सामग्री पर जाएँ
सर्वकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 64, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 64

५२ श्रीयमुनाष्टकम् ।
तवैव भुवि कीर्तिता न तु कदापि पुष्टिस्थितैः ॥ ७ ॥
साऽपि त्वत्कृपयैव नान्यथेति प्रार्थ्यतेऽस्त्विति। गङ्गाया अपि फलसाधकत्वं
त्वत्सम्बन्धादेवेत्यत आहुः, सुरधुनी तव सङ्गमात् परं अत्यर्थं भुवि की-
र्तिता स्तुतेत्यर्थः, न तु कदापि त्वद्रहिताऽपीत्यर्थः । ननु क्वचित्पुराणादौ
केवलाया अपि स्तुतिर्दृश्यत इति स्तुतौ विशेषमाहुः पुष्टिस्थितेरिति । मर्या-
दामार्गीयैः केवलाऽपि स्तूयते त्वत्स्वरूपाज्ञानात् । पुष्टिमार्गीयास्तु त्वत्स्व-
रूपं जानन्तीति त्वत्सम्बन्धादेव स्तुवन्तीत्याहुः पुष्टिस्थितैरिति ॥ ७ ॥
गो० श्रीद्वारकेशचरणविरचितं टिप्पणम् ।
गुणगणकथनं सा स्तुतिरूपा भवतु । अस्तुपदस्य तात्पर्यमाहुः सापीति । लाल-
नापि भगवत्कृतप्रतिबन्धेपि रक्षिकायास्तव कृपया सामर्थ्याभावेनैव सम्पत्स्यते,
नान्यथा । इतरथा 'तदान्यसेवेति व्यर्थे'तिसेवाफलविवृतौ वक्ष्यमाणमनुपपन्नं स्यात् ।
एतत्सेवा तु भक्तसेवैवेति स्फुटमुक्तम्, तव सर्वभक्तमूलत्वात् । ननु गङ्गाया यद्यपि
'सन्निवेश्य मनो यस्मिन्च्छुद्धं यामुनयोमलाः । त्रैगुण्यं दुस्त्यजं हित्वा सद्यो याता-
स्तदात्मतामि'त्यादिरूपं यस्यां स्नानार्थं पानार्थं वा गच्छतः पुंसः पदे पदेऽश्वमेध-
राजसूयादीनां फलं न दुर्लभमि'त्यादिरूपं च फलदात्रीत्वं श्रूयते, तथापि, यथा-
धिकारमलौकिकसामर्थ्यादिफलसाधकत्वं सरश्रमजलजायास्तव संमिलनादेवेत्यत
आहुः गङ्गाया इति । सुरधुनीति । धुञ्कम्पने । धुनोति तीरस्थवीरुधो द्रुमानिति
धुनी । किस्मेति क्विप् । पृषोदरादित्वात्नुकू । नान्तत्वान्डीप् । सुराणां धुनी, देव-
लोकनदीति, कौ तु त्वत्सङ्गमादेव स्तुता । लोके कथादिषु माहात्म्येषु च 'गङ्गा-
द्वारे प्रयागे च गङ्गासागरसङ्गमे, सर्वत्र दुर्लभा गङ्गे'त्यादिवचनेषु श्रीमद्यमुनासम्मिल-
नात्पूर्वमपि श्रीहरिद्वारकलखलक्षेत्रादिषु च मुक्तिदात्रीत्वं श्रूयते, तदाक्षिपन्नाहुः
नन्विति । विशेषमिति, अधिकारिभेदेन किञ्चित्प्रकारे नानात्वम् पुष्टीति व्याकु-
र्वन्ति । मर्यादेति । वेदोपनिषत्पुराणादिश्रवणेन यथार्थभगवन्माहात्म्यज्ञानम्, तस्मि-
न्सति तत्रोक्तसाधनानुष्ठानं तेन च स्वरूपज्ञानम्, तस्मिन्सति मुक्तिरिति मर्यादा-
मार्गः । निजजनानुदिधीर्षुर्भगवान्दयया निस्साधनान् अनुगृह्य लीलासुष्टौ प्रवेशयतीति
पुष्टिमार्गः । एवं च मर्यादामार्गीयाणां शास्त्रश्रवणैकहेतुकज्ञानवत्त्वम् । तत्र च सृष्टि-
स्थित्यर्थं तदिच्छयैव तत्स्वरूपं गूढरीत्योक्तम् । तथा च श्रुतिः । 'यतो वाचो
निवर्तन्ते अप्राप्य मनसा सह, आनन्द ब्रह्मणो विद्वान्न बिभेति कुतश्चने'ति । अत्र
वाग्गोचरस्तुतिकस्य मनोध्यानाविषयस्य ब्रह्मण आनन्दविदुषोऽकुतोभयवत्त्वमुच्यते,