षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 89, कुल 408 में से
संदर्भ में पढ़ेंश्रीकृष्णाय नमः ।
श्रीगोपीजनवल्लभाय नमः ।
श्रीमदाचार्यचरण कमलेभ्यो नमः ।
श्रीमद्भगवद्वदनावतारश्रीमद्वल्लभाचार्यचरणप्रणीतः
बालबोधः ।
श्रीदेवकीनन्दनचरणकृतप्रकाशव्याख्योपेतः ।
यच्चमत्कृतिरेवाऽन्तर्निरस्यति तमः स्मृता ।
अलङ्कुर्वन्तु मद्वाचमाचार्यचरणत्विषः ॥ १ ॥
यदाश्रयवतामेव बल्लवीजनवल्लभः ।
प्रसीदति विनोपायैर्विट्ठलेशं तमाश्रये ॥ २ ॥
पितृपादाम्बुजयुगं भक्त्या नत्वा मुहुर्विधा ।
मतिं स्वामनतिक्रम्य बालबोधो विचार्यते ॥ ३ ॥
भक्तिमार्गे फलं कृष्णस्तदास्वादस्तु दुर्लभः ।
जीवानामत एवाऽन्यमतेषूत्पद्यते रतिः ॥ ४ ॥
तत्प्रेरितेन रुद्रेण मतान्युक्तानि वै कलौ ।
विशेषतः प्रवर्तन्ते स्वातन्त्र्यं न यतो नृणाम् ॥ ५ ॥
तत्तत्फलप्रशंसैव तत्र तत्र निरूप्यते ।
तन्मोहवशतो लोकः परिभ्रमति केवलम् ॥ ६ ॥
अतः कदाऽपि कृष्णस्य भजनं लभते न सः ।
फलाभावाद्दैवसृष्टिर्व्यर्था भवति सर्वथा ॥ ७ ॥
'दैवी सम्पद्विमोक्षाये'त्युक्तिस्तर्हि विरुध्यते ।
अतः करुणया बालबोधमग्निश्चकार हि ॥ ८ ॥
अष्टादशानामत्र श्रीभगवद्वचसामपि ।
पुराणानां स्मृतीनां च प्रामाण्यज्ञापनाय हि ॥ ९ ॥
१ तद्विशेषा इति क.