षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
१४ श्रीवल्लभकृतविवरणसमेता ।
ज्ञापनाय हिशब्दः । ननु पुष्टिमार्गस्य सर्वोत्कृष्टत्वं यद्यपि सर्वप्रमाणसिद्धम्, तथापि तन्मा-
र्गीयस्यापि वृत्रास्यासुरयोनिप्रवेशे को हेतुरित्याशङ्कानिरासायाहुः आसक्तावपीति । पुष्टि-
मार्गीयस्य स्वमार्गीयभगवत्स्वरूपातिरिक्तासक्तेरनुचितत्वात् वृत्रस्य पूर्वजन्मनि सङ्कर्षण-
स्वरूपासक्तत्वात् तस च साक्षात् पुरुषोत्तमत्वाभावात् तदासक्तिनिवृत्त्यर्थं शापं दापि-
तवान् । अथवा । अहङ्कारे सत्यपि क्वचित् लोके भक्ताय शापं दापयति । यथा परी-
क्षिति । कचिदितिपदात् अहङ्काराभावेपि क्वचित् शापो दृश्यते । यथेन्द्रद्युम्ने अगस्त्यशापः ।
शापायोग्येष्वपि भगवद्भक्तेषु शापानिमित्तोद्मनदर्शनेन यत् शापदानम्, तद्भगवदिच्छ-
यैव, नतु प्रकारान्तरेणेति ज्ञापनाय भगवानेवेत्यत्र एवकारः । तत्र शापदाने
हेतुमाहुः तन्मार्गस्थापनाय हीति । यस्य यस्मिन् मार्गे अङ्गीकारः, तस्य शापानन्तर-
मपि तन्मार्गाङ्गीकारस्य नित्यत्वेन तन्मार्ग एव स्थापनम्, न तु मार्गान्तरसम्बन्धस्तदर्थ-
मित्यर्थः । नित्यपदार्थस्य परावृत्त्यभावो युक्त इति ज्ञापनायोक्तं हीति । अतःपरं
शापानन्तरमपि मार्गाङ्गीकारस्थितिनित्यत्वज्ञापनप्रकारमाहुः न ते पाषण्डतां यान्तीति ।
यदि भगवदङ्गीकारस्य नित्यत्वं न स्यात्, तदा तेषां भगवत्सम्बन्धाभावात् पाषण्डित्वमेव
स्यात् । यदि तेषां भगवदङ्गीकारो न स्यात्, तदा कल्माषपादवत् ब्रह्मद्रोहरूपं दुष्टकर्म्माचरणं
स्यात् । अत एवोक्तं न ते पाषण्डतां यान्तीति । ते पाषण्डमार्गप्रविष्टा न भवन्ती-
त्यर्थः । एवमेकं मार्गाङ्गीकारनित्यत्वज्ञापकलक्षणमुक्त्वाव्यान्यान्यपि लक्षणान्याहुः । शापस्य
क्लेशहेतुत्वमाशङ्क्याङ्गीकारनित्यत्वेन तदभावमाहुः न च रोगाद्युपद्रव इति । तेषां
व्याध्याद्युपद्रवो न भवति । अत एव वृत्रस्य सर्वाभिभावुकत्वम्, न तु केनाप्यभिभाव्य-
त्वम् । लक्षणान्तरमाहुः महानुभावा इति । महान् अनुभावो येषाम् । यद्यपि शाप-
युक्तास्तथापि ते महानुभावा एव । अत एव भगवन्मार्गतत्त्वज्ञैर्महादेवैः शापदानान्तरं
पार्वतीं प्रति तेषामनुभाव उक्तः । 'दृष्टवत्यसि सुश्रोणि हरेरद्भुतकर्मणः । माहात्म्यं
भृत्यभृत्यानां निःस्पृहाणां महात्मनाम् । नारायणपरा लोके न कुतश्चन बिभ्यति । स्वर्गा-
पवर्गनरकेष्वपि तुल्यार्थदर्शिन' इति । ननु यदि तेषां महानुभावत्वं तर्हि कथं शापसम्भव
इत्यत आहुः प्रायेण शास्त्रं शुद्धत्वहेतवे इति । शास्यते अनेनेति व्युत्पत्त्या शास्त्रमिति,
शापस्य शास्त्ररूपत्वात् पूर्वजन्मापराधन्निवृत्तिहेतुत्वेन शुद्धिहेतुत्वमुक्तम् । प्रायेणेति
सम्भावना । एवं भगवदङ्गीकारस्य नित्यत्वं मर्यादामार्गेपि ज्ञेयम् । नित्यत्वज्ञापका धर्माः
'न ते पाषण्डतां यान्ती'त्यादयो मर्यादामार्गेपि ज्ञेयाः । परीक्षिति गजेन्द्रे च । ननु यदि
शापानन्तरमपि भगवदङ्गीकारस्य नित्यत्वेन त्रिष्वपि पूर्वधर्मसमानत्वम्, तर्हि फलेपि साम्यं
भविष्यतीत्याशङ्कानिरासायाहुः भगवत्तारातभ्येनेति । भगवत्स्वरूपतद्भजनप्रकारतारत-
म्येन फलेपि भक्तास्तारतम्यं भजन्ति हि । तत्र भजनतारतम्यप्रकारः । पुष्टिमार्गभजने
स्नेह एव नियामकः । मर्यादामार्गीयभक्तभजने मर्यादामार्गीयभक्तस्य यद्यपि भजनीयः
पुरुषोत्तम एव, तथापि तत्र विधिरेव नियामकः, न तु स्नेहोपीति तारतम्यम् । इन्द्रद्युम्नस्य
पुष्टिप्रवाहमर्यादा । १५
पूजापरत्वात्, तत्र पूज्यस्य पुरुषोत्तमविभूतिरूपत्वात् पूजायाश्च कर्ममार्गत्वात् तत्रापि
विधिरैव नियामक इति । भगवत्स्वरूपतद्भजनप्रकारतारतम्येन तारतम्यं भजन्ति । भजन-
तारतम्येन फलतारतम्यस्य युक्तत्वज्ञापनाय हिशब्दः । फलतारतम्यं तु 'गजेन्द्रो भगव-
त्स्पर्शाद्विमुक्तोऽज्ञानबन्धनात् । प्राप्तो भगवतो रूपं पीतवासश्चतुर्भुज'मित्यादिवाक्येषु
प्रसिद्धमिति नात्र विचारः । ननु यदि तेषां केवलं भगवत्परत्वमेव, तर्हि श्रौतस्मार्तकर्म-
चरणे को हेतुरिति चेत्, तत्राहुः लौकिकत्वं वैदिकत्वमिति । यद्यपि ज्ञानमार्गीयस्यापि
भक्तस्य 'तावत्कर्माणि कुर्वीते'त्यनेन श्रौतस्मार्तकर्माणचरणस्यानावश्यकत्वं श्रूयते, पुष्टिमार्गी-
याणामपि 'यानास्थाये'तिवाक्यात् । अत्र 'आस्थाये'ति, आस्थानं नाम कायवाङ्मनसां तदे-
कपरत्वम्, तादृशानामपि श्रौतस्मार्तकर्मचरणानावश्यकत्वेपि यत्कर्माचरणं तत्र को हेतुरि-
त्याशङ्कय हेतुमाहुः वैदिकत्वं लौकिकत्वं कापट्यादिति । वैदिकत्वं वैदिककर्माचरणम्,
लौकिकत्वं लौकिकव्यवहारादिप्रतिपालनम्, तत्तेषु कापट्यात् कापट्याद्धेतोरित्यर्थः ।
कापट्यं नाम लोकसङ्ग्रहः । अत एव भगवताप्युक्तं 'सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति
भारत । कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम् । न बुद्धिभेदं जनयेदज्ञानां कर्म-
सङ्गिनाम् । जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन्' इति भगवद्वाक्यात् तत्तन्मार्गीय-
पूर्णभक्तिमतां लौकिकवैदिककर्माचरणं लोकसङ्ग्रहार्थमेव, न तु कर्मासक्तानामिव परमपु-
रुषार्थरूपत्वेन । यद्यपि तेषां पूर्वोक्तकर्मकरणमनासक्तिपूर्वकं लोकसङ्ग्रहार्थमेवेत्युक्तम्,
तर्हि तेषां कस्मिन् कर्मणि आसक्तिपूर्वकं करणमिति चेत्, तत्राहुः वैष्णवत्वं हि सहज-
मिति । वैष्णवत्वं नाम पुष्टिमर्यादामार्गप्रवर्तकाचार्योपदेशपूर्वकं तदुक्तप्रकारेण तन्मार्गा-
नुवर्तित्वम्, तदेव तेषां सहजो धर्मः स्वाभाविकोधर्मः, सहजमिति । तेन तन्मार्गीया-
णामेव धर्माणामासक्तिपूर्वकं करणम्, ततोऽन्यत्र ततः वैष्णवधर्मातिरिक्तधर्मेषु विपर्ययः
पूर्वोक्तप्रकारः अनासक्तिपूर्वकं करणम्, लोकसङ्ग्रहार्थं करणमित्यर्थः ॥ २०१/२ ॥
एवं मार्गद्वयजीवानां फलपर्यवसानान्तां कृतिं निरूप्य पुष्टिमर्यादामार्गाङ्गीकाररहितानां
दैवजीवानां साधारणानां स्वरूपं कृतिं चाहुः सम्बन्धनस्त्विति ।
सम्बन्धिनस्तु ये जीवाः प्रवाहस्थास्तथापरे ॥ २१ ॥
चर्षणीशब्दवाच्यास्ते ते सर्वे सर्ववर्त्मसु ।
क्षणात् सर्वत्वमायान्ति रुचिस्तेषां न कुत्रचित् ॥ २२ ॥
तेषां क्रियानुसारेण सर्वत्र सकलं फलम् ॥ २२१/२ ॥
सम्बन्धिनः दैवजीवत्वेन पुष्टिमर्यादामार्गाङ्गीकृतजीवसम्बन्धिनो, न तु तन्मा-
र्गप्रवृत्ताः । तथा अपरे प्रवाहस्थाः । ते सर्वे चर्षणीशब्दवाच्याः सर्वमार्गेषु परिभ्रमण-
शीलाः । त एव सर्ववर्त्मसु मार्गत्रयेष्वपि क्षणात् कालविशेषं प्राप्य सर्वत्वं तत्तन्मार्गी-
यत्वं प्राप्नुवन्ति, तत्तन्मार्गीयधर्मानुकरणं कुर्वन्ति । ते मार्गत्रयधर्मानुकरणमेव कुर्वन्ति ।
१६ श्रीवल्लभकृतविवरणसमेता ।
न तु तेषां कुत्रचित् रुचिः । रुचिः क्वापि न भवतीत्यर्थः । न तु क्वापि श्रद्धेत्यर्थः ।
तेषां फलपर्यवसानमाहुः तेषां क्रियानुसारेणेति । तेषां तत्तन्मार्गीयक्रियानुकरणेन सर्वत्र
सकलं कामितं कामनाविषयं फलं भवतीत्यर्थः । तेषां भगवदङ्गीकृतानां साधारणानां
कामासक्तत्वात् तत्तत्क्रियानुसारेण सकलं तत्तत्कामितं फलं भवतीत्यर्थः ॥ २२½ ॥
एवं सम्बन्धिनां स्वरूपमुक्त्वा केवलप्रवाहस्थानां स्वरूपमाहुः प्रवाहस्थान्
प्रवक्ष्यामीति ।
प्रवाहस्थान् प्रवक्ष्यामि स्वरूपाङ्गक्रियायुतान् ॥ २३ ॥
जीवास्ते ह्यासुराः सर्वे 'प्रवृत्तिं चे'ति वर्णिताः ।
ते च द्विधा प्रकीर्त्यन्ते ह्यज्ञदुर्ज्ञविभेदतः ॥ २४ ॥
दुर्ज्ञास्ते भगवत्प्रोक्ता ह्यज्ञास्ताननु ये पुनः ।
प्रवाहेऽपि समागत्य पुष्टिस्थस्तैर्न युज्यते ॥ २५ ॥
सोपि तैस्तत्कुले जातः कर्मणा जायते यतः ॥ २६½ ॥
कथनप्रकारमाहुः स्वरूपाङ्गक्रियायुतानिति । तेषां स्वरूपमाहुः जीवा इति ।
ते प्रवाहस्था जीवा आसुराः, ते सर्वे भगवतैव 'प्रवृत्तिं च निवृत्तिं चे'ति वर्णिताः ।
आसुरेष्वपि प्रकारभेदमाहुः ते द्विधेति । द्वैविध्यमेव प्रदर्शयन्ति ह्यज्ञदुर्ज्ञविभेदत इति ।
यथा दैवजीवेष्वपि केचन पण्डिताः, केचन न, तद्वत् केचन आसुरेष्वपि दुर्ज्ञाः, केचन
अज्ञाः । दुर्ज्ञानां लक्षणमाहुः दुर्ज्ञास्त इति । 'प्रवृत्तिं च निवृत्तिं चे'ति भगवत्प्रोक्त-
लक्षणा दुर्ज्ञाः । अज्ञानाहुः तानन्विति । ये तान् अनु तदुक्तप्रकारानुवर्तिनस्ते
अज्ञाः । नन्वासुरेष्वपि जीवेषु म्लेच्छादिषु कस्यचिद्भगवत्परतादर्शने को हेतुरित्याशङ्काया-
मुच्यते । वस्तुतस्तु स नैवासुरजीवः, शुद्ध आसुरजीवे भगवद्भावस्यासम्भवात् । किन्तु
भगवदपराधाद्भगवद्भक्तापराधाद्वा सोपि पुष्टिमार्गीयः प्रवाहे समागत्य प्रवाहस्थैः सङ्गं
प्राप्यापि, तत्कुले जन्म वा प्राप्यापि, तैर्न युज्यते, आसुरभावैर्योगं न प्राप्नोति । ननु यदि
स आसुरभावैर्न युज्यते, तर्हि तस्यासुरकुलोत्पत्तौ को हेतुरिति चेत्, तत्राहुः कर्मणा
जायते यत इति । कर्मणा पूर्वोक्तभगवदपराधरूपेण, अथवा, तज्जनितप्रारब्धकर्मणा,
जन्मनः प्रारब्धकर्माधीनत्वात् । तत्रासुरकुले जन्मान्तरमपि तद्भावसम्बन्धाभावः कथं
सम्भवतीति चेत्, उच्यते । तस्य पूर्वजन्मनि पुष्टिमार्गीयत्वेन भगवदङ्गीकृतत्वात् ।
भगवदङ्गीकारस्य नित्यत्वात् । अत एव गीतायां भगवताऽप्युक्तम् 'स्वल्पमप्यस्य धर्मस्य
त्रायते महतो भया'दिति । तस्य पूर्वजन्मनि भगवद्धर्मीचरणाख्यसंस्कारस्य बलिष्ठ-
त्वात् आसुरकुले जन्मान्तरमपि नासुरभावप्रवेशः । किञ्च । गीतायां 'अयतिः श्रद्धयो-
पेतो योगाच्चलितमानस' इत्यारभ्य 'त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते' इत्यन्तेन
पार्थपृष्टेन भगवता 'पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते । न हि कल्याणकृत् कश्चित्
दुर्गतिं तात गच्छति । प्राप्य पुण्यकृतान् लोकान् उषित्वा शाश्वतीः समाः । शुचीनां
पुष्टिप्रवाहमर्यादा । १७
श्रीमतां गेहे योगभ्रष्टोभिजायते । अथवा योगिनामेव कुले भवति धीमताम् । एतद्धि
दुर्लभतरं लोके जन्म यदीदृशम् । तत्र तं बुद्धिसंयोगं लभते पौर्वदैहिकम् । यतते च ततो
भूयः संसिद्धौ कुरुनन्दन । पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोपि सः । जिज्ञासुरपि योगस्य
परं ब्रह्मातिवर्तते' इत्यन्तेन पार्थसंशयो निवारितः । यत्र योगभ्रष्टस्यापि पूर्वजन्मयोगधर्मा-
चरणसंस्कारानिवृत्तिः, तत्र भगवदङ्गीकृतस्य पुष्टिमार्गीयस्य पूर्वजन्माचरितभगवद्धर्मस्य
सर्वतोधिकप्राबल्यात् आसुरसङ्गेन तत्कुलजन्मनापि पूर्वजन्मसंस्कारानिवृत्त्यभावात्,
यावज्जीवं तत्संस्कारवत्त्वेन अन्तकालेपि तत्संस्कारस्य विद्यमानत्वात् 'अन्ते या मतिः सा
गति'रिति शास्त्रात् 'यं यं वापि स्मरन् भाव'मिति भगवद्वाक्याच्च तस्य भगवत्प्राप्तिरेव,
न तु आसुरभावजनितः कोप्यन्तराय इति सर्वमनवद्यम् ॥ २५॥
यद्यप्यत्र ग्रन्थोपसंहारदर्शनाभावादग्रेपि ग्रन्थोस्तीति ज्ञायते, तथाप्यग्रिमग्रन्थस्या-
प्रसिद्धत्वाद्यावत्प्रसिद्ध एव व्याख्यात इति नानुषपत्तिः काचित् ।
श्रीमत्कृष्णस्य वागर्थो दुर्बोधः सर्वथा स्वतः ।
तत्कृपात्तस्तदीयस्य बुद्धिगम्यो न चान्यथा ॥ १ ॥
नत्वा पितृपदाम्भोजं कृपामधुसुपूरितम् ।
तदालोडितबुद्ध्यैव श्रीमदाचार्यभाषितम् ॥ २ ॥
पुष्टिप्रवाहमर्यादाभेदकं शास्त्रमद्भुतम् ।
श्रीवल्लभेन व्याख्यातं तत्कृपातो यथामति ॥ ३ ॥
तेनाचार्याः प्रसीदन्तु मयि निःसाधने स्वतः ।
तेनैव मम नैश्चिन्त्यमैहिके पारलौकिके ॥ ४ ॥
इति श्रीपितृचरणैकतानश्रीवल्लभ विरचितं पुष्टिप्रवाहमर्यादाविवरणं समाप्तम् ।
श्रीगोपीजनवल्लभाय नमः।
पुष्टिप्रवाहमर्यादा ।
श्रीरघुनाथकृतविवरणसमेता ।
नमो भक्तभयाभावभाविने भक्तिदायिने ।
श्रीमदग्निकुमाराय पारोवाराय सत्कृते ॥ १ ॥
इदानीं भगवत्प्राप्तिलक्षणमुख्यफलतदभावौ किंनिबन्धनाविति संशयं निवारयितुं
मार्गभेदविचारमारभन्ते पुष्टिप्रवाहमर्यादा इति ।
पुष्टिप्रवाहमर्यादा विशेषेण पृथक् पृथक् ।
जीवदेहक्रियाभेदैः प्रवाहेण फलेन च ॥ १ ॥
वक्ष्यामि सर्वसन्देहा न भविष्यन्ति यच्छ्रुतेः।
पुष्टिरनुग्रहो धर्म्येकनिष्ठः, स एको मार्गः। प्रवाहो 'जायस्व म्रियस्वे'त्येवं-
रूपः। मर्यादा वेदोक्तवचनोत्थो मार्गः। एतान् पृथक् पृथक् प्रत्येकं तेषामसाधारण-
लक्षणैर्जीवदेहप्रवाहक्रियाफलरूपैर्विशिष्य यथा ज्ञायन्ते, तथा वक्ष्यामि, यतो यच्छ्रू-
वणानन्तरं पूर्वसन्देहाः सर्वविषयका न भविष्यन्तीत्यर्थः। अत्र जीवप्रवाहयोर्विशेषण-
विशेष्यभावेनैक्यं ज्ञेयम्, न भेदः। देहक्रिययोरप्येवमेव ज्ञेयम्। भेदानग्रे स्वयमेव
वदिष्यन्ति ॥ १ ॥
मार्गत्रयसद्भावं प्रमाणयन्ति भक्तिमार्गस्येति ।
भक्तिमार्गस्य कथनात् पुष्टिरस्तीति निश्चयः ॥ २ ॥
'द्वौ भूतसर्गौ'वित्युक्तेः प्रवाहोपि व्यवस्थितः ।
वेदस्य विद्यमानत्वान्मर्यादापि व्यवस्थिता ॥ ३ ॥
कथनादिति । श्रीभागवतगीतादौ । अत्र भक्तिरूपकार्येण कारणं पुष्टिरस्तीति
निश्चीयते । इदं धर्मिनिष्ठं पुष्टिमार्गे प्रमाणमुक्तम् । 'द्वौ भूतसर्गौ लोकेस्मिन् दैव आसुर
एव चे' त्याद्युक्तेः प्रवाहाख्योपि मार्गः प्रमाणसिद्धोस्तीति निश्चीयते । काण्डत्रयात्मक-
वेदस्य विद्यमानत्वाच्छ्रूयमाणत्वान्मर्यादामार्गेपि सप्रमाणत्वं सिद्धम् ॥ ३ ॥
त्रयाणामसङ्कीर्णमितरेतरभेदकं लक्षणमाह कश्चिदिति ।
कश्चिदेव हि भक्तो हि 'यो मद्भक्त' इतीरणात् ।
सर्वत्रोत्कर्षंकथनात् पुष्टिरस्तीति निश्चयः ॥ ४ ॥
१. मुक्तिदायिने । २. पारः संसारस्तदुत्तारकायेत्यर्थः । ३. प्रवाहेतिनास्ति ४. अतः। ५. वेदेति
नास्ति क्वचित् ।
पुष्टिप्रवाहमर्यादा । १९
न सर्वोतः प्रवाहाद्धि भिन्नो वेदाच्च भेदतः ।
'यदा यस्ये'ति वचना'न्नाहं वेदै'रितीरणात् ॥ ५ ॥
'मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रिय' इति वचनाद्भक्तिमार्गीया विरला एव
भवन्ति । न हि भगवत्प्रियत्वं स्वल्पसाध्यम्, अतः प्रवाहाद्भिन्नः पृथगेव । प्रवाहस्य
सर्वसाधारणत्वाद्भक्तेरनुग्रहैकलभ्यत्वान्महानेव भेदोस्तीति मन्तव्यम् । मर्यादायाप्यसङ्कीर्णत्वं
वेदाच्च भेदत इत्यारभ्य निश्चय इत्यन्तेनाह । 'यदा यस्ये'ति श्रीभागवते । 'नाहं वेदैर्न
तपसे'ति गीतायाम् । सर्वत्र भगवच्छास्त्रादौ भक्तिमार्गस्य कर्माद्यपेक्षयोत्तमत्वकथनात्
पुष्टिमार्गो भिन्नोस्तीति निर्धारितम् । अभेदे तूत्कर्षवैयर्थ्यात् ॥ ५ ॥
मर्यादाप्रवाहयोर्भक्तावन्तर्भावमाशङ्क्य निषेधन्ति मार्गैकत्वेनेति ।
मार्गैकत्वेन चेदन्त्यौ तनू भक्त्यागमौ मतौ ।
न तद्युक्तं सूत्रतो हि भिन्नो युक्त्या हि वैदिकः ॥ ६ ॥
जीवदेहकृतीनां च भिन्नत्वं नित्यतः श्रुतेः ।
यथा तद्वत्पुष्टिमार्गे द्वयोरपि निषेधतः ॥ ७ ॥
प्रमाणभेदाद्भिन्नो हि पुष्टिमार्गो निरूपितः ।
अन्त्यौ प्रवाहमर्यादे । तनू भक्तिं प्रत्यङ्गभूते, साधने इति यावत् । एवंविधे भूत्वा
भक्त्यागमौ भक्तिशास्त्ररूपौ मतौ चेत्, तन्न युक्तमिति योजना । तन्कुतो नेत्याशङ्क्याह
सूत्रतो हीति । वैदिको मर्यादामार्गो भिन्नः, भक्तेः पृथगित्यर्थः । अत्र प्रमाणं ब्रह्मसू-
त्राणि । द्वितीयं तदर्थानुरुद्धा युक्तयः साधकवाक्यानि । तत्र 'अथातो ब्रह्मजिज्ञासा'
इत्यादिषु जीवब्रह्माभेदः प्रतिपाद्यते । भक्तौ तु तवाहमिति स्वस्वामिसम्बन्धः प्रतिपाद्यते,
अतः स्फुटो भेदः । युक्तयस्तत्तर्कास्ते च शास्त्र(प्र)सिद्धा ज्ञेयाः । भक्तेरपि शाण्डिल्यसूत्रतो
वैलक्षण्यं श्रूयते । तथाहि । 'अथातो भक्तिजिज्ञासा' इत्युपक्रम्य 'सा परानुरक्तिरीश्वरे'
'द्वेषप्रतिपक्षाद्रसभावाच्च राग' इति द्वितीयतृतीयसूत्राभ्यां स्नेहरूपत्वमुक्तम् । तच्च कर्मज्ञान-
काण्डादिविरुद्धमेव । अतोपि मर्यादायाः पृथक्त्वम् । हिशब्द उभयत्रापि प्रसिद्ध्यर्थः ।
भेदकान्तरमप्याह जीवेति । आसुरजीवानां दैत्यदानवप्रभृतीनामपि वेदेधिकारप्रवृत्ती
दृश्येते । भक्तिमार्गे तेषां गन्धोपि न । प्रत्युत तद्भक्तसु द्वेष एव, अतो जीवभेदः स्फुटः ।
वेदे स्त्रीशूद्रादीनामनधिकारः श्रूयते । भक्तौ तु ब्राह्मणादिसाधारण्येन सै दैवजीवमा-
त्रस्य । 'देवोऽसुरो मनुष्यो वे'ति वचनात् । 'यो मद्भक्तः स मे प्रियः' 'मां हि पार्थ व्यपा-
श्रित्य' इत्यादौ तथैवाज्ञानात् । भक्तौ स्नेहनिबन्धनकृतेरियत्ताया अभावाद्देहवत् कृति-
भेदोपि स्फुटः । किञ्च । श्रुतेर्वेदस्य नित्यता । अकरणे प्रत्यवायजनकत्वात् । श्रुतिपदेन
तदुक्तधर्मा उच्यन्ते । उक्तप्रकारेण वेदे अन्यमार्गापेक्षया यथा भेदः, तद्वत् तथैव पुष्टिमार्गे
१. भक्त्या त्वनन्ययेति गीतायाम् । २. अधिकारवृत्ती अधिकारप्रवृत्तिरिति, पाठद्वयम् । ३. दैवेति
पाठः ।
२० श्रीरघुनाथकृतविवरणसमेता ।
भेद इति शेषः । कथमित्यपेक्षायां द्वयोरपीति । द्वयोर्मर्यादाप्रवाहयोर्निषेधतः तल्लक्षणो-
प्रवेशादित्यर्थः । प्रमाणभेदादिति । वस्तुसाधकं प्रमाणमित्युच्यते । वेदे तु स्वतःप्रामा-
ण्यम् । तद्विरोधिप्रत्यक्षादीनामप्यतथात्वम् । पुष्टौ तु धर्मितदनुग्रहभक्तानुभवातिरिक्तप्र-
माणाभावात् साधकभेदादपि पुष्टिमार्गो भिन्नो भवतीत्यर्थः । अत एवैतन्मार्गीयाणां वैल-
क्षणयं भगवतैवोक्तम् । तथाहि 'केवलेन हि भावेन' 'ते नाधीतश्रुतिगणा' इति । नहीदं
मर्यादयोपपद्यते, कुतस्तरां तुच्छः प्रवाहः ॥ ७ ॥
प्रवाहमार्गमाह सर्गभेदमिति ।
सर्गभेदं प्रवक्ष्यामि स्वरूपाङ्गक्रियायुतम् ॥ ८ ॥
इच्छामात्रेण मनसा प्रवाहं सृष्टवान् हरिः ।
वचसा वेदमार्गं हि पुष्टिं कायेन निश्चयः ॥ ९ ॥
सर्गशब्देन लौकिकः प्रवाह उच्यते । अत्रापि स्वरूपाङ्गक्रियाशब्दैर्यथाक्रमं
जीवदेहकृतयो विवक्षिताः । स्वरूपं जीवः, अङ्गं देहः, क्रिया कृतिः, एतैर्युक्तं विशिष्ट-
मित्यर्थः । ननु प्रवाहः सर्ग उक्तः । स च पुष्टिमर्यादयोरप्यस्तीति कथं वैलक्षण्यमितिचेत्,
तत्राह इच्छामात्रेणेति । 'सोऽकामयत, बहु स्यां प्रजायेयेति, स द्वितीयमैच्छत्,
स हैतावानास' इत्यादिभिर्भगवान् सङ्कल्पमात्रेण मनसैव बाह्योपादानकारणानपेक्षेण
प्रवाहाख्यं सृष्टवान् । मनसः सृष्टिकर्तृत्वं सर्वस्यापि मनोजन्यत्वं श्रुतिराह 'असतोऽधि
मनोऽसृजत, मनः प्रजापतिमसृजत, प्रजापतिः प्रजा असृजत, तद्वा इदं मनस्येव परमं
प्रतिष्ठित' मिति, 'मनसो ह्येव खल्विमानि भूतानि जायन्ते,' 'मनसो वशे सर्वमिदं बभूव'
'कामस्तदग्रे समवर्तताधी'त्यादि ज्ञेयम् । एवं कारणभेदान्न सर्गैक्यम् । मर्यादासर्गमाह
वचसेति । वाण्या मूलभूतवागिन्द्रियेण वेद एव मार्गस्तं सृष्टवान् । हिशब्दः पुराणा-
दिप्रसिद्ध्यर्थः । पुष्टिसर्गमाह पुष्टिमिति । साक्षाद्व्यवहितस्वरूपेणेत्यर्थः । इतिनिश्चयः ।
'फलमत उपपत्ते'रित्यादिनेश्वर एव शुभाशुभफलदातेति सिद्धम् ॥ ९ ॥
तत्र मार्गत्रये केन रूपेण कुत्र फलदानमिति संशये निश्चितमाह मूलेच्छात् इति ।
मूलेच्छातः फलं लोके वेदोक्तं वैदिकेऽपि च ।
कायेन तु फलं पुष्टौ भिन्नेच्छातोऽपि नैकता ॥ १० ॥
'तानहं द्विषतो' वाक्याद्भिन्ना जीवाः प्रवाहिणः ।
अत एवेतरौ भिन्नौ सान्तौ मोक्षप्रवेशतः ॥ ११ ॥
तस्माज्जीवाः पुष्टिमार्गे भिन्ना एव न संशयः ।
भगवद्रूपसेवार्थं तत्सृष्टिर्नान्यथा भवेत् ॥ १२ ॥
लोके प्रवाहाख्ये मार्गे, मूलेच्छा पुष्टिमर्यादातिरिक्तसाधनसाध्यफलभावनेच्छा,
१. लक्षणप्रवेशादिति पाठः । २. पुष्टिमार्गीययोरिति पाठः ।
यथा ‘तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु’
इति । वैदिके मार्गे वेदोक्तं तत्तत्काण्डाभिनिविष्टस्य तत्तदनुरूपं स्वर्गादिकं फलं तत्त-
त्साधनसापेक्षेच्छात इत्यर्थः । कायेन साक्षात् स्वरूपेण सच्चिदानन्दविग्रहेण ।
स्वरूपमात्रनिष्ठलीलाभिनिविष्टभक्तभावसापेक्षेच्छातः फलं पुष्टावित्यर्थः । भिन्ना इति ।
दैवाद्विना आसुरा इत्यर्थः, ‘द्वौ भूतसर्गौ’ वित्युक्तत्वात् । उक्तरीत्या पुष्टेर्धर्ममात्रनिष्ठत्वेने-
तरापेक्षयाभ्यर्हितत्वं ज्ञेयम् । अत एवेति । यत उक्तरीत्यान्योन्यं लक्षणाप्रवेशाद्वैलक्षण्य-
मत एव इतरौ मर्यादाप्रवाहौ पुष्टेः परस्परं च भिन्नौ । अन्तपदेन पर्यवसानमुच्यते ।
तेन सान्तौ अन्तसहितौ । कस्य कुत्रेत्याकाङ्क्षायां मोक्षप्रवेशातः मोक्षात् प्रवेशाच्चेत्यर्थः ।
प्रवेशपदेन प्राकृतो लयो विवक्षितो, न मोक्षः । तत्र वैदिकस्य मोक्षे पर्यवसानम्, प्रवा-
हस्य (प्रकृतौ) लय इति विवेकः । यथा द्वयोः सान्तत्वम्, न तथा पुष्टेः, मोक्षोत्तरका-
लमपि विद्यमानत्वात् । अत एवोक्तं ‘आत्मारामारच मुनयः’ इत्यादौ । यतो मुक्तानामपि
अधिकारो भक्तौ । अत एव तन्मार्गीया जीवाः भिन्नाः, ब्रह्माण्डादपि बहिर्भूताश्चेत्,
किं वाच्यं मर्यादाप्रवाहातिरिक्तत्वे । अत एव वाराहेप्युक्तम्, ‘भिन्नैव काचित् सा सृष्टि-
र्विधातुर्व्यतिरेकिणी’ति । एवंविधपुष्टिजीवानां सर्गो भगवता स्वात्मभजनार्थमेव कृत
इति सङ्गच्छते, नत्वन्यथापीत्यर्थः ॥ १२ ॥
एवंविधभक्तानां सर्वांशेन भगवत्साम्यमाह स्वरूपेणेति ।
स्वरूपेणावतारेण लिङ्गेन च गुणेन च ।
तारतम्यं न स्वरूपे देहे वा तत्क्रियासु वा ॥ १३ ॥
तथापि यावता कार्यं तावत्तस्य करोति हि ।
स्वरूपमन्तरात्मस्वरूपम् । यथा काष्ठं वह्निसाद्भवति, एवं भक्ता अपि स्वरूपै-
कनिष्ठास्सतस्तदभिनिविष्टास्तदात्मत्वमेवाभिपद्यन्ते । अत एवोक्तं ‘यो यच्छ्रद्धः स एव
स’ इति । यथा भगवदवतारो धर्मसंरक्षणार्थम्, तद्विरुद्धोत्सादनार्थं च, एवं भक्ताना-
मपि अवतारो जीवोद्धारार्थमेवेत्यवतारेणापि साम्यम् । लिङ्गं वेषस्तच्चिह्नानि सर्वा-
ण्यपि । तद्यथा । ‘तं वीक्ष्य कृष्णानुचरं व्रजस्त्रियः प्रलम्बबाहुं नवकञ्जलोचनम् । पीता-
म्बरं पुष्करमालिन’ मित्यादि । गुणाः पतितपावनत्वाद्वि, भगवच्चेष्टितान्यपि विज्ञेयानि ।
तथापीति । एवं सर्वांशेनान्यूनत्वेपि यावता न्यूनत्वादिना स्वरमणसिद्धिः, तावदेव तस्य
स्वापेक्षया सेवकत्वसिद्ध्यर्थमुभयरसार्थं च तारतम्यं करोति । अत एवैदमपि सङ्गच्छते,
‘नोद्धवोण्वपि मन्न्यूनः,’ ‘मद्भक्तपूजाभ्यधिके’ति, ‘न पारयेहं निरवद्यसंयुजा’ मित्यादि ।
‘ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यह’ मित्यादौ प्रसिद्धयर्थो हिशब्दः ॥ १३ ॥
ते हि द्विधा शुद्धमिश्रभेदान्मिश्रास्त्रिधा पुनः ॥ १४ ॥
प्रवाहादिविभेदेन भगवत्कार्यसिद्धये ।
२२ श्रीरघुनाथकृतविवरणसमेता ।
ते हीति । ते पूर्वोक्तास्त्रयोपि मार्गा द्वेधा द्विप्रकारकाः, ये मार्गान्तरसंवलि-
तास्ते मिश्राः, ये पुनस्तन्मात्रास्ते शुद्धाः । मिश्रणमपि प्रत्येकं त्रिभिश्चयाणामपीत्येकै-
कशस्त्रिप्रकाराः । एवं भेदानां प्रयोजनं किमित्याकाङ्क्षायां भगवत्कार्यसिद्धिखेवेति
मतम् । तच्च कार्यं रमणरूपमेव । 'क्रीडाभाण्डमिदं विश्वम्,' 'एकाकी स न रमत'
इत्यादौ प्रसिद्धम् ॥ १४ १/२ ॥
पुष्टेर्भेदानाह पुष्ट्येति ।
पुष्ट्या विमिश्राः सर्वज्ञाः प्रवाहेण क्रियारताः ॥ १५ ॥
मर्यादया गुणज्ञास्ते शुद्धाः प्रेम्णातिदुर्लभाः ।
पुष्टिस्थास्तु पूर्वमनुगृहीता एव भवन्ति । पुनरनुग्रहान्तरं यदा तेषु प्रविशति, तदा
ते पूर्वपुष्ट्यतिरिक्तपुष्टिसद्भावात् पुष्ट्या विमिश्रा भवन्ति । तल्लक्षणं सर्वज्ञा इति । एवं-
विधत्वं प्रह्लादादौ प्रसिद्धम् । प्रवाहेण मिश्रिताः लोकवेदक्रियारता भवन्तीति तेषामेत-
ल्लक्षणम् । मर्यादया मिश्रा गुणज्ञाः भगवन्माहात्म्ययाथातथ्यज्ञा इति लक्षणम् । प्रेम्णा
स्वरूपैकनिष्ठा इति लक्षणम् । ते शुद्धपुष्टिमार्गीयास्तेयत्यन्तदुर्लभा एवेत्यर्थः ॥ १५ १/२ ॥
एवं सर्गस्तु तेषां हि फलं त्वत्र निरूप्यते ॥ १६ ॥
भगवानैव हि फलं स यथाविर्भवेद्भुवि ।
गुणस्वरूपभेदेन तथा तेषां फलं भवेत् ॥ १७ ॥
एवमिति । उक्तप्रकारेण तेषां त्रयाणां सर्गः सहेतुकः निरूपित इति शेषः । अत्र
शुद्धमिश्रपुष्टौ फलं निरूप्यते भगवानिति । गुणाः ऐश्वर्यादयो धर्माः, स्वरूपं धर्मी ।
भवन्ति भावा अस्मिन्निति भूरन्तःकरणं विवक्षितम्, तदुपलक्षितहृदयदेशो वा । तेना-
यमर्थः । भगवानैश्वर्यादिषड्गुणोपेतो यस्य भक्तस्यान्तःकरणे यथा येन भावेन प्रकटो
भवति, तत्प्रियं कर्तुं तत्स्वरूपमेव फलमित्यर्थः । 'ये यथा मां प्रपद्यन्ते तांस्तथैव'ति प्रति-
ज्ञानात् ॥ १७ ॥
आसक्तौ भगवानैव शापं दापयति क्वचित् ।
अहङ्कारेऽथवा लोके तन्मार्गस्थापनाय हि ॥ १८ ॥
न ते पाषण्डतां यान्ति न च रोगाद्युपद्रवः ।
महानुभावाः प्रायेण शास्त्रं शुद्धत्वहेतवे ॥ १९ ॥
भगवत्तारतम्येन तारतम्यं भजन्ति हि ।
लौकिकत्वं वैदिकत्वं कापट्यात्तेषु नान्यथा ॥ २० ॥
वैष्णवत्वं हि सहजं ततोऽन्यत्र विपर्ययः ।
सम्बन्धिनस्तु ये जीवाः प्रवाहस्थास्तथापरे ॥ २१ ॥
पुष्टिप्रवाहमर्यादा । २३
चर्षणीशब्दवाच्यास्ते ते सर्वे सर्ववर्त्मसु ।
क्षणात् सर्वत्वमायान्ति रुचिस्तेषां न कुत्रचित् ॥ २२ ॥
तेषां क्रियानुसारेण सर्वत्र सकलं फलम् ।
आसक्ताविति । पुष्टिस्थस्य अहङ्कारे तत्पूर्वककार्ये, अथवा लोके भजनविरुद्धे
आसक्तौ सत्यां तद्दोषपरिहाराय, अत एव तन्मार्गस्थापनाय तत्र स्थिरीकरणाय ब्राह्मणा-
दिद्वारा भगवान्नेव क्वचित्, न सर्वत्र, शापमन्तरायापादकं दापयति । पुनरेवं कदापि
न कुर्यामिति यथा तस्य मनसि सततमनुवर्तेत । यथेन्द्रद्युम्नास्यागस्त्यमुखाद्गजेन्द्रत्वम् । एवं
शिक्षाकरणे भक्ताः पाषण्डतां न यान्ति । नापि तज्जनितापराधैर्भोगाय रोगाद्युपद्रवस्तत्पी-
डानुभवः । एवंविधाः शास्त्रोल्लङ्घनाद्भवन्ति । ये पुनर्महानुभावाः नारदादयस्ते प्रायेण
बाहुल्येन, भगवदधीनत्वात् प्रायिकत्वोक्तिः, शुद्धत्वहेतवे देहान्तःकरणादिशुद्धयर्थं शास्त्रं
भगवदीयं गीताभागवतादिकं भजन्ति सेवन्ते सततमवगाहन्त इत्यर्थः । किञ्च । येषु येषु
भक्तेषु यथा यथा भगवदाविर्भावः, तेन तारतम्येन स्वस्मिन् तरतमभावमपि भजन्ते स्वीकु-
र्वन्ति, न तु स्वस्मिन्नाधिक्यं सदप्युद्भावयन्ति । सर्वदा भगवत्सम्बन्धिषु नम्रा एव
भवन्तीत्यर्थः । तेषु महानुभावेषु यल्लोकवेदकुलप्राप्ताचारदर्शनमात्रेण लौकिकत्वं वैदि-
कत्वं च व्यवह्रियते, तत्कापट्यात् अज्ञानादेव । नान्यथा अन्यप्रकारेण नेत्यर्थः । वैष्ण-
वत्वं तेषु सहजं नैसर्गिकम्, तल्लक्षणसद्भावात् । वैष्णवलक्षणं श्रीभागवतविष्णुपुराणादि-
तोवगन्तव्यम् । ततः महानुभावेभ्यः अन्यत्र अन्येषु विपर्ययः कापट्याद्वैष्णवत्वम् ।
लौकिकत्वं वैदिकत्वं सहजमित्यर्थः । सम्बन्धिनस्त्विति । ये जीवाः सम्बन्धिनो
भगवद्विभूत्यंशलेशसम्बन्धवन्तस्तथापरे अन्ये केवलप्रवाहस्थाश्च ये ते सर्वे चर्षणी-
शब्देनोच्यन्ते, परिभ्रमणस्वभावात् । अत एव ते सर्वेपि क्षणादेव यादृशः सङ्गः, तादृशा
एव सर्ववर्त्मसु प्रविष्टाः सन्तः सर्वत्वं तत्तन्मार्गानुसारित्वं यान्ति । तेषां रुचिरत्याग्रहः
कुत्रापि नास्ति । अत एव तेषां क्रियानुसारेणैव सर्वत्र यत्र यदा रुचिस्तत्र वर्तमानानां
फलं सकलं, कलया सह, लेशमात्रं, न पूर्णमित्यर्थः ॥ २२ १/२ ॥
प्रवाहस्थान्निरूपयन्ति प्रवाहस्थानिति ।
प्रवाहस्थान् प्रवक्ष्यामि स्वरूपाङ्गक्रियायुतान् ॥ २३ ॥
जीवास्ते चासुराः सर्वे 'प्रवृत्तिं चे'ति वर्णिताः ।
ते च द्विधा प्रकीर्त्यन्ते ह्यज्ञदुर्ज्ञविभेदतः ॥ २४ ॥
दुर्ज्ञास्ते भगवत्प्रोक्ता ह्यज्ञास्ताननु ये पुनः ।
पूर्ववदेव स्वरूपं जीवात्मा, अङ्गं देहः, क्रिया कृतिः, एतैः युतान् विशिष्टा-
नित्यर्थः । ते प्रवाहमात्रानुसारिणो ये जीवास्ते आसुरा ज्ञेयाः, 'प्रवृत्तिं च निवृत्तिं च जना
१. भोगरोगेति पाठः ।
२४ श्रीरघुनाथकृतविवरणसमेता ।
न विदुरासुरा' इति वचनात् । ते च द्विप्रकाराः । एके अज्ञाः, स्वतः किमपि न
जानन्ति, आसुराणां दुष्टाचारं दृष्ट्वा स्वयमाचरन्ति । एके पुनर्दुर्ज्ञाः, दुष्टमात्मपातकारणमेव
कर्तुं जानन्ति, नतु भगवत्प्राप्तिसाधनमपि । ते च भगवता प्रोक्ताः 'प्रवृत्तिं च निवृत्तिं
चे'त्यादिना ॥ २४½ ॥
प्रासङ्गिकमाह प्रवाहेऽपीति ।
प्रवाहेऽपि समागत्य पुष्टिस्थस्तेन युज्यते ॥ २५ ॥
सोपि तैस्तत्कुले जातः कर्मणा जायते यतः ॥ २५½ ॥
पुष्टिस्थो यदा दैवयोगादासुरसङ्गात्तन्मार्गे प्रविशति, तदा तेन भावेन युज्यते
लिप्तो भवति । तद्वस्त्रमालिन्यवत् प्रक्षालनस्थानीयभगवद्भक्तभाविसंसर्गाच्छुद्ध्येवेति मन्त-
व्यम् । अन्यथा विरोधः स्यात् । सोपि तद्धर्मैस्तेषां कुले जात उत्पन्नो भूत्वा पश्चात्
स्वीयपुष्टिसंस्कारोद्बोधे सति तदर्थमेव यतिष्यत इति शेषः । जन्ममात्रं तु प्रारब्धकर्माधीन-
त्वादनिवार्यम् । अत एव भगवताप्युक्तं 'पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यत' इत्या-
दिना । इत ऊर्ध्वं ग्रन्थत्रुटिः ॥ २५½ ॥
पुष्टिप्रवाहमर्यादाः पृथक् पृथगुदीरिताः ।
कृतिना रघुनाथेन श्रीवल्लभपदेप्सुना ॥ १ ॥
इति श्रीवल्लभनन्दनचरणैकशरणश्रीरघुनाथानां कृतौ पुष्टिप्रवाह-
मर्यादाविवरणं सम्पूर्णम् ।
१. संसर्गात् । २. उक्तं च, 'प्रवाहो लौकिको धर्मो मर्यादा वेद उच्यते । कृष्णे प्रेम च वै पुष्टिर्मार्-
गभेदास्त्रयोऽत्र हि ॥ इत्यधिकम् ।
श्रीकृष्णाय नमः ।
पुष्टिप्रवाहमर्यादा ।
श्रीकल्याणरायकृतटीकासमेता ।
श्रीविठ्ठलेश्वरं नत्वा स्वेषां संफलसिद्धये ।
पुष्टिप्रवाहमर्यादाविवृतिः क्रियते मया ॥ १ ॥
लोके कति मार्गाः कीदृशाः किं च तेषां फलमिति जिज्ञासूनां स्वकीयानां ज्ञानार्थं
श्रीवल्लभाचार्याः पुष्टिप्रवाहमर्यादा विशेषेण वक्तुं प्रतिजानते ।
पुष्टिप्रवाहमर्यादा विशेषेण पृथक् पृथक् ।
जीवदेहक्रियाभेदैः प्रवाहेण फलेन च ॥ १ ॥
पुष्टिर्नाम भगवदनुग्रहः फलप्रापकत्वात् फलार्थं सृज्यत इति स एको मार्गः । प्रवाहो
नाम जन्मादिप्रवाहस्वरूपः लौकिकफलप्रापकत्वात् सोपि मार्गः । मर्यादा वेदोक्तः कर्ममार्गः ।
एता विशेषेण व्यावर्तकधर्मेण पृथक् पृथक् वक्ष्यामि । अत्र के व्यावर्तका धर्मा इत्याका-
ङ्क्षायामाहुः । भक्तिमार्गे जीवा भगवदनुगृहीता भिन्नाः । तेषां देहाः भगवच्चरणरेण्वादि-
निष्पादिता भिन्नाः । तेषां क्रिया भगवत्परा भिन्नाः । एवं प्रवाहासक्ताः संसारिणो जीवा
भिन्नाः, तेषां देहा अपि संस्कारादिरहिता भिन्नाः, तेषां क्रिया लौकिक्यो भिन्नाः । मर्या-
दामार्गे दैवा जीवा भिन्नाः, तेषां देहाः संस्कृता भिन्नाः, तेषां वेदोक्ताः क्रिया भिन्नाः ।
प्रवाहासक्तत्वेन प्रवाह एव प्रावाहिकाणां भेदकः । 'मद्भक्ता यान्ति मामपी'त्यादिवाक्याद्भ-
क्तिमार्गे पुरुषोत्तमप्राप्तिः फलम् । मर्यादामार्गे वेदोक्तकर्मभिर्निःकामानां तत्त्वज्ञानद्वारा
अक्षरप्राप्तिः फलम् । सकामानां क्षयिष्णु स्वर्गादिः फलम् । प्रवाहस्थानां स्वकर्मानुसारि
जन्मादिः फलम् । भिन्नैरेतैर्मार्गा अपि भिन्ना भवन्तीत्यर्थः ॥ १ ॥
वक्ष्यामि सर्वसन्देहा न भविष्यन्ति यच्छ्रुतेः ।
भक्तिमार्गस्य कथनात् पुष्टिरस्तीति निश्चयः ॥ २ ॥
कथनस्य प्रयोजनमाहुः । यस्योक्तस्य श्रवणात् मार्गतत्साधनफलेषु सन्देहा
न भविष्यन्तीत्यर्थः । मार्गसत्त्वे प्रमाणानि वक्तुं प्रथमं पुष्टिसत्त्वे प्रमाणमाहुः । 'ते
नाधीतश्रुतिगणा' इत्यादिना निःसाधनत्वेन निरूपितानां व्रजस्थितानां 'केवलेन हि
भावेने'त्यादिवाक्यैः स्नेहनिरूपणात् भक्तिरूपस्य मार्गस्य कथनात् भक्तिका-
रणत्वेन पुष्टिर्निश्चीयत इत्यर्थः । ननु दानव्रतादिभिः भक्तेः श्रूयमाणत्वात् कथं
भक्तिकारणत्वेन पुष्टिर्निश्चीयत इति चेत्, न, अनुग्रहव्यापारत्वेनैव दानादीनां भक्तिसाध-
१. स्वफलेति पाठः । सकलसिद्धय इति पाठः स्यात् ।
४ पु. प्र. म.
२६ श्रीकल्याणरायकृतविवरणसमेता ।
करत्वात् । ननु कथमेवम् ? इत्थम् । पुष्टेर्भगवदनुग्रहरूपत्वेन भक्तेर्भगवदनुग्रहैकसा-
ध्यत्वान्निःसाधनोऽनुग्रहः पुष्टिरित्युच्यते । साधनमिश्रभावात् साधनानुग्रहो भक्तिमार्गे
मर्यादाद्युच्यते । अत एवोक्तमाचार्यैः श्रीभागवततत्त्वदीपे 'पुष्टिरत्र द्विरूपा हि मर्या-
दापुष्टिभेदतः । विश्वरूपस्तु मर्यादा द्वितीयो वृत्र उच्यत' इति । तेन स ससाधनानुग्रह
एव दानादिसाधनद्वारा भक्तिं जनयतीति नानुपपन्नं किञ्चित् । एतदेवोक्तं भक्तिहंसे
श्रीमत्प्रभुचरणैः 'वरणे चास्ति प्रकारद्वयं मर्यादापुष्टिभेदेने'ति । प्रावाहिकभक्तिस्तु भक्तस्य
फलार्थं भगवति सापेक्षत्वमात्रेण स्नेहाभावेन भक्तिमार्गे किञ्चिद्धर्मसाम्येन प्रावाहिकभक्तौ
भक्तिपदप्रयोगात् पूजातुल्येति । तेन पुष्टिभक्तिरेव मुख्या । परमानुरागरूपत्वात् । 'सा
परानुरक्तिरीश्वरे' इति शाण्डिल्यसूत्रात् । मर्यादाभक्तिस्तु भक्तिदेशीया परमानुरागाभावात् ।
प्रावाहिकभक्तिस्तु सापेक्षतारूपेति पूजातुल्या, परं भक्तिमार्गसम्बन्धादङ्गीकरूपेति । एत-
देवोक्तं भक्तिहंसे 'भक्तिमार्गीयभक्तकृत(भक्ति)साम्प्रदायिकदीक्षापूर्वकं मोक्षसाधनत्वेन
क्रियमाणः श्रवणादिः प्रावाहिकी भक्तिरुच्यत' इति । मर्यादामार्गस्थं ज्ञानमार्गस्थं वा
जीवं यदि भगवाननुगृह्णाति, तदा स पुष्टिमार्गं प्राप्य तन्मार्गीयं फलं प्राप्नोति । एतदेवोक्तं
सिद्धान्तमुक्तावल्यां 'उभयोस्तु क्रमेणैव पूर्वोक्तैव फलिष्यती'ति । तेनानुग्रहसाध्या
भक्तिरिति सिद्धम् । अतः सुष्ठुक्तं 'भक्तिमार्गस्य कथनात् पुष्टिरस्तीति निश्चय' इति ॥ २ ॥
प्रवाहसत्त्वे प्रमाणमाहुः ।
'द्वौ भूतसर्गा'वित्युक़्तेः प्रवाहोऽपि व्यवस्थितः ।
वेदस्य विद्यमानत्वान्मर्यादापि व्यवस्थिता ॥ ३ ॥
'द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव चे'ति वाक्यात् प्रवाहोऽपि सिद्धः ।
मर्यादा सत्त्वे प्रमाणमाहुः । काण्डद्वयात्मकस्य वेदस्य श्रूयमाणत्वान्मर्यादामार्गोऽपि सिद्धः ॥
भक्तेः पुष्टिसाधकत्वमुक्त्वा दुर्लभत्वमाहुः ।
कश्चिदेव हि भक्तो हि 'यो मद्भक्त' इतीरणात् ।
सर्वत्रोत्कर्षकथनात् पुष्टिरस्तीति निश्चयः ॥ ४ ॥
कश्चिदेव हि भक्तो भवति, न सर्वः । अन्यथा भगवान् 'यो मद्भक्त' इति न
वदेत् । भक्तेः पुष्टिसाधकत्वमुक्त्वा भक्तिभक्तयोरुत्कर्षस्यापि पुष्टिसाधकत्वमाहुः ।
सर्वत्र गीताश्रीभागवतादौ 'भक्त्या मामभिजानाति,' 'भक्त्या त्वनन्यया शक्य'
इत्यादि 'यत्कर्मभिर्यत्तपसे'त्यारभ्य 'सर्वं मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसे'त्यन्तेन ।
'भक्तिं लब्धवतः साधोः किमन्यदवशिष्यते' । 'मध्यनन्ते गुणे ब्रह्मण्यानन्दानुभवात्मनि ।
नालं द्विजत्व'मित्युपक्रम्य 'प्रीयतेऽमलया भक्त्या हरिरन्यद्विडम्बन'मित्यन्तेन । 'मय्या-
वेश्य'इत्यारभ्य 'ते मे युक्ततमा मता' इत्यन्तेन, 'ये भजन्ति तु मां भक्त्या मयि ते तेषु
चाप्यहम्,' 'कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति,' 'ता मन्मनस्का मत्प्राणा
मदर्थे त्यक्तदैहिकाः,' 'ये त्यक्तलोकधर्माश्च मदर्थे तान् बिभर्म्यहम्', 'अहं भक्तपराधीन'
१. प्रवाहमार्गस्यास्थिति पाठः ।
पुष्टिप्रवाहमर्यादा । २७
इत्युपक्रम्य, 'वशे कुर्वन्ति मां भक्त्या सत्स्त्रियः सत्पतिं यथे'त्यन्तेन, 'एताः पर'मित्या-
रभ्य, 'पुनाति भुवनत्रय'मिति श्लोकषट्केन च उत्कर्षंकथनात् पुष्टिस्तीति निश्चीयत
इत्यर्थः । नहि भक्तिर्भक्तत्वमेतादृशोऽर्थो भगवदनुग्रहं विना प्राप्यते ॥ ४ ॥
पुष्टिमार्गीयस्य प्रवाहमर्यादामार्गस्थाभ्यां भेदमाहुः ।
न सर्वोतः प्रवाहाद्धि भिन्नो वेदाच्च भेदतः ।
'यदा यस्ये'ति वचना'न्नाहं वेदै'रितीरणात् ॥ ५ ॥
'यदा यस्यानुगृह्णाति भगवान्नात्मभावितः । स जहाति मतिं लोके वेदे च परिनि-
ष्ठिता'मिति वाक्याद्यं भगवाननुगृह्णाति, स पुष्टिमार्गीयो भवति, न सर्वः । अतः प्रवा-
हाद्भेदः । हि युक्तोयमर्थस्ततो वैलक्षण्यात् । 'नाहं वेदै'रित्यारभ्य 'परन्तपे'त्यन्तेन अन-
न्यभक्त्यैव भगवान् ज्ञातुं द्रष्टुं शक्यः, नान्यसाधनैरिति भेदतः वैलक्षण्यात् वेदाच्च
भिन्नः, वेदोक्तमर्यादामार्गस्थादपि पुष्टिमार्गस्थभक्तो भिन्न इत्यर्थः ॥ ५ ॥
मार्गैकत्वेपि चेदन्यौ तनू भक्त्यागमौ मतौ ।
न तद्युक्तं सूत्रतो हि भिन्नो युक्त्या हि वैदिकः ॥ ६ ॥
कस्यचित्पूर्वपक्षं निराकुर्वन्ति । तथाहि । ननु प्रवाहमर्यादामार्गयोरपि व्यवहारशुद्धि-
साधकत्वेन भक्त्युपयोगात् अङ्गाङ्गिभावेनैको भक्तिमार्ग एवास्त्विति चेत्, न । मार्गकत्वे
स्वीक्रियमाणे प्रवाहमर्यादामार्गावङ्गत्वेन भक्तिफलप्रापकत्वेन तव सम्मतौ, तन्न युक्तम् ।
यदि प्रवाहमर्यादामार्गयोर्भक्तिफलेन फलवत्त्वं स्यात्, तदा तदङ्गत्वं स्यात्, तदेवाङ्गं
भवति यत्प्रधानफलेन फलवद्भवति, न स्वतः, प्रयाजादिवत्, 'फलवत्सन्निधावफलं
तदङ्ग'मित्यङ्गलक्षणात् । अत्र भक्तिमार्गे 'तन्निष्ठस्य मोक्षोपदेशा'दिति व्याससूत्रेण भगव-
त्परस्य मोक्षः फलत्वेनोच्यते । तथा भक्तिमीमांसायां शाण्डिल्यसूत्रं 'तत्संस्थस्यामृतत्वोपदे-
शा'दिति । अस्यार्थस्तु । तस्मिन्नीश्वरे संस्था भक्तिर्यस्य तस्यामृतत्वं फलमुपदिश्यते । 'ब्रह्म-
संस्थोऽमृतत्वमेती'ति । एतद्विचारेण भगवत्प्रीतिफलकत्वात् । प्रवाहमर्यादामार्गयोः जन्मा-
दिसंसारस्वर्गादिफलकत्वात् । परम्परया निमित्तकारणत्वेन देशादिवदुपयोगात्तयोर्न भक्त्य-
ङ्गत्वमिति नाङ्गाङ्गिभावेन मार्गैकत्वसिद्धिः । युक्तिस्तु यदि मर्यादामार्गो भक्तिमार्गाभिन्नः
स्यात्, तदा भक्तिमार्गीयमेव फलं दद्यात् । स्वर्गादिफलदातृत्वाद्दैदिको मार्गो भिन्नः ।
अलौकिकफलदातृत्वाभावात् प्रवाहो नोक्तः ॥ ६ ॥
पुष्टिमार्गस्य भेदज्ञानार्थं तत्रत्यानां वैलक्षण्यमाहुः ।
जीवदेहकृतीनां च भिन्नत्वं नित्यता श्रुतेः ।
यथा तद्वत्पुष्टिमार्गे द्वयोरपि निषेधतः ॥ ७ ॥
यथा श्रुतेर्वेदस्य लौकिकवाक्यसमानत्वेन गृह्यमाणस्यापि नित्यता, 'स्वयम्भूरैष
भगवान् देवो गीतस्त्वया पुरा । शिवाद्या ऋषिपर्यन्ताः स्मातारोऽस्य न कारकाः । १' 'वेदो
नारायणः साक्षात् स्वयंभूरिति शुश्रुम' इत्यादिवाक्यैर्लौकिकवाक्यभिन्नत्वं च, तथा
१. निरोधहृपा ।
२८ श्रीकल्याणरायकृतविवरणसमेता ।
पुष्टिमार्गे 'जयति जननिवास' इत्यादिवाक्यैर्लीलास्थानां जीवदेहकृतीनां नित्यत्वं भिन्नत्वं
चेत्यर्थः । अथवा । यथा श्रुतेः 'ते ते धामान्युश्मसि गमध्यै गाव' इति वेदात् लीलास्थानां
जीवदेहकृतीनां नित्यता भिन्नत्वम्, तद्वत् पुष्टिमार्गेपि लीलान्तर्गतौ जीवदेहकृतीनां
नित्यता भिन्नत्वं च भवतीत्यर्थः । द्वयोरपि निषेधत इति । 'स जहाति मतिं लोके वेदे
च परिनिष्ठिता'मितिवाक्येन भगवदनुग्रहानन्तरं प्रवाहमर्यादामार्गयोर्निषेधात् प्रवाह-
मर्यादामार्गस्थयोर्देहादीनां भिन्नत्वं नित्यता च न भवतीत्यर्थः ॥ ७ ॥
प्रमाणभेदाद्भिन्नो हि पुष्टिमार्गो निरूपितः ।
अतः कारणात् । पुष्टिमार्गे भगवाननुग्रहेण पुष्टिमार्गस्थं यथा ज्ञापयति, यथा
प्रेरयति, तथा स प्रवर्तते । अतः पुष्टिमार्गे भगवान् प्रमाणम्, भगवदनुग्रहश्च । तस्मात्
प्रमाणभेदादपि पुष्टिमार्गो भिन्न इत्यर्थः ॥ ७ १/२ ॥
सर्गभेदं प्रवक्ष्यामि स्वरूपाङ्गक्रियायुतम् ॥ ८ ॥
त्रयाणां सर्गभेदमाहुः । जीवदेहक्रियासहितं भिन्नं सर्गं प्रवक्ष्यामीत्यर्थः ॥ ८ ॥
इच्छामात्रेण मनसा प्रवाहं सृष्टवान् हरिः ।
वचसा वेदमार्गं हि पुष्टिं कायेन निश्चयः ॥ ९ ॥
त्रयाणां सर्गाणां भेदे किं निमित्तमित्याकाङ्क्षायामाहुः । इच्छामात्रेण सामान्ये-
च्छया, मल्लादियुद्धवत् न तु स्वयं रन्तुम्, हरिः मनसा प्रवाहं सृष्टवान् ।
'सोऽकामयत बहु स्यां प्रजायेये'तिश्रुतेः वचसा वेदवाण्या वेदमार्गं सृष्टवान् । कायेन
स्वरूपेण पुष्टिमार्गस्थान् सृष्टवान् । 'स वै नैव रेमे, तस्मादेकाकी न रमते, स
द्वितीयमैच्छत्, स हैतावानासे'ति श्रुतेः । अत एव वाराहपुराणे 'भिन्नेव काचित्
सा सृष्टिर्विधातुर्व्यतिरेकिणी'ति । अथवा । स्वयमाविर्भूय भक्तैः स्वसेवां कारयित्वा
तन्मार्गं प्रकटितवानित्यर्थः ॥ ९ ॥
त्रयाणां मार्गाणां फलभेदादपि भेदमाहुः ।
मूलेच्छातः फलं लोके वेदोक्तं वैदिकेपि च ।
कायेन तु फलं पुष्टौ भिन्नेच्छातोऽपि नैकधा ॥ १० ॥
मूलं सृष्टिकारणं ब्रह्म, तस्य सर्गादौ अस्यानेनैवमेवं करिष्यामीतीच्छा, तत एव
प्रवाहस्थानां फलमित्यर्थः । वैदिके कर्ममार्गे वेदोक्तं स्वर्गापवर्गरूपमपि फलं भवतीत्यर्थः ।
पुष्टौ पुष्टिमार्गे कायेन स्वरूपेण फलं भवतीत्यर्थः । तदुक्तं 'गोपीभिः स्तोभितोऽनृत्य'-
दित्यादिना । पुष्टौ प्रवाहमर्यादाभ्यां भिन्नेच्छातोपि जातं फलं कौमारलीलादिरूपेणा-
नेकविधं भवतीत्यर्थः ॥ १० ॥
'तानहं द्विषतो' वाक्याद्भिन्ना जीवाः प्रवाहिनः ।
अत एवेतरौ भिन्नौ सान्तौ मोक्षप्रवेशतः ॥ ११ ॥
प्रमाणपूर्वकं प्रवाहस्थान् जीवान् भिन्नानाहुः । भूतसर्गे दैवजीवेषु भगवदनुगृहीता-
१. तत्र ।
पुष्टिप्रवाहमर्यादा । २९
भक्तिमार्गीया भवन्ति, अन्ये दैवा एव कर्मिणः वेदोक्तफलभाजो भवन्ति । अवशिष्टा जीवाः
'प्रवृत्तिं च निवृत्तिं चे'त्यारभ्य 'प्रद्विषन्तोऽभ्यसूयका' इत्यन्तेन निरूपितानां 'तानहं द्विषतः
क्रूरा'नित्यारभ्य 'ततो यान्त्यधमां गतिं' मित्यन्तेनाधमगतित्वेन निरूपणात् प्रवाहस्था
आसुराः पूर्वोक्तेभ्यो भिन्ना इत्यर्थः । अत एवैतौ पुष्टिमार्गीयमर्यादामार्गीयजीवौ एभ्यो
भिन्नौ । तत्र हेतुः । सान्तौ अन्तः फलपर्यवसानं तत्सहितौ, कुतः, मोक्षप्रवेशत इति ।
मर्यादामार्गीयस्य मोक्षात् पुष्टिमार्गीयस्य लीलाप्रवेशत इत्यर्थः ॥
तस्माज्जीवाः पुष्टिमार्गे भिन्ना एव न संशयः ।
भगवद्रूपसेवार्थं तत्सृष्टिर्नान्यथा भवेत् ॥ १२ ॥
अत्युत्कर्षादपि पुष्टिमार्गीयाणां भेदमाहुः । यस्मात् सर्वोत्कृष्टातस्तस्मात् पुष्टिमार्गीय-
जीवास्तेभ्यो भिन्ना एवेत्यर्थः । विपक्षे बाधकं तर्कमाहुः भगवद्रूपसेवार्थमिति । यदि
पुष्टिमार्गीयाः सर्वोत्कृष्टा न स्युः, तदा साक्षात्पुरुषोत्तमस्वरूपसेवार्थं तत्सृष्टिर्न भवेत् ॥
शुद्धपुष्टिमार्गीयाणां सेवार्थं सहकारियोग्यतामाहुः ।
स्वरूपेणावतारेण लिङ्गेन च गुणेन च ।
तारतम्यं न स्वरूपे देहे वा न क्रियासु वा ॥ १३ ॥
लीलासृष्टेर्भगवद्रूपत्वात् स्वरूपसाम्यम् । यथा भगवदवतारः प्रादुर्भावो न
जीववज्जन्म, तथा मुख्यभक्तानामपीत्यवतारसाम्यम् । अलौकिकत्वज्ञापकस्य भगवता समं
नृत्यादिसामर्थ्यस्य विद्यमानत्वात् चिह्नसाम्यम् । गुणाः सौन्दर्यादयस्तत्साम्यं स्पष्टमेव ।
तेन तासां क्रियासु स्वरूपे देहे वा न तारतम्यमित्यर्थः । भगवतो लीलान्तःपातिनां
भक्तानां च स्वरूपादिभिस्तुल्यत्वम्, न तूत्कर्षापकर्षाविति श्लोकार्थः ॥ १३ ॥
तथापि भगवान् स्वार्थं तारतम्यं करोतीत्याहुः ।
तथापि यावता कार्यं तावत्तस्य करोति हि ।
स्वरूपादेस्तुल्यत्वेपि भगवान् स्वस्य कार्यं रमणं स्वस्य भक्तानां च यावता
तारतम्येन सिध्यति, तावत्तारतम्यं प्रकटयति । हि युक्तोयमर्थः । उत्कर्षापकर्षवैचित्र्यैर्विना
समग्ररमणासिद्धेः । अत एव बाललीलादयो युक्तरूपा भवन्तीति दिक् ॥ १३½ ॥
एवं विशेषलीलायास्साधनानि प्रकारं चोक्त्वा सामान्यलीलायाः साधनानि प्रकारं
चाहुः ते हीत्यारभ्य, भवेदित्यन्तेन ।
ते हि द्विधा शुद्धमिश्रभेदान्मिश्रास्त्रिधा पुनः ॥ १४ ॥
प्रवाहादिविभेदेन भगवत्कार्यसिद्धये ।
पुष्ट्या विमिश्राः सर्वज्ञाः प्रवाहेण क्रियारताः ॥ १५ ॥
मर्यादया गुणज्ञास्ते शुद्धाः प्रेम्णातिदुर्लभाः ।
एवं सर्गस्तु तेषां हि फलमत्र निरूप्यते ॥ १६ ॥
भगवानैव हि फलं स यथाविर्भवेद्भुवि ।
गुणस्वरूपभेदेन तथा तेषां फलं भवेत् ॥ १७ ॥
३० श्रीकल्याणरायकृतविवरणसमेता ।
ते पूर्वोक्ताः त्रयोपि मार्गाः द्विधा द्विपकाराः शुद्धमिश्रभेदात् । अन्यमार्गधर्म-
संवलिता मिश्राः, तदसंवलिताः शुद्धाः । मिश्रा अपि परस्परं त्रयाणां मिश्रणेन प्रत्येकं
त्रिप्रकाराः । एवं भेदानां प्रयोजनमाहुः भगवत्कार्यसिद्धय इति । 'क्रीडाभाण्डमिदं
विश्व'मित्यादिवाक्यैः विश्वस्य क्रीडार्थत्वात् । पुष्ट्यादीनां त्रयाणां स्वतः परतः मिश्रणे
ज्ञापकान् धर्मानाहुः पुष्ट्या....दुर्लभाः । पूर्वं सामान्यतोऽनुगृहीता विशेषानुग्रहं प्राप्ताः
पुष्ट्या विमिश्राः । ते भगवदभिप्रायादिसर्वज्ञातारो भवन्ति, नारदादय इव, सर्वज्ञत्वमेव
तेषां लक्षणम् । पुष्टिस्था मर्यादामिश्रिताः भगवद्धर्मज्ञातारो भवन्ति, कविप्रभृतयो नव-
योगेश्वरा इव । पुष्टिस्थाः प्रवाहमिश्रिताः यत्किञ्चिद्भगवद्धर्मं ज्ञात्वा तीर्थाटनपरा
भवन्ति । प्रवाहस्थाः पुष्टिमिश्रिताः भगवद्भजनानुकूलक्रियानुसारिणो भवन्ति । प्रवाहस्थाः
मर्यादामिश्रिताः सत्कर्मकर्तारो भवन्ति । प्रवाहस्थाः प्रवाहमिश्रिताः केवलं लौकिकक्रि-
यारता भवन्ति । त एव आसुराः । मर्यादामार्गीयाः पुष्टिमिश्रिताः माहात्म्यज्ञानात्
भगवत्प्रीत्यर्थं कर्मकर्तारो भवन्ति । मर्यादामार्गीयाः मर्यादामिश्रिताः स्वर्गार्थं कर्मकर्तारो
भवन्ति । मर्यादामार्गीयाः प्रवाहमिश्रिताः लौकिकार्थं कर्मकर्तारो भवन्ति । प्रेम्णा
स्नेहेन शुद्धाः प्रेमविषयातिरिक्तस्फूर्तिरहिताः ते शुद्धपुष्टिस्थाः । तेऽतिदुर्लभा इत्यर्थः ।
भगवत्कार्यसिद्धये एवंप्रकारेण तेषां सर्गो निरूपितः । हि युक्तोयमर्थः । वैचित्र्यं
विना रमणासिद्धेः । तेषां फलमत्र निरूप्यते । तेषां फलमाहुः भगवानेवेति । धर्म-
धर्मिणोरभेदात् सर्वेषां धर्मधर्मिरूपेण भगवानेव फलं स यथा भुवि भक्तानां गृहादौ
हृदये च यथा प्रकटो भवेत् गुणस्वरूपभेदेन, भक्तानां वा गुणस्वरूपभेदेन स्वरूपैक-
निष्ठानां पुष्टिमार्गीयाणां स्वरूपेण आनन्दमात्रकरपादमुखोदरादिरूपेण प्रकटो भूत्वा फलं
ददाति, धर्मज्ञानादिपरेषु धर्मादिरूपेण स्थित्वा यथा फलं ददाति, तथा तत्तत्फलं तेषां
भवतीत्यर्थः । यद्वा । भगवानिति । गुणा ऐश्वर्यादयो धर्माः, स्वरूपं धर्मी । भगवानेश्वर्या-
दिषड्गुणयुक्तो यस्य भक्तस्यान्तःकरणे यथा येन भावेन प्रकटो भवति तत्प्रियं कर्तुं स्वरूप-
मेव तस्य फलमित्यर्थः । 'ये यथा मां प्रपद्यन्ते तांस्तथैव'ति प्रतिज्ञानात् ॥ १७ ॥
प्रमेयप्रमाणलीले तयोः प्रकारांश्चाभिधाय भक्तिमार्गविरोधं परिहर्तुं आसक्ता-
वित्यारभ्य सार्धश्लोकत्रयेण समादधते ।
आसक्तौ भगवानेव शापं दापयति क्वचित् ।
अहङ्कारेऽथवा लोके तन्मार्गस्थापनाय हि ॥ १८ ॥
न ते पाषण्डतां यान्ति न च रोगाद्युपद्रवः ।
महानुभावाः प्रायेण शास्त्रं शुद्धत्वहेतवे ॥ १९ ॥
भगवत्तारतम्येन तारतम्यं भजन्ति हि ।
वैदिकत्वं लौकिकत्वं कापत्यात्तेषु नान्यथा ॥ २० ॥
वैष्णवत्वं हि सहजं ततोऽन्यत्र विपर्ययः ।
पुष्टिप्रवाहमर्यादा । ३१
ननु भक्तिमार्गीयाणां कथमन्थेन ( शापेन ) पराभव इत्याकाङ्क्षायामाहुः भगवा-
नेवेति । पुष्टिस्थस्य लोके लौकिके आसक्तौ सत्यां अथवा अहंकार जाते अनयोः भजने-
न्तरायरूपत्वात् भगवानेव अन्येन शापं दापयति क्वचिदेव । यथा चित्रकेतौ । क्वचित्
स्वसामर्थ्यादिज्ञापनेनाहंकारादिकमेव दूरीकरोति । यथार्जुनादेर्ब्राह्मणपुत्रानयनादौ ।
भक्तिमार्गस्थापनाय । हि यस्मात् अन्यथान्येपि बहिर्मुखाः स्युः । एवं भगवता स्वेषां
शिक्षार्थं दण्डे कृते दण्डभयात् ते भक्तिमार्गीयाः पाषण्डतां न यान्ति लोकवेदभक्तिमार्ग-
विरुद्धाचरणं न कुर्वन्ति । विरुद्धाचरणाभावात् तेषां रोगाद्युपद्रवो न भवति । तर्हि
भक्ता अपि साधारणजनतुल्या एव किमित्याकाङ्क्षायामाहुः । ते भक्तिमार्गीया महानुभावाः
प्रह्लादाम्बरीषादय इव, यदि ते शुद्धाः स्युः । शुद्धत्वं नाम भक्तिमार्गविरुद्धधर्मराहित्येन
कायवाङ्मनोभिस्तत्परत्वम् । तेषां शुद्धत्वप्रयोजकं शास्त्रम् । तच्छास्त्रं ‘श्रुतिस्मृती ममै-
वाज्ञे यस्ते उल्लङ्घ्य वर्तते । आज्ञोच्छेदी मम द्रोही मद्भक्तोपि न मे प्रियः' । 'अनन्यचेताः
सततं यो मां स्मरति नित्यशः । तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ।' 'मन्मना
भवे'त्यादिभगवद्वाक्यम् । तदुक्तं ये कुर्वन्ति, ते शुद्धत्वात् महानुभावा भवन्तीत्य-
भिप्रायेणोक्तं प्रायेणेति । तत्र हेतुः । भगवदिति । 'ये भजन्ति तु मां भक्त्ये'ति
वाक्यात् भक्त्या भजनेन यथा यथा षड्गुणयुक्तो भगवान् तेषां हृदये प्रविष्ट ऐश्वर्यादीन्
प्रकटयति, तथा तथा तारतम्यं भजन्ति उत्कृष्टा भवन्तीत्यर्थः । लौकिकेषु इदानीं
प्रसिद्धेषु ( महेता ) नरसिंहाख्यादिष्वपि प्रसिद्धिबोधको हिशब्दः । ननु एतादृशानां
भगवद्भक्त्यैव सर्वसिद्धौ वेदोक्तकर्मकरणं लौकिककरणं च किमर्थमित्याकाङ्क्षायामाहुः ।
उत्कृष्टानां भगवद्भक्तानां वेदोक्तकर्मकरणं लौकिकव्यवहारकरणं च ‘सक्ताः कर्मण्यविद्वांसो
यथा कुर्वन्ति भारत । कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रह’मिति भगवद्वाक्यात्
लोकसङ्ग्रहार्थमेव वेदोक्तकर्माणि लौकिकव्यवहारं च कापट्यं विधाय स्वस्य बहिः
कर्मासक्तिं दर्शयित्वा कुर्वन्ति, नान्यथेत्यर्थः । तर्हि तेषां मुख्यः कर्तव्यो धर्मः क
इत्याकाङ्क्षायामाहुः वैष्णवत्वं भक्तिमार्गीयदीक्षापूर्वकं भगवद्भजनं सहजं आदरेण कर्तव्यो
मुख्यो धर्मः । ततोऽन्यत्र अन्यधर्मेषु एतद्विपर्यय इत्यर्थः । हि युक्तोयमर्थः । यो
यस्य दासः तस्य तद्भजनमेव मुख्यो धर्म इति ॥ १४ ॥
भक्तिमार्गीयाणां व्यवस्थामुक्त्वा तत्सम्बन्धिनां उदासीनानामन्येषां च व्यवस्थामाहुः
सम्बन्धनस्त्विति श्लोकद्वयेन ।
सम्बन्धिनस्तु ये जीवाः प्रवाहस्थास्तथापरे ॥ २१ ॥
चर्षणीशब्दवाच्यास्ते ते सर्वे सर्ववर्त्मसु ।
क्षणात् सर्वत्वमायान्ति रुचिस्तेषां न कुत्रचित् ॥ २२ ॥
तेषां क्रियानुसारेण सर्वत्र सकलं फलम् ।
भक्तिमार्गीयसम्बन्धिनो ये तु अदीक्षिताः, तथा भक्तिमार्गीयासम्बन्धिनः
३२ श्रीकल्याणरायकृतविवरणसमेता ।
प्रवाहस्था ये च अदीक्षिताः, ते चर्षणीशब्दवाच्याः सर्वमार्गेषु परिभ्रमणशीलत्वात्
सर्ववर्त्मसु सर्वेषु मार्गेषु क्षणात् अल्पकालादेव तन्मार्गियसङ्गं प्राप्य तन्मार्गधर्माचरणा
तन्मार्गीयसदृशा भवन्ति, नतु तेषां कुत्रापि रुचिः स्नेहोऽस्ति । तेषां तत्तन्मार्गीयक्रिया
नुरूपं कामितं फलं भवतीत्यर्थः ॥ २० ॥
लक्षणप्रमाणाभ्यामासुरान् जीवानाहुः प्रवाहस्थानित्यारभ्य श्लोकद्वयेन ।
प्रवाहस्थान् प्रवक्ष्यामि स्वरूपाङ्गक्रियायुतान् ॥ २३ ॥
जीवास्ते ह्यासुराः सर्वे 'प्रवृत्तिं चे'ति वर्णिताः ।
ते च द्विधा प्रकीर्त्यन्ते ह्यज्ञदुर्ज्ञविभेदतः ॥ २४ ॥
दुर्ज्ञास्ते भगवत्प्रोक्ता ह्यज्ञास्ताननु ये पुनः ।
प्रवाह एव तिष्ठन्ति स्वोदरपोषणमात्रपराः, स्वरूपदेहक्रियातत्पराः, न तु धर्मा-
दिपराः, ते जीवा आसुरा ज्ञेयाः । ते च 'प्रवृत्तिं च निवृत्तिं चे'त्यादिना भगवता
वर्णिताः । ते आसुराः द्विप्रकाराः अज्ञदुर्ज्ञभेदात् । 'प्रवृत्तिं चे'त्यादिनोक्ता दुर्ज्ञाः ।
तान् ये अनुसरन्ति तदुक्तकारिणो भवन्ति, ते तु अज्ञाः ॥ २४½ ॥
ननु आसुराणामपि भक्तिः श्रूयते, सा कथं संभवतीत्याशङ्कायां समाधानमाहुः ।
प्रवाहेऽपि समागत्य पुष्टिस्थस्तैर्न युज्यते ॥ २५ ॥
सोपि तैस्तत्कुले जातः कर्मणा जायते यतः ॥ २५½ ॥
वस्तुतो यस्य भक्तिर्दृश्यते, स आसुरजीवो न भवति, किन्तु भगवदपराधेन भक्ता-
पराधेन वेदादिनिन्दया वा प्रवाहेऽपि समागत्य प्राप्तोपि तैः प्रवाहस्थैर्न युज्यते न
मिलति । तत्कुले जातोपि स पुष्टिस्थस्तैः प्रवाहस्थकुलधर्मैर्न युज्यते, न युक्तो भवति ।
'न वै जनो जात्वि'ति वाक्यात् । तर्हि भक्तिमतः कथं प्रावाहिकेषु जन्मेत्यत आहुः
कर्मणा जायते यत इति । यतः यस्मात् कारणात् भगवदपराधादिना प्रारब्धकर्मणा
वा जायते उत्पद्यते । देहस्य कर्माधीनत्वाद्यादृशं कर्म, तादृशो देहो भवतीत्यर्थः ॥ २३ ॥
इति श्रीवल्लभाचार्यैः साधनादिविभेदतः ।
मार्गाः प्रोक्ता विचार्यैषु प्रविशन्तु फलार्थिनः ॥ १ ॥
भक्त्या श्रीवल्लभाचार्यचरणाम्बुजयुगं प्रभून ।
प्रणम्य कृपया तेषां यताङ्कः१ सुखावहाः ॥ २ ॥
श्रीमत्कल्याणरायेण श्रीगोविन्दसुतेन हि ।
पुष्टिप्रवाहमर्यादाविवृतिः कृतिना कृता ॥ ३ ॥
इति श्रीविट्ठलेश्वरचरणकमलैकतानश्रीकल्याणरायविरचिता पुष्टिप्रवाह-
मर्यादाविवृतिः समाप्तिसमर्पत् ॥
१. साधु ।
श्रीकृष्णाय नमः।
पुष्टिप्रवाहमर्यादा ।
श्रीपीताम्बरकृतविवृतिसमेता ।
नमः श्रीवल्लभाचार्यचरणान्जनखेन्दवे ।
पुष्टिप्रवाहमर्यादास्तारका येनं शोभिताः ॥ १ ॥
न भेदस्ते कुत्राप्यतिरुचिर किन्तु प्रियतया
विभेदोऽतः स्वामिन् कृपय मयि दासेऽतिविधुरे ।
विभेदः केन स्यात् स्वकृतनिजपुष्टेरितरथा
प्रवाहादेः स्वीयप्रणतचरणप्रापक विभो ॥ २ ॥
श्रीवल्लभसुतचरणाम्भोरुहमकरन्दमत्तमधुपो यः।
जयति निगूढत्रिसरणिमाल्यां तस्य झङ्कारः ॥ ३ ॥
इह हि चिद्रूपत्वेन भगवदंशत्वेन च तुल्येषु जीवेषु केषाञ्चित्पुरुषोत्तमप्राप्तिः,
केषाञ्चिदक्षरस्य, केषाञ्चित्स्वर्गादेः, केषाञ्चिदन्धन्तमसः, सा श्रूयत इति कुतः फलभेदः,
कुतो वा स्वभावभेदः, कथं वा केषाञ्चित्स्वभावविरुद्धे देहक्रिये, इतरेषां च तदनुरूपे
इत्यादिप्रकारेण सेवाफलविवरणादिग्रन्थश्रवणादन्यतश्च सन्दिहानानां सन्देहवारणाय
तदुपायभूतसार्गतत्साङ्कर्य निरूपयितुं बहूनां सन्देहानां भेदज्ञानादेव निवृत्तिं हृदि कृत्वा
मार्गत्रयभेदनिरूपणं श्रीमदाचार्याः प्रतिजानते पुष्टीत्यादि ।
पुष्टिप्रवाहमर्यादा विशेषेण पृथक् पृथक् ।
जीवदेहक्रियाभेदैः प्रवाहेण फलेन च ॥ १ ॥
वक्ष्यामि सर्वसन्देहा न भविष्यन्ति यच्छ्रुतेः ।
एतन्मार्गत्रयं विशेषेणोत्कर्षादिरूपव्यावर्तकधर्मेण जीवादिभेदैः प्रवाहेण सर्ग-
परम्पराया अविच्छेदेन फलेन च पृथक् पृथक् भिन्नं भिन्नं यथा स्यात्तथा वक्ष्यामीत्यर्थः ।
भेदकथनफलमाहुः सर्वेति । यच्छ्रुतेः उक्तभेदकचतुष्टयश्रवणात् । एतेन जगत्यनेके
मार्गाः कथं त्रय एवोच्यन्त इत्यपि सन्देहोऽनेनैवापयासतीत्यपि बोधितम् । ज्ञाते स्वरूपे
अन्यान्तर्भावस्यापि सुखेनैव ज्ञानात् । न चैकेनैव भेदसिद्धावितरेषां वैयर्थ्यं शङ्क्यम् ।
स्वरूपसाधनफलैक्यनिरासकत्वेन सर्वेषामेव सार्थक्यात् । अत्यन्तविविक्तत्वज्ञान एव
सर्वसन्देहानिरासात् ॥ १ ॥
नन्वाश्रयसिद्धौ भेदकं वक्तव्यम्, प्रकृते तु पुष्ट्यादिशब्दवाच्यानां मार्गाणामप्रसि-
५ पु. प्र. म.