षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 93, कुल 408 में से
संदर्भ में पढ़ेंश्रीदेवकीनन्दनचरणकृतप्रकाशव्याख्योपेतः। ५
एवमीश्वरजीवविचारभेदेन धर्मादिचतुर्णां द्वैविध्यमुक्त्वा विस्तरेण लौकिकान्
वक्तुमुपक्रमन्ते लौकिकानिति ।
लौकिकांस्तु प्रवक्ष्यामि वेदादाया यतः स्थिताः ।
धर्मशास्त्राणि नीतिश्च कामशास्त्राणि च क्रमात् ॥ ४ ॥
त्रिवर्गसाधकानीति न तन्निर्णय उच्यते ।
मोक्षे चत्वारि शास्त्राणि लौकिके परतः स्वतः ॥ ५ ॥
द्विधा द्वे द्वे स्वतस्तत्र सांख्ययोगौ प्रकीर्तितौ ।
त्यागात्यागविभागेन सांख्ये त्यागः प्रकीर्तितः ॥ ६ ॥
लौकिकान् प्रकर्षेण वक्ष्यामीत्यर्थः । तुशब्दस्त्वलौकिककथनापेक्षां व्यावर्त-
यति । तत्रोपपत्तिमाहुर्वेदाद्या इति । यतो यस्माद्धेतोराद्या ईश्वरविचारितास्ते
वेदाद्वेदस्य विद्यमानत्वात्तत एव स्थिताः प्रवर्त्तमानाः सन्त्यतस्तानविहाय लौकिकाः
कथ्यन्त इति भावः । किञ्च, स्थिता इति पदेन गतिनिवृत्तिः सूच्यते । धात्वर्थस्य
तथात्वात् । तथाचाऽधुना प्रवृत्त्यभावेन तत्कथनप्रयोजनाभाव उक्तः । अतो लौकि-
कानामेव वक्तव्यत्वात्तन्मध्ये त्रिवर्गनिर्णयस्याऽनावश्यकत्वमाहुर्धर्मशास्त्राणीति ।
धर्मशास्त्राणि मन्वादीनि। नीतिः नीतिप्रतिपादकमर्थशास्त्रम् । कामशास्त्राणि वात्स्या-
यनादीनि । क्रमात्प्रत्येकं त्रिवर्गस्य धर्मादित्रितयस्य साधकानि सन्ति । चकारद्वयेन
तत्तन्निर्णयग्रन्था अपि सङ्गृह्यन्ते । इति हेतोस्तन्निर्णयोऽत्र नोच्यते प्रयोजनाभावादिति
भावः । मोक्षनिर्णयस्याऽऽवश्यकत्वायाऽऽहुर्मोक्षे चत्वारि शास्त्राणीति । लौकिके
जीवविचारिते मोक्षे चत्वारि शास्त्राणि साधकानि सन्तीत्यर्थः । यद्यपि धर्मादिशा-
स्त्राणामपि बहुत्वं, तथापि देशाद्याचारभेदेन विरोधाभावात्तत्समाहितिर्भवति । मोक्षस्तु
पुरुषार्थरूप इति तस्य चतुर्द्धा कथने भ्रमो भवति, स न युक्त इति तन्निरासाय
निर्णीयत इति भावः । तस्य चातुर्विध्यव्यवस्थामारहुः परतः स्वतः इति । परतः
स्वतश्चेति द्विधा द्विप्रकारके द्वे द्वे शास्त्रे स्त इत्यर्थः । अत्राऽयमर्थः । शास्त्रद्वयं स्वतो
मोक्षसाधकम् । शास्त्रद्वयं परतश्चेति । यत्र शास्त्रोक्तरीत्या साधनाचरणे कृते जीवः
कृतार्थो भवति तत्स्वतःशास्त्रमुच्यते । यत्र तदुक्तरीत्या साधनेऽकृतेऽपि कस्यचित्प्र-
सादात्कृतार्थो भवति तत्परतः शास्त्रमुच्यते । उभयोर्द्वैविध्याच्चत्वारि तानि भवन्ति ।
यद्वा, परतः स्वतश्चेति द्विप्रकारके लौकिके मोक्षे द्वे द्वे ते स्त इति । अस्मिन्नर्थेऽयं
भावः । लौकिको मोक्षो हि स्वरूपतो द्विविधः । स्वाश्रयः पराश्रयश्चेति । यत्राऽवि-
१ अत इत्यारभ्य मुक्तो भवतीति भाव इत्यन्तो निबन्ध एव नास्ति सार्धद्वयस्य, कपुस्तके । २ तर्हीति ख.
३ कृतेऽपीत्यवग्रहशून्यः सर्वत्रोपलब्धः पाठः । भातीत्यवग्रहोऽपीति तथैव निवेशः ।