणीतं टिप्पणम् ।
आवश्यक्येति । देहस्य देहान्तरारम्भकत्वमावश्यको दैहिको धर्मः “प्रज्ञया
शरीरं समारुह्ये”१त्यादिश्रुतेः । किं बहुना । मुक्तावपि भगवच्छास्त्रे सेवोपयोगि
वैकुण्ठादिषु देहान्तरम् । अत एवोक्तमाचार्यैः सेवाफलग्रन्थे—“सेवोपयोगिदेहो
वैकुण्ठादिष्वि”ति । तस्मिन्नपि त्वत्सम्बन्धे सान्निध्यसम्पादिते दै२शिकेऽपि सम्ब-
न्धे यत्र तथाविधभक्तिसिद्धिस्तत्र तत्र जातानां यमयातनाभावे का शङ्केति कैमुतिक-
न्यायो निरूप्यत इत्यर्थः । तव सन्निधाविति । एतेन दुष्टसन्निधानकृतत्वच्चिरो-
भावाभावस्थल एव तथात्वमित्याशयो ज्ञेय इति बोधितम् । पूर्वदेहनिवृत्तिरिति ।
घटस्य पाकेन३ मृत्त्वनिवृत्तिवन्निवृत्तिरत्र वाच्या । अन्यथा पूर्वतनोर्नवत्वमिति न
व्याख्यातं स्यादिति भावः ।
श्रीपुरुषोत्तमप्रणीता विवृतिः ।
तत्र च, एवमनेन स्वरूपसामर्थ्यं निश्चाययित्वा प्रियत्वोपयोगि यदभिप्रेतं
तत्रार्थयितुमग्रिमः श्लोक इत्याशयेन तमवतारयन्त्यावश्यकेत्यादि, आवश्यक-
दैहिकधर्मपदेन तीरवासात्मकं सेवनं पानं चेत्युभयमपि सङ्गृह्यते । पूर्वत्र सेवनपानयोः
फलस्योपपादितत्वेऽपि व्याख्यानाभावादत्राऽनुवादः । तथाच तीरवासात्मकत्वत्सेवन-
त्वज्जलपानरूपावश्यकदैहिकधर्मेऽपि त्वत्सम्बन्धे यत्र मुक्त्यधिकभक्तिप्राप्तिस्तत्र का
आशङ्का यमयातनाभाव इत्याशयेन पूर्वं प्रार्थनमाहुरित्यर्थः । तद्व्याकुर्वन्ति तवेत्यादि ।
तवे आधिदैविक्याः सन्निधौ भौतिकीमध्ये सन्निधाने तनोर्नवत्वं सिद्धिरूपलीलोपयो-
गिनूतनदेहसम्पत्तिरस्तु । अत्र तनुनवत्वं नैतच्छरीरेऽतिशयाधानमात्रपर्यवसायि,
किन्तु, पूर्वशरीरनिवृत्तिपूर्वकाभीष्टदेहान्तरप्राप्तिपर्यन्तमित्याशयं स्फुटीकुर्वन्ति एतेने-
त्यादि । एतेन नवत्वस्य नूतनदेहसम्पत्तिपर्यन्तत्वकथनेन पूर्वशरीरनिवृत्तिः सूचिता,
१ शरीरमारुह्येति ख. २ दैहिकेऽपीति ग. युक्तन्तु यथानिवेशमिति न प्रस्मार्थ्यम् । ३ परिपाके नामरूप-
निवृत्तिवद् इति पाठः अ.
२८ श्रीयमुनाष्टकम् ।
अतोऽस्तु तव लालना सुरधुनी परं सङ्गमात्
तवैव भुवि कीर्तिता न तु कदापि पुष्टिस्थितैः ॥ ७ ॥
शरीरपरिवर्त्तमात्रेणैव मुररिपौ रतिर्दुर्लभतमा न भवतीत्यर्थः । किन्तु तनु-
नवत्वेन सुलभव । कदाचित्प्रतिबन्धके विद्यमानेऽपि यथा जलदोषरूपमुरस्य
निवारकस्तथा त्वत्सम्बन्धात्सर्वदोषनिवारकत्वं मुररिपुपदेनोक्तम् । अतः
कारणाद्यावदाधुनिकशरीरनिवृत्तिस्तावत्तव लालना स्तुतिरूपा अस्तु । साऽपि
श्रीहरिरायप्रणीतं टिप्पणम् ।
दुर्लभतमा नेति । त्वत्सम्बन्धस्यैव दुर्लभत्वेन सा भगवति दुर्लभा तु
भवत्येवेति तमप्प्रत्ययाशयो बोध्यः । प्रतिबन्धक इति । भक्त्युत्पत्तावित्यर्थः ।
त्वत्सम्बन्धादिति । यथा नरकासुरनिरुद्धकन्याऽनुग्रहाय तत्सम्बन्धाज्जलदोष-
रूपमुरस्य निवारकस्तथा त्वत्सम्बन्धात्तदीयसर्वसेवकदोषनिवारक इति भावः ।
एतेन त्वत्सम्बन्धिनां भगवद्रतिप्रतिबन्धनिरसनायाऽपि यत्नो न विधेय इत्युक्तम् ।
मुकुन्दप्रिय इति मूले । पदतात्पर्यं तु-भगवान् मुकुन्दो मोक्षदाता गृह
एव चतुर्विधपुरुषार्थं भावेन स्वयमाविर्भूयाऽनुभावयन् तादृशसमाजसत्यसम्पादनेन
स्वतन्त्रभक्त्या भगवदीयत्वसम्पादकस्तादृशस्य प्रियात्वेन तद्धर्मवत्त्वात् भगवदीयत्व-
सम्पादकत्वमस्या इति स्वतन्त्रभक्तिदायिकात्वेन परमोत्कर्षो निरूपितो भवतीति तथा
सम्बोधनमिति । अतः कारणादिति । यतो यथाकथञ्चित्त्वत्सम्बन्धे प्रतिबन्ध-
निवृत्तिपूर्वकभक्तिप्राप्तिसौलभ्यमतः कारणादित्यर्थः । यावदाधुनिकेति । नवीने
श्रीपुरुषोत्तमप्रणीता विवृत्तिः ।
अर्थबलादेव बोधितेत्यर्थः । इदमिति । पूर्वोक्तमुभयम् । ननु किमिति द्वयं प्रार्थ्यते
एतस्य शरीरस्यैव कुतो नवत्वं न प्रार्थ्यत इत्यत आहुरेतावतेत्यादि । शरीरस्य
यः परिवर्त्तः पूर्वधर्मनिवृत्तिपूर्विका धर्मान्तरवत्ता, तन्मात्रेणैव मुररिपौ दोषनिवर्त्तके
भगवति रतिर्दुर्लभतमा न भवति, तथापि लीला तु दुर्लभतमा भवत्येव । अतो न
प्रार्थ्यत इत्यर्थः । तदेतत्स्फुटीकुर्वन्ति कदाचिदित्यादि उक्तमित्यन्तम् । श्रीहरि-
रायास्तु लीलोपयोगिदेहप्राप्तिं परमभक्तिप्राप्तिमात्रसाध्यां मन्वानाः पूर्वदेहनिवृत्तिं
मृद्धटपाकदृष्टान्तेनैतद्देहेऽतिशयाधानमात्रपर्यवसितामङ्गीकुर्वन्ति । तदपि पूर्वपक्षावि-
श्रान्तमिति न विरोधः । मुकुन्दप्रिय इति तु न व्याख्यातम् । मोक्षदातृत्वस्य
१ दुर्लभा न भवत्येवेति ग, २ चतुर्विधपुरुषार्थभावेनेति ख, ३ स्वतन्त्रभक्तदायकत्वेनेति ख च,
श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम् । २९
त्वत्कृपयैव नाऽन्यथेति प्रार्थ्यतेऽस्त्विति । गङ्गाया अपि फलसाधकत्वं
त्वत्सम्बन्धादेवेत्यत आहुः, सुरधुनी तव सङ्गमात् परं अत्यर्थं भुवि की-
र्तिता स्तुतेत्यर्थः, न तु कदापि त्वद्रहिताऽपीत्यर्थः । ननु क्वचित्पुराणादौ
केवलाया अपि स्तुतिर्दृश्यत इति स्तुतौ विशेषमाहुः पुष्टिस्थितैरिति । मर्यादा-
मार्गीयैः केवलाऽपि स्तूयते त्वत्स्वरूपाज्ञानात् । पुष्टिमार्गीयास्तु त्वत्स्वरूपं
जानन्तीति त्वत्सम्बन्धादेव स्तुवन्तीत्याहुः पुष्टिस्थितैरिति ॥ ७ ॥
श्रीहरिरायप्रणीतं टिप्पणम् ।
अलौकिके तु शरीरान्तरे सम्पन्ने लीलारसानुभव एव त्वत्तीरे भवेदिति भावः ।
लालना स्तुतिरूपेति । यथा जननी लालनसमये प्रेम्णा बालकं स्तौति । सा
स्तुतिरपि लालनैव न तु गुणकीर्त्तनम् । लालनमध्यपातित्वात् । तथैषाऽपि स्तुति-
र्लालनैवेति स्तुतिरूपेत्युक्तमित्यर्थः । फलसाधकत्वमिति, पुष्टिमार्गीयफलसाधकत्व-
मित्यर्थः । पुष्टिमार्गीयं फलं तु साक्षात्पुरुषोत्तमलीलासम्बन्धोऽलौकिकदेहसिद्ध्या,
तत्सम्पादकत्वं तु गङ्गायास्त्वत्सम्बन्धादेव । अन्यथा "स्रोतसामस्मि जाह्नवी"ति
वाक्येन तस्या विभूतिरूपत्वेन निरूपणादेतत्फलसाधकत्वमुच्यमानं बाधितं स्यात् ।
श्रीपुरुषोत्तमप्रणीता विवृतिः ।
स्वाभाविकत्वेऽपि भवदनुरोधेनाऽलौकिकं देहं दास्यतीत्याशयस्य प्रियापदादेव स्फुटं
स्फुरणात् । प्रियत्वं तु तत्रैव "विष्णुदयिते"ति नाम्नोक्तम् । अतःकारणादिति ।
यतो भवती प्रिया । तथाच तदवधि लालनारूपं तदनुकूलमिदं द्वितीयं प्रार्थितं देय-
मिति भावः। ननु तनुभवत्वरूपं फलमन्यथा सिद्धं गङ्गायाऽपि सम्भवादतस्तदर्थं तत्स्तु-
तिरेव कार्येत्याशङ्कायां तन्निरासाय श्लोकशेष इत्याशयेन तमवतारयन्ति गङ्गाया
इत्यादि । इदमपि "सितासिते"इति मन्त्रोत्तराद्धू एव सिद्धम् । अस्याऽपि मन्त्रस्य-
कृत्वेन "गोप्यो गावः ऋचस्तस्ये"ति श्रुत्यन्तरे तासां गोपीत्वेन पुष्टिस्थितत्वात्केव-
लगङ्गाया एव माहात्म्यस्य तत्राऽस्फुटत्वाच्च । अत्र पुष्टिस्थितपदेन तदुक्तिराधिदैविक-
सङ्ग्रहाय । व्रजस्थकृतस्य केवलगङ्गाकीर्त्तनस्य श्रीभागवते अदर्शनादिति । आहु-
रिति । स्वपूर्वोक्तेऽर्थेऽभियुक्तसंमतिमाहुरित्यर्थः । व्याख्यानं तूत्तानार्थम् । इदं चाऽ-
र्थादेव सिद्धम् । पुष्टिमार्गीयाणां भजनानन्दाभिलाषुकत्वेन तदुपयोगिन एव स्तुत्य-
त्वात् । लोकादपि तथा निश्चयात् । योजना तु—सुरधुनी भुवि कीर्तिता, परं तवैव
१ तत्तीरे इति क-ग-घ-ङ-च.
३० श्रीयमुनाष्टकम् ।
स्तुतिं तव करोति कः कमलजासपत्नि प्रिये
यत्र त्वत्सम्बन्धात्सर्ववन्द्यगङ्गास्तुतिस्तत्र त्वत्स्तुतौ को वा समर्थ
इत्याहुः स्तुतिं तवेति । अशक्यस्तुतित्वे हेतुमाहुः कमलजासपत्नीति ।
श्रीहरिरायप्रणीतं टिप्पणम् ।
अत एव पुष्टिस्थितैरित्युक्तम्, अन्येषामेतन्माहात्म्यानवगतेः । पद्यपदलापनिका तु,
पुष्टिस्थितैः निःसाधनानुग्रहमार्गनिष्ठैः सुरधुनी लोकान्तरनदी भुवि तु पुनर्न कदाऽपि
कीर्त्तिता तादृक्पुष्टिमार्गीयफलसाधकत्वेनेति । परं किन्तु सर्वदैव तवैव सङ्गमात्
सा तथा कीर्त्तिता। अतः सर्वदा तव लालना पूर्वोक्तरूपाऽस्त्विति सम्बन्धो ज्ञेयः ॥७॥
अशक्यस्तुतित्व इति। वाग्गोचरमाहात्म्यसत्त्वाद्यथा रसस्वरूपानन्देऽशक्य-
स्तुतित्वम् । “यतो वाच” इति श्रुतेः । तथाऽत्राऽपीति भावः । कमलजासपत्नीति
हेतुनिरूपणम् । सपत्नीत्वेन लक्ष्मीविरुद्धस्वभावत्वादित्यर्थः । अयमभिप्रायः ।
लक्ष्मीर्हि प्रमाणसिद्धब्रह्मानन्दस्वरूपा । अतः प्रमाणभूतैर्वेदादिवाक्यैर्लक्ष्मीमाहात्म्य-
निरूपणमुपपद्येताऽपि । त्वं तु पुष्टिलीलास्थत्वेन तदतीताप्रमेयानन्दरूपेति 'यतो वाच'
श्रीपुरुषोत्तमप्रणीता विवृतिः ।
सङ्गमात् । तत्र गमकं, पुष्टिस्थितैस्तु कदापि नेति । केवला न कीर्त्तितेत्यर्थ इति
समीची भाति। तथाच सेवोपयोगिदेहसम्पादकत्वं गङ्गाया अस्ति, परं नाऽभीष्टसेवो-
पयोगिदेहसम्पादकत्वम् । तेन नाऽन्यथा सिद्धिः । यदि तया सा स्यादभियुक्तैः साऽपि
स्तूयेत । तदभावा'द्यया चरणपङ्कजे'त्यर्द्धेनोक्तोऽर्थ उपपन्नतर इति भावः । अत्राऽपि
तनुभवत्वरूपं सप्तमैश्वर्यं स्पष्टमेव ॥ ७ ॥
नन्वस्तु गङ्गापेक्षया स्तुत्यत्वम् । सम्बन्धाधिक्यात्, न तु लक्ष्म्यपेक्षयाऽपि । तथा
सति तनुभवत्वार्थं सैव स्तोतव्या । यत्पुनस्तया सदृशतामित्यर्द्धेनोक्तमतिप्रियत्वं तत्तु
भक्तमानापनोदकेषु गुणातीतभक्तान्तरेष्वपि । कलिनिवारकत्वधर्मस्य साधारणत्वान्न
तेनाऽनुमातुं शक्यमिति मानाभावान्नोपपन्नमित्याशङ्कायां, लक्ष्म्यपेक्षया जीवोप-
कारकत्वं गङ्गायां सुप्रसिद्धमिति । तत आधिक्ये लक्ष्म्यपेक्षयोपकाराधिक्यं
कैमुतिकादेव सिद्ध्यतीति न लक्ष्म्यास्तदर्थं स्तोतव्यत्वमित्याशयेनाऽष्टमश्लोकमव-
तारयन्ति यत्रेत्यादि । उक्तार्थसूचनायाऽत्र सर्ववन्द्यपदम् । अतः परं कार्येणाऽतिप्रियत्व-
साधकोऽग्रिमग्रन्थ उक्तेऽर्थे हेतुत्वमपि भजत इत्याशयेन तमवतारयन्त्यशक्यैत्यादि ।
१ सा पूर्वोक्तरूपेति ग-घ. २ रसरूपेति ख. ३ ब्रह्मानन्दरूपेति च.
श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम्। ३१
हरेर्यदनुसेवया भवति सौख्यमामोक्षतः ।
सर्वत्र स्तुत्यत्वं भगवत्सम्बन्धात् । स सर्वत्र लक्ष्म्यपेक्षया न्यून एव । त्वं
तु तस्या अपि सपत्नी तत्समानसौभाग्यवती । ननु लक्ष्मीस्तुतिस्तु लोके
दृश्यते । तर्हि तत्साम्यं चेत्कथं स्तुतिरशक्येत्याहुः प्रिये इति । साम्यमात्रे
कर्त्तुं शक्यत एव । अत्र तु ततोऽप्यधिकं प्रियत्वमस्तीति स्तुतिकरणमशक्यम्।
ननु कथं ज्ञायते लक्ष्म्यपेक्षयाऽऽधिक्यमस्तीति, तत्र हेतुमाहुर्हरेर्यदनुसेवयेति ।
श्रीहरिरायप्रणीतं टिप्पणम् ।
इति श्रुतेरशक्यस्तवेति विरुद्धस्वभावत्वात्सपत्नीति । लक्ष्म्याः स्तुत्यत्वमुपपादय-
न्ति सर्वत्रेति । लोके वेदे च स्तुत्यत्वं भगवत्सम्बन्धात् । तदभावे निन्द्यत्वमेव ।
“ मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिमि”ति वचनात् । सम्बन्धतारतम्येन
स्तुत्यत्वतारतम्यम् । तथाच सम्बन्धस्तु लक्ष्म्या निरतिशय एव, उरसि सर्वदा
निवासात् । अतः स्तुत्यत्वं तत्रोपपन्नमिति भावः । तत्समानसौभाग्यवतीति ।
अन्यासां भगवत्पत्नीनां लक्ष्म्यंशत्वेन तदधीनत्वम् । तव तु तत्समानसौभाग्यवत्त्वेन
लक्ष्मीवत्स्वातन्त्र्यमिति भावः । ननु लक्ष्मीस्तुतिस्त्विति । स्वातन्त्र्येऽपि साम्य-
सत्वे लक्ष्मीस्तुतिरिव कथमेतत्स्तुतिरशक्येत्याक्षेपार्थ इत्यर्थः । प्रिय इति सम्बोध-
नम् । स्वातन्त्र्येण साम्येऽपि प्रियत्वेन ततोऽप्याधिक्यसत्वान्न लक्ष्मीदृष्टान्तेन शक्य-
स्तुतित्वमस्या उपपद्येतेति भावः । अत एव “ श्रियं चाऽऽत्यन्तिकीं ब्रह्मन् येषां
गतिरहं परे”ति दुर्वाससं प्रति प्रभुरेवैतादृशानां ततोऽपि प्रियत्वमाहेत्याधिक्यं
प्रमाणसिद्धमेव । फलतोऽप्याधिक्यं वक्तुमाहुर्हरेर्यदनुसेवयेति । हरेः सम्बन्धिनी
या यदनुसेवा हरिसाहित्येन तत्रापि अनु पश्चाद्भगवत्सेवां विधाय गौणभावेन यस्याः
सेवा तया मोक्षं पुरुषोत्तमसायुज्यं मर्यादीकृत्य सालोक्यादिसुखं भवति । पुरुषोत्तम-
सायुज्यस्य भक्तिमार्गेण केवलभगवत्सेवासाध्यत्वात् । अत एवोक्तमाचार्यवर्यैः—
“ आदिमूर्त्तिः कृष्ण एव सेव्यः सायुज्यकाम्यये”ति निबन्धे । तत्रापि कृष्णपदेन
भक्तिप्राप्यः प्रभुरेवकारेण इतरनिरासश्चोक्तः । मोक्षप्राप्तिर्भवतीति । सालोक्या-
दिमोक्षप्राप्तिर्भवतीत्यर्थः । अत एव वैकुण्ठे लक्ष्मीसखीनां सालोक्यादिसुखं, न
१ तत्स्वातन्त्र्येऽपीति ख. २ प्रमाणप्रसिद्धमेवेति क. ग. घ. ङ. च. ३ केवलमिति ख.
३२ श्रीयमुनाष्टकम् ।
इयं तव कथाऽधिका सकलगोपिकासङ्गम-
स्मरश्रमजलाणुभिः सकलगात्रजैः सङ्गमः ॥ ८ ॥
हरेरनु पश्चाच्चर्याः सेवया मोक्षं मर्यादीकृत्य सुखं भवति । मोक्षप्राप्तिर्भवती-
त्यर्थः । न तु ततोऽप्यधिकं भजनानन्दाख्यं सुखं भवति । तदपि भगव-
त्सहिततद्भजनेन न तु केवलायाः, केवलाया मोक्षविघातकत्वात् । अनुशब्दा-
न्मुख्यतया भगवद्भजनम् । तदनुगुणत्वेन लक्ष्म्याः । कालिन्द्युत्कर्षमाहुरियं
तव कथेति । इयमग्रत उच्यमाना तव कथाऽपि सर्वमुक्त्यपेक्षयाऽधिका ।
अत एवैतत्कथारसिकानां न मोक्षेच्छागन्धोऽपि । तदेवोक्तं पञ्चमस्कन्धे—
“अथ ह वा व तव महिमामृतसमुद्रविप्रुषा सकृल्लीढया विस्मारितदृष्टश्रुत-
श्रीहरिरायप्रणीतं टिप्पणम् ।
लक्ष्मीवत्पुरुषोत्तमनित्यसंयोगरूपसायुज्यम्, तस्य लक्ष्मीमात्रभोग्यत्वात् । न हि
स्वभोग्यमन्येभ्यः कोऽपि दातुमीष्टे । अत एवोक्तं बालबोधे—“लोकेऽपि यत्प्रभु-
भुंङ्क्ते तन्न यच्छति कर्हिचिदि”ति । न तु ततोऽपीति । सायुज्यादप्यधिकमित्यर्थः । हरेरि-
त्यस्य पञ्चम्यन्तपदस्य सम्बन्धिवोधकस्य तात्पर्यमाहुस्तदपीति मोक्षसुखमपीत्यर्थः।केव-
लाया मोक्षविघातकत्वादिति। केवला भगवतः पुरुषोत्तमाद्भेदेन स्थिता विभूतिरूपा
भजनेन धनादिसम्पत्प्रदा तस्या विषयासक्तिहेतुत्वेन वैराग्यंविघातद्वारा मोक्षविघातक-
त्वमित्यर्थः । कालिन्द्युत्कर्षमिति, भजनानन्दरूपफलसाधकत्वेन लक्ष्मीत उत्कर्ष-
मित्यर्थः । सर्वमुक्त्यपेक्षयेति, लक्ष्मीतत्सेवकफलरूपसायुज्यसालोक्यादिमुक्त्यपे-
क्षयेत्यर्थः । अत एवेति, यतो मुक्त्यपेक्षयैतत्कथाया आधिक्यमित्यर्थः । एत-
त्कथारसिकानामिति । मोक्षे हि न भेदेन स्थितिरिति सर्वात्मभावलभ्यरसकथा-
श्रीपुरुषोत्तमप्रणीता विवृत्तिः ।
अनुशब्दोक्तस्य पश्चात्त्वस्य सापेक्षत्वादवधिं बोधयितुं हरेर्यदन्वित्येवं प्रतीकं तद्व्या-
ख्यानं चेति ज्ञेयम् । तेन न दोषः । शेषं स्फुटम् । एवं लक्ष्म्यपेक्षया गङ्गापेक्षया चा-
ऽऽधिक्यं साधयित्वा तत्र हेतुमुत्तरार्द्धेन वदन्तीत्याशयेन तमवतारयन्ति व्याकुर्वन्ति च
कालिन्द्यामित्यादि, इयमित्यादि च । सकलेत्यादि, इदमपि यमुनामाहात्म्ये “केलि-
१ सर्वत्र मुक्त्यपेक्षयेति ख. २ वैराग्यविघ्नद्वारेति च.
श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम्। ३३
सुखलेशाभासाः परमभागवता एकान्तिन" इति। सा केत्याकाङ्क्षायामाहुः
सकलगोपिकेति । सकलगोपिकासङ्गमेन स्मरसम्बन्धी यः श्रमस्तेन जनिता
ये स्वेदजलाणवः सकलगात्रजास्तैः सङ्गमो यस्याः । एते जलाणवो न श्रम-
स्वेदरूपाः किन्तु विविधसङ्गरसस्य सर्वावयवपूर्णस्याऽन्युच्छलनेन बहि-
रागतस्यैव बिन्दवो न तु केवलजलमात्रस्य । अत एवोक्तं सकलगात्रजै-
रिति। एभिर्विशेषणैः परमकाष्ठापन्नपुष्टिपुष्टिमार्गान्तरङ्गभक्तत्वं सर्वदैतद्रस-
पूर्णत्वमन्तरङ्गभक्तानुगुणत्वमेतल्लीलामध्यपातित्वादिकं सूचितम् । स्वस्यै-
तद्रसपूर्णत्वेन केवलैतद्भजनकर्तुरप्येतद्रसं ददातीति स्पष्टमेव वैल-
क्षण्यम् ॥८॥
श्रीहरिरायप्रणीतं टिप्पणम्।
रसिकानां तत्र तदभावान्न तदिच्छागन्धोऽपीत्यर्थः । "अथ ह वावे"त्यादिना
प्रमाणोपन्यासः । सा केति । कथेत्यर्थः । यस्या इति पञ्चमी षष्ठी च व्याख्येया ।
पञ्चमीपक्षे—यस्याः सकाशादन्येषामेतत्सम्बन्धिनामपि तत्सङ्गमः । षष्ठीपक्षे—
श्रीयमुनायास्तत्सङ्गमः। तदाऽपि कृपया तद्रसदातृत्वमित्यर्थः । एभिर्विशेषणै-
रिति । एतत्कथायां सकलगोपिकास्तत्सङ्गमः, सोऽपि रसावेशजनितो येन श्रमः
तेनोद्गतं स्वेदजलं तदीया अणवोऽतिसूक्ष्मबिन्दवस्तैः सङ्गमः, एतावन्ति कथा-
विशेषणानि तैरित्यर्थः । एतादृशी एतत्कथेत्यस्यामपि परमकाष्ठेत्याद्युक्तसकलधर्म-
वत्त्वं सूचितमित्यभिहितमिति भावः । केवलैतद्भजनकर्तुरपीति । अनन्यभजन-
कर्तुरित्यर्थः ॥ ८ ॥
श्रीपुरुषोत्तमप्रणीता विवृतिः ।
सलिले"ति नाम्नि प्रसिद्धम् । केलिः सलिले यस्या इति तदर्थात् । किञ्च । "ब्रह्म-
विद्यासुधावहा" इति नाम्न्यपि भगवतस्तरणलीलायां प्रवाहे गण्डूषपाताद्ब्रह्मविद्यारूप-
भगवन्मुखसुधां वहतीत्यपि स्फुटति । यद्यपि श्रमजलगण्डूषजलसम्बन्धो लीलासमय
एव, तथापि श्रीयमुनायाः सप्तसागरान् भित्त्वा सूर्यमण्डलाद् रङ्गवत्पुनःपुनरत्रागम-
नेन इदानीमपि सोऽस्तीति न किञ्चिदनुपपन्नम् । अत्रापि लीलाससायिकप्रभुश्रम-
जलकणसम्बन्धसम्पादकत्वरूपमष्टममैश्वर्यं स्पष्टमेव ॥ ८ ॥
१ पराकाष्ठापनेति क-ख.
५
३४ श्रीयमुनाष्टकम् ।
तवाष्टकमिदं मुदा पठति सूरसूते सदा*
समस्तदुरितक्षयो भवति वै मुकुन्दे रतिः।
एवं कालिन्दीं स्तुत्वैतत्स्तोत्रपाठफलमाहुस्तवाष्टकमिति । यद्य-
प्यन्यकृतान्यपि स्तोत्राणि सन्ति तथापि वक्ष्यमाणं फलमेतत्स्तोत्रपाठेनैव
भवति, नाऽन्येथेति ज्ञापनायेदमित्युक्तम् । अन्यकृतस्तोत्रेष्वेवंविधस्वरूप-
निरूपणाभावात् । इदं तवाष्टकं यः पठति तस्य पूर्वं समस्तदुरितक्षयो
भवति । तदनन्तरं मोक्षदातार्यपि स्नेहो भवति । अत एवोक्तं, "नराणां
क्षीणपापानां कृष्णे भक्तिः प्रजायत" इति । मुकुन्दपदाद्यद्यपि मोक्षमेव
साधारण्येन सर्वेभ्यो ददाति तथापि त्वत्स्तुतिपाठात्प्रसन्नो भक्तिमेव ददाति
न तु मोक्षमपीति भगवत्स्वभावपरावर्त्तकत्वमुक्तम् । ततः किमिति तत्राऽऽहुः।
तया सकलसिद्धयः पूर्वोक्ताः सर्वात्मभावादयो भवन्तीति शेषः । ननु प्रति-
श्रीहरिरायप्रणीतं टिप्पणम् ।
वक्ष्यमाणमिति । अनुपद्मेवाऽत्र पद्ये वक्ष्यमाणमित्यर्थः । समस्तेति
ब्रह्मसम्बन्धवदेकहेलया अखिलपापक्षय एतत्स्तोत्रपाठेन बोधितः। तदनन्तरमिति।
भक्तिप्रतिबन्धकसमस्तदुरितक्षयानन्तरमित्यर्थः । अन्यथा दुरितानामनन्तत्वेनैकदा
तन्निवृत्तौ रत्युत्पत्तेरनवसरपराहतिः स्यात् । अत एवेत्यादिना प्रमाणोपन्यासपुर-
स्सरं समस्तपापाभावस्य भगवद्भक्त्युत्पत्तौ हेतुता निरूपिता । यद्यपि "ज्ञानाग्निः
सर्वकर्माणी"ति वाक्याज्ज्ञानेनाऽपि सर्वकर्मनिवृत्तिः । परन्तु तत्र ज्ञानसाधने
क्लेशभूयस्त्वमत्र तु पाठमात्रेणैतत्स्तोत्रस्य सा भवतीत्यनायासेन तत्साधकत्वं पाठ-
स्येति तदुत्कर्षो ज्ञेयः । प्रसन्न इति । यथा लीला सृष्टिस्थेभ्यस्त्वत्साक्षात्कारात्
त्वत्सम्बन्धेन प्रसन्नस्तथा आधुनिकेभ्यः परोक्षे त्वत्स्तुतिपाठादेव प्रसन्नो भवती-
त्यर्थः । भक्तिमेवेति निश्चयवाचकं "वा" इत्यव्ययपदप्रयोगतात्पर्यं ज्ञेयम् । भगव-
त्स्वभावपरावर्त्तकत्वमिति । एतत्स्तोत्रपाठस्येत्यर्थः । अत्राऽयं भावः । भगवत्स्व-
भावः स्वामिनीभ्यो देयं फलमन्येभ्यो न प्रयच्छति । अन्यथानु कम्पापात्रमुद्धवं
व्रजे न प्रेषयेत् । स्वयमेव तादृग्भावं दद्यात् । एतत्स्तोत्रपाठे तु तत्कर्त्तरि
श्रीयमुनासम्बन्धावगमेन स्वामिनीभ्य इव स्वयमेव तादृग्भावं प्रयच्छतीति
तथेति भावः । ततः किमिति । ततो भगवद्भावाद्ग्रे किं भवतीत्यर्थः ।
- अत्र श्रीपुरुषोत्तमचरणानां व्याख्यानं किञ्चिदस्ति तत् श्लोकान्ते निवेशितम् ।
श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम् । ३५
तया सकलसिद्धयो मुररिपुश्च सन्तुष्यति
स्वभावविजयो भवेद्वदति वल्लभः श्रीहरेः ॥ ९ ॥
श्रीयमुनाष्टकस्तोत्रं सम्पूर्णम् ।
बन्धके विद्यमाने सति कथमेतत्स्तोत्रमात्रादेतावद्भवतीति चेत्तत्राऽऽहुर्मुररि-
पुश्च सन्तुष्यतीति । यथा दोषरूपं तन्निरुद्धकन्यासुखप्राप्तिप्रतिबन्धकं निरा-
कृत्य ता अङ्गीकृतवानेवमेतत्पाठनाऽपि प्रतिबन्धं निवार्य तमप्यङ्गीकरोती-
त्यपि ज्ञापनाय मुररिपुपदम् । फलान्तरमाहुः स्वभावविजयो भवेदिति ।
स्वभावस्य विजयः परावृत्तिर्भवति । सवासनेति व्युपसर्गार्थः । दुष्टस्वभा-
वोऽप्युत्तमस्वभावो भवतीत्यर्थः । नन्विदमनकेतपःसाध्यं कथमेतत्पाठमात्रा-
दिति चेत्तत्राऽऽहुर्वदति वल्लभ इति । तेनाऽऽप्तवाक्यत्वेन प्रामाण्यमुक्तम् ।
नन्वितः पूर्वं केनाऽप्यनुक्तत्वाद्वद्भवदुक्तिमात्रेण कथं प्रामाण्यमिति चेत्तत्रा-
ऽऽहुः श्रीहरेरिति । साक्षाच्छ्रीपुरुषोत्तमसम्बन्धी यतः, अहमतो वदामीत्यर्थः ।
श्रीहरिरायप्रणीतं टिप्पणम् ।
सन्तुष्यतीति । भगवत्प्रियात्वाद्यमुनायास्तत्स्तुतौ भगवत्तोषस्तत्रापि सम्यक्तोषो यथा
गोपिकासु । अत एव "प्रियो भवति सेवनात्तव हरेरि"ति पूर्वमुक्तम् । चकारेण स्वामि-
न्योऽपि तुष्यन्तीत्यर्थः । लोकेऽपि स्वस्तवनापेक्षया स्वप्रियस्तवनस्याऽतितोषहेतुत्वा-
दिति भावः। फलान्तरमिति । प्रथममेकं फलं समस्तदुरितक्षयपूर्वकसकलसिद्धिसहित-
भगवद्भावप्राप्तिरूपं निरूपितमित्यर्थः । स्वभावविजय इति । "काममयोऽयं पुरुष"
इति श्रुतेः स्वभावस्य कामभावरूपजीवस्वभावस्य परावृत्तिः सर्वात्मभावसिद्ध्या
भवतीत्यर्थः । यद्वा । स्वभावस्य सात्त्विकादिस्वभावस्य विजयः स्वाधीनीकरणं
लीलामात्रोपयोगितया प्रवर्त्तनरूपं स्वरूपतो गुणातीतत्वसिद्ध्या भवतीत्यर्थः ।
अथवा । स्वभावस्य भगवद्धर्मप्रवेशजन्यमानादिस्वभावस्य दैन्यभावसिद्ध्या परावृत्ति-
र्भवतीत्यर्थः । दुष्टस्वभाव इति । शुद्धपुष्टिमार्गविचारेण पूर्वोक्तरूपस्वभावस्य दुष्ट-
त्वमित्यर्थः । आप्तवाक्यत्वेनेति । यथार्थार्थवादित्वेनाऽऽप्तत्वम् । तच्चाऽऽचार्यचरणे-
ष्वेव सम्भवति । लीलास्सृष्टिसम्बन्धित्वेन लीलास्थभक्तजनफलजननदर्शनात् । अत
एतदाप्तत्वमेतेष्वेवेत्येतद्विषये स्वोक्तमेव प्रमाणमिति बोधनाय स्वनामोक्तिरिति
भावः । नन्वित्यादिना आप्तत्वसंशयमादाय पूर्वपक्षो ज्ञेयः । साक्षादित्यादिनिरूप-
णस्याऽयमभिप्रायः । हरिपदेन निःसाधनगजराजोद्धृतये तद्देन्येन प्रादुर्भूतः पुरुषो-
त्तम उच्यते । स च पुष्टिमार्गीयप्रभुरेव । सर्वसाधनराहित्ये केवलदैन्येन प्रादुर्भूत-
१ पूर्वकमिति क. ग. घ. ङ.
३६ श्रीयमुनाष्टकम् ।
अत्राऽयमाशयः । साक्षात्स्वरूपसम्बन्धिनां स्वरूपं साक्षात्तत्सम्बन्धिन एव
जानन्ति न त्वन्ये । श्रीकालिन्द्याः साक्षात्तत्सम्बन्धित्वं पूर्वं प्रकटमेवोपपा-
दितम् । स्वातिरिक्तानां साक्षाच्छ्रीगोकुलेशसम्बन्धाभावात्साक्षात्तत्सम्ब-
न्धिन्याः स्वरूपाज्ञानात्तदकथनम् । स्वस्य तु साक्षात्तादृशत्वात्तत्स्वरूपज्ञाना-
त्तत्कथनमिति नाऽनुपपत्तिः काचित् ।
इति श्रीविट्ठलेश्वरविरचिता श्रीयमुनाष्टकविवृतिः सम्पूर्णा ।
श्रीहरिरायप्रणीतं टिप्पणम् ।
त्वात् । अत एवाऽग्रे साक्षादित्युक्तम् । पुष्टिमार्गीयातिरिक्तेषु साक्षात्सम्बन्धाभावेन
साक्षात्स्वरूपप्रादुर्भावाभावात् । तत्र तु पुरुषोत्तमस्य विशुद्धसत्त्वव्यूहादिव्यवधानमेव ।
अत एव श्रीपदम् । सौन्दर्यादिरसानुभावकधर्मप्राकट्यस्य पुष्टिमार्ग एव सम्भवात् ।
तादृशस्य वल्लभत्वेन सम्बन्धीति मदुक्तौ नाऽस्त्वसंशयः पुष्टिपथानुगृहीतैरस्म-
दीयैर्विधेय इति दिक् ।
इति श्रीमन्निजाचार्यकृपया परया युतः ।
हरिदासश्चकारेदं टिप्पणं विवृतौ प्रभोः ॥ १ ॥
प्रसीदन्तु निजाचार्याः स्वदासे निजवंशगे ।
प्रयच्छन्तु स्वतो भावं यमुनासहिते हरौ ॥ २ ॥
इति श्रीमद्वल्लभाचार्यचरणतामरसपरागभिलाषिहरिदासप्रणीतं
श्रीयमुनाष्टकविवृतिटिप्पणं
सम्पूर्णम् ।
श्रीपुरुषोत्तमप्रणीता विवृत्तिः ।
नवमश्लोकतद्विवरणं चोक्तानार्थम् । तत्राऽपि मुदा सदेति पदाभ्यां स्वस्या-
स्तवोक्त्या चाऽऽनन्दस्य प्रत्यहमविच्छेदस्य स्वस्मिन्विश्वासस्य च पाठाङ्गत्वं श्रीम-
दाचार्यैर्दर्शितमिति बोध्यम् ॥ ९ ॥
श्रीयमुनाष्टकविवृतिः प्रभुचरणकृपाबलेन विवृतेयम् ।
यदि ह्रस्वमतिजदोषादसदुक्तं तत् क्षमन्तां मे ॥ १ ॥
इति श्रीमत्प्रभुचरणकृपाभिलाषुकतत्तद्दासपुरुषोत्तमविरचिता
श्रीयमुनाष्टकविवृतेर्विवृत्तिः
समाप्ता ।
श्रीकृष्णाय नमः ।
श्रीत्रिभङ्गीरायो जयति ।
श्रीगोपीजनवल्लभाय नमः ।
श्रीमद्भगवद्वदनावतारश्रीमद्वल्लभाचार्यचरणप्रणीतं
श्रीयमुनाष्टकम् ।
श्रीमत्प्रभुचरणविनिर्मितया टीकया
गो० श्रीद्वारिकेशचरणविरचिततट्टिप्पणेन च समलङ्कृतम् ।
मूलम्—नमामि यमुनामहं सकलसिद्धिहेतुं मुदा
गो० श्रीद्वारिकेशचरणविरचितं टिप्पणम् ।
नत्वा श्रीवल्लभाचार्यान्करुणारसपूरितान् ।
श्रीविठ्ठलेशांश्च विभून्निजेभ्यो बुद्धिदायकान् ॥ १ ॥
श्रीमदाचार्यचरणाः स्वीयानां भक्तिसिद्धये ।
अकार्षुः षोडशग्रन्थान्स्वसिद्धान्तार्थबोधकान् ॥ २ ॥
तद्व्याख्यानं कृतं पूर्वैः प्रभुभिश्च पृथक्कचित् ।
यमुनाष्टकमारभ्य सेवाफलमुदाहृताः ॥ ३ ॥
स्वगुरूनन्मथुरानाथान् गङ्गां च स्वीयमातरम् ।
हेतुः षोडशग्रन्थानां टीकानां च मयोच्यते ॥ ४ ॥
तत्र गोस्वामिप्रभूणां कृतीनां गणना—
यमुनाष्टकसिद्धान्तमुक्तावल्योस्तथा पुनः ।
नवरत्ने प्रकाशश्च त्रयं स्वैः प्रभुभिः कृतम् ॥ १ ॥
तट्टिप्पणं तु बहुभिर्वंशीयैर्बालकैः कृतम् ।
तत्कृपाबलमाश्रित्य तद्ग्रन्थान्विवृणोम्यहम् ॥ २ ॥
५॥
३८ श्रीयमुनाष्टकम् ।
तत्र ग्रन्थक्रमः पूर्वमुच्यते—
यमुनाष्टकमादौ तु श्रीकृष्णास्यं हि निर्ममे ।
मुकुन्दरतिसिद्ध्यर्थं दुरितक्षयपूर्वतः ॥ ३ ॥
स्वभावविजयार्थं च सुरस्योरेश्च तुष्टये ।
(जीवैस्तु नमनाधिक्यं नैव कर्तुं हि शक्यते ।)
नमनादतिरिक्तं तु कर्तुं जीवैर्न शक्यते ॥ ४ ॥
कृष्णस्य निरपेक्षत्वादिति स्वान्ते विचार्य हि ।
अधिकारस्य सिद्ध्यर्थं यमुनाष्टकमुज्जगौ ॥ ५ ॥
अग्रेऽधिकारसिद्धेस्तु कर्तव्यज्ञापनाय वै ।
सुपुरुषार्थसङ्क्षेपं बालबोधे न्यरूपयत् ॥ ६ ॥
पुरुषार्थपरिज्ञाने साध्यसाधनभावतः ।
सिद्धान्तमुक्तावल्यां तु सेवारूपं न्यदर्शयत् ॥ ७ ॥
तत्र— सेवा च द्विविधा प्रोक्ता बाह्याभ्यन्तरभेदतः ।
तन्निर्वाहाय सिद्धान्तरहस्यं प्रभुरुक्तवान् ॥ ८ ॥
तत्र बाह्यपदार्थानी शुद्धिम्क्ता समर्पणे ।
आन्तराणां तु शुद्ध्यर्थं नवरत्नं तथा पुनः ॥ ९ ॥
अन्तःकरणसम्बोधं प्रकटीकृतवान्स्वयम् ।
बाह्याभ्यन्तरयोः शुद्धिमेवमुत्पाद्य मत्प्रभुः ॥ १० ॥
तन्निर्वाहार्थं विवेकधैर्याश्रयमरीरचत् ।
तत्राश्रयश्चित्तदोषान्न स्थिरो भवतीति हि ॥ ११ ॥
विचार्य कृष्णाश्रयाख्यं ग्रन्थं सूक्ष्मं न्यरूपयत् ।
आश्रये तु स्थिरे सिद्धे स्वकीयार्थप्रसिद्धये ॥ १२ ॥
चतुःश्लोकीं चकाराग्निरुद्दिश्य स्वमनः प्रति ।
ततो मार्गत्रयस्यापि बोधनार्थं कृपानिधिः ॥ १३ ॥
पुष्टिप्रवाहमर्यादाग्रन्थं गूढमचीकरत् ।
एवं भक्तिप्रकरणं महाकारुणिकस्ततः ॥ १४ ॥
दृढीकृत्य प्रवृद्ध्यर्थमकरोद्भक्तिवर्द्धिनीम् ।
एवं भक्तिं वर्धयित्वा जलभेदमिषेण तु ॥ १५ ॥
भक्तानां लक्षणं प्राह सर्ववादिनिरासकृत् ।
पद्यानि च तदर्थे हि प्रोवाच निखिलेष्टदः ॥ १६ ॥