सामग्री पर जाएँ
सर्वकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 389, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 389

श्रीगिरिधरकृतविवृतिसमेतम् । ४९
जघन्यफलोपयोगि सेवोपकारकत्वं क्रमेण सिध्यतीति । तेन मार्गान्तरे या दोषनिवृत्तिः
साधनान्तरमपेक्षते, सात्र सेवाधिकारसम्पादकसंस्कारस्यानुषङ्गिकं फलमित्यतोऽस्य सिद्धान्त-
रहस्यत्वमिति च ।
एवं प्रभुप्रेरणया विभातं यन्मे तदुक्तं नहि तत्स्वबुद्ध्या ।
अतः स्वदासे करुणां वितन्वन् स एव मत्स्वान्तमलङ्करोतु ॥ १ ॥
यदत्र सदसद्वापि जीवबुद्ध्योदितं क्वचित् । क्षमन्त्वाचार्यचरणास्तं मे मन्तुं कृपालवः ॥
इति श्रीमद्वल्लभाचार्यचरणैकतानपीताम्बरात्मजपुरुषोत्तमविरचितं
सिद्धान्तरहस्यविवरणं सम्पूर्णम् ।
श्रीकृष्णाय नमः ।
सिद्धान्तरहस्यम् ।
श्रीगिरिधरकृतविवृतिसमेतम् ।
स्वीयजीवानुदिधीर्षुः स्वयमाज्ञापयद्धरिः ।
साक्षाद्यं तमहं वन्दे श्रीवल्लभविभुं सदा ॥ १ ॥
तदाज्ञानन्तरं श्रीमदाचार्यैर्निरूपितम् ।
तद्वचोविवृतिं कर्तुमारभे तत्प्रसादतः ॥ २ ॥
अथ श्रीमद्वृन्दावनचन्द्रः स्वस्य रासादिक्रीडारूपमलौकिकमनुभावं प्रकटयितु-
मिच्छन् स्वमुखारविन्दाधिष्ठात्रलौकिकार्थिखलीलाक्रान्तसर्वश्रीवल्लभाचार्यरूपेण प्रकटी-
कृत्य स्वाभिलषितशुद्धपुष्टिमार्गं प्रकटयितुमाज्ञामदात्, ततस्तदाज्ञया एवार्थं निरूपयन्तः
श्रीवल्लभाचार्यचरणाः पद्यबन्धेन तमर्थं सपूर्वपीठिकं निरूपयितुं प्रतिजानते श्रावणस्यामले
पक्ष इति ।
श्रावणस्यामले पक्ष एकादश्यां महानिशि ।
साक्षाद्भगवता प्रोक्तं तदक्षरश उच्यते ॥ १ ॥
श्रवणर्क्षस्य विष्णुदैवत्येन तदुपलक्षितमासस्यापि तथात्वमेवास्तीति स्वयमपि सर्वो-
त्तमं वैष्णवमार्गमेव प्रकटयितुमुद्यत इति च विचिन्त्य तद्देवताक एव मासे भगवानाचा-
र्यानाज्ञापयदिति तस्यैव ग्रहणम् । तस्यामले मलरहिते सर्वदोषविवर्जिते पक्षे शुक्लपक्ष
इति यावत्, तस्मिन् । एकादश्यां विष्णुदैवत्यामेव तिथौ । महानिशि अर्धरात्रे पुष्टि-
मार्गोपदेशान्मर्यादाविरुद्धे स्वभक्तैः सह निःशङ्कतया यो निरवध्यानन्दानुभवस्तदाधारभूते
पुष्टिरूपे समये । तदा तादृग्भूतेनैव भगवता साक्षादव्यवधानेन । अथवा । साक्षाद्भग-
वतान्निरावरणपूर्णपुरुषोत्तमस्तेन । प्रकर्षेण परमकृपापूर्वकं यदुक्तं तदक्षरशः प्रत्यक्षरार्थ-