षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 69, कुल 408 में से
संदर्भ में पढ़ें[शीर्षक] गो० श्रीद्वारिकेशचरणविरचिततट्टिप्पणेन समलङ्कृतम् । ५७
स्मरश्रमजलाणुभिः सकलगात्रजैः सङ्गमः ॥ ८ ॥
रागतस्यैव बिन्दवो न तु केवलजलमात्रस्य । अत एवोक्तं सकलगात्रजै-
रिति। एभिर्विशेषणैः परमकांष्ठा¹पन्नपुष्टिपुष्टिमार्गान्तरङ्गभक्तत्वं सर्वदैतद्रस-
पूर्णत्वमन्तरङ्गभक्तानुगुणत्वमेतल्लीलामध्यपतित्वादिकं सूचितम् । स्वस्यै-
तद्रसपूर्णत्वेन केवलैतद्भजनकत्र्तुरप्येतद्रसं ददातीति स्पष्टमेव वैल-
क्षण्यम् ॥ ८ ॥
गो० श्रीद्वारिकेशचरणविरचितं टिप्पणम् ।
यास्तत्समकथनेन, तनुभवत्वसम्पादनमभिप्रेत्य कथनेन, च । अत एवेति ।
यदि श्रमस्वेदरूपाः स्युस्तर्हि सकलगात्रजा न भवेयुः । केशनखादिषु स्वेदस्यानुप-
लब्धेः । तेन रसरूपा एवेतिभावः । एभिरिति, सकलगोपिकासङ्गम इत्यनेन
पुष्टिपुष्टिमार्गान्तरङ्गभक्तत्वे, स्मरश्रमजलाणुभिरनेन सर्वदैतद्रसपूर्णत्वम्, सकलगा-
त्रजैरनेन भक्तानुगुणत्वम्, सङ्गम इत्यनेन लीलामध्यपतित्वम्, चादिपदेन तत्समा-
नसौभाग्यवतीत्वेन तद्विरुद्धस्वभावात् । यथा रजोगुणप्रधाना सा (लक्ष्मीः)
जीवान्मदेन केवलभजनकर्तॄन् भगवद्विमुखान्कृत्वा स्वर्गादिलोभेन प्रवाहमार्गे
निपातयति, न तथेयमिति तत्सपत्नीत्वात् । दृश्यते हि परस्परं विरुद्धस्वभावत्यः
सपत्न्यो लोके । एतदेव विशदयन्त आहुः स्वस्यैतदिति, यद्यपि, ‘मामेव ये
प्रपद्यन्ते मायामेतां तरन्ति ते’ इति भगवता प्रतिश्रुतम्, तथापि श्रीमद्यमुनायां
रसविवशेन भगवता स्वस्याष्टविधैश्वर्यस्य स्थापितत्वाच्छ्रीयमुनाया अनन्य-
भजनकर्त्तुस्तनुभवत्वं सम्पाद्य तद्रसदानमिति भावः । दृश्यते हि लोकेपि महा-
राज्ञां पूर्णाधिकारिणां विनाज्ञां, लघुकार्यस्याप्यकरणम्, अपूर्णाधिकारिणामप्याज्ञातो
महत्कार्यसम्पादनम्, किं तत्राखिललोकनियन्तुर्भगवतः प्राणादपि प्रियायाः श्रीमद्यमु-
नायास्तथाकरणे चित्रमिति हृदयम् । अन्वयस्तु, हे प्रिये ! कमलजासपत्नि तव स्तुतिं
कः करोति, तत्र हेतुः, यत् हरेरनुलक्ष्म्याः सेवया आमोक्षतः सुखं भवति, तव
कथा इयं अधिका, यत्सकलगोपिकासङ्गमस्मरश्रमजलाणुभिः सकलगात्रजैः सङ्गमो
भवति, लक्ष्म्याः यत् (न) भवतीत्येतेषामध्याहारः । एवं अस्मिन्पद्ये तनुभवत्वसम्पादक-
त्वमष्टमैश्वर्यं दर्शितम् ॥ ८ ॥
१ पराकाष्ठा० पाठः ।