सामग्री पर जाएँ
सर्वकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 401, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 401

दीक्षितलालूभट्टकृतटीकासमेतम् । ६१
दानलक्षणत्वात् । इदं तु ‘क्रीडाभाण्डं विश्वमिदं’ इति चतुर्थस्कन्धवाक्यात् निवेद्ये
देहादौ भगवत्सत्तायाः सर्वदा विद्यमानतया स्वसत्ताया अभावात् । अत एव परसत्तो-
पादानमपि न संभवति । सर्वस्य पदार्थजातस्य भगवदीयत्वात् । किन्तु भगवदीयस्यैव
पदार्थस्य भगवते समर्पणमिति नात्र दानम् । दानाभावेन दत्तापहारोपि नैवास्तीति
भक्तिमार्गभिन्नमार्गे निषेधप्रवृत्तिरिति भावः । तस्मान्निवेदितस्य भगवदुपभुक्तशिष्टस्य
ग्रहणे निषेधाभावात् प्रभुदत्तप्रसादत्वेन ग्रहणं विधेयमेव । एतदेव नवरत्नप्रकाशे श्रीमत्-
प्रभुचरणैरवादि ‘दाने हि न स्वविनियोगो न तु निवेदन’ इति । ननु मास्तु दत्तापहार-
स्तथापि ‘अपि दीपावलोकं मे नोपयुञ्ज्यान्निवेदित’मित्यनेन निवेदितग्रहणस्य निषेधात् कथं
निवेदितस्वीकार इत्याशङ्क्य समादधते तथा च सकलं हरेः न ग्राह्यमिति वाक्यं हि
भिन्नमार्गपरं मतमिति । इति वाक्यमित्यत्र इतिशब्दः प्रकारे । तथा हरेः सकलं
न ग्राह्यमिति प्रकारकं वाक्यं ‘अपि दीपावलोकं मे’ इत्यादिरूपं भिन्नमार्गपरम्, न तु
भक्तिमार्गपरमित्यर्थः । अपि च । समर्पणगद्यसमाप्तौ दासत्वस्य निरूपितत्वादङ्गीकारे
दासधर्मस्य भगवदुच्छिष्टग्रहणस्योचिततरत्वमेव । श्रीमदुद्धवेनापि भगवदुच्छिष्टग्रहणस्य
दासधर्मत्वबोधनाय ‘उच्छिष्टभोजिनो दासास्तव मायां जयेमही’त्यत्र दासपदमभाणि ।
दास्यं च सर्वथा कर्तव्यमेव । ‘श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं
दास्यं सख्यमात्मनिवेदन’मिति प्रह्लादेन नवविधभक्तिषु दास्यस्य गणनात् । अस्मिन्नेव
सप्तमस्कन्धे श्रीनारदेन ‘श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः । सेवेज्यावनतिर्दास्यं
सख्यमात्मनिवेदन’मित्यनेन नवविधभक्तौ दास्यस्योपादानात् । तत्रापि ‘नृणामयं परो धर्मः
सर्वेषां समुदाहृत’ इत्युक्त्यावश्यकत्वस्य सूचनाच्च ।
ननु सप्तमस्कन्धे ‘हित्वात्मपातं गृहमन्धकूपं वनं गतो यद्धरिमाश्रयेते’त्यत्र त्यागस्यो-
क्तत्वात् त्याग एव कर्तव्यः, तथा सति भिक्षावृत्त्या कस्यचिद्वैष्णवस्य गृहाद्देहनिर्वाहकमात्रं
भगवदुपभुक्तशिष्टं गृहीत्वा निष्प्रत्यूहं भगवद्भजनं कार्यम्, किमर्थं दारागारसम्पादनं
चेत्याशङ्क्य दारादिसम्पादनप्रयोजनं देहादिनिर्वाहप्रकारं चाहुः सेवकानां यथेत्यारभ्य,
तथा कार्यं समर्प्यैवेत्यन्तेन ।
सेवकानां यथा लोके व्यवहारः प्रसिध्यति ॥ ७ ॥
तथा कार्यं समर्प्यैव सर्वेषां ब्रह्मता ततः ।
सेवकानामिति । भगवतः श्रीविग्रहं सेवमानानामित्यर्थः । तेषां यथा लोके
सर्वोपि व्यवहारः भगवत्सेवारूपः सेवोपयोगिलौकिकभोजनादिरूपो वैदिकः पुत्रोपन-
यनविवाहादिरूपश्च स यथा येन प्रकारेण सिध्यति । तथा कर्तव्यम् । तथा सति
स्त्रीपुत्रादिभिः सह कृष्णसेवा सिध्यति । तदभावे तु सेवाया न निर्वाहः । अतः स्त्रीपुत्रादि-
सम्पादनं कृष्णसेवार्थमिति प्रयोजनं सिद्धम् । अनिवेदिताः स्त्रीपुत्रादयो बाहिर्मुख्यं जनय-
न्यतस्तन्निवृत्त्यर्थं स्त्रीपुत्रादीनां निवेदनमावश्यकम् । तदेतदुक्तं तथा कार्यं समर्प्यैवेति ।