षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 383, कुल 408 में से
संदर्भ में पढ़ेंश्रीपुरुषोत्तमकृतविवरणसमेतम् । ४३
सहजा देशकालोत्था लोकवेदनिरूपिताः ।
संयोगजाः स्पर्शजाश्च न मन्तव्याः कथञ्चन ॥ ३ ॥
अन्यथा सर्वदोषाणां न निवृत्तिः कथञ्चन ।
प्राग्भिस्त्वत्र पञ्चविधदोषस्वरूपमात्रं स्वस्वविचारितरीत्योच्यते, न तु प्रासङ्गिकं
विचार्यते, न वा प्रत्यक्षविरोधः परिह्रियते । तथा सति तन्मतेनाधुनिकानां जघन्याधि-
कारिणां तद्रीत्या दोषनिवृत्त्यादिः क्लेशेन साधयितव्य इति तन्मतं विहाय श्रीरघुनाथानां
विवरणमनुसृत्यैवं विवृतम् । श्रीगोकुलनाथैस्त्वत्र पूजामागौक्तदोषाणामेव निवृत्तिर्ब्रह्मसम्ब-
न्धेनाभिप्रेयेते । तत्र देहस्य भौतिकत्वाद्वतशुद्धिनिवार्याः सहजाः । 'अपसर्पन्तु ते भूताः'
'पवित्रं कुरु चासन'मित्यादिना आसनादिशुद्धिविधानात्पूजादेशेपि दोषाः सन्तीति देशोत्थाः ।
'प्रातर्होमं च कृत्वैव कृत्वा वा ब्रह्मयज्ञकम् । यद्वा माध्याह्निकं कृत्वा पूजयेत्पुरुषोत्तम'-
मिति कालविधानादन्यकाले पूजने कालोत्थाः । एतयोरेकपदोपात्तत्वादैक्यम् । लोकनि-
रूपितस्तु 'आ ब्रह्मभुवनाल्लोकाः पुनरावर्तिन' इति वाक्यात्पुनरावृत्तिरूपः । वेदनिरू-
पितस्तु 'यस्य स्मृत्या चे'ति वाक्योक्तो न्यूनत्वादिः । एतयोरप्यैक्यम् । संयोगजस्त्वभिम-
न्त्रितजलादावनभिमन्त्रिततत्संयोगजः । आसादितानां गन्धपुष्पादीनां स्त्रीशूद्रस्पर्शजः । चका-
रादन्ये नैवेद्यादौ दृष्ट्यादिजाः । ते न भक्तिमार्गे, न मन्तव्याः, न गण्या इत्येवं
व्याख्यानात् । तत्र हेतुस्तु ब्रह्मसम्बन्धकरणमेव । तथा च तदपराधानां भगवतैव निवार-
णात्तथेति तदाशयः ॥ २ ॥
प्रकृतमनुसरामः । ननु भवत्वेवं पूर्वदोषनिवृत्तिः, तथापि कर्मदेशकालांनां दोषहे-
तूनां विद्यमानत्वात्तैः संयोगाद्युत्पादने ताभ्यां जायमाना दोषाः कथं निवारणीया इत्यत
आहुः असमर्पितेत्यादि ।
असमर्पितवस्तूनां तस्माद्वर्जनमाचरेत् ॥ ४ ॥
निवेदिभिः समर्प्यैव सर्वं कुर्यादिति स्थितिः ।
यस्माद्ब्रह्मसम्बन्धमन्तरेण न सर्वदोषनिवृत्तिस्तस्माद्धेतोः असमर्पितवस्तूनां आत्म-
समर्पणोत्तरं लब्धानां 'सर्वलाभोपहरण'मित्युक्तरीत्या भगवत्यनिवेदितानां पदार्थानां
वर्जनमाचरेत् । वृजी वर्जने । वर्जनं संसर्गराहित्यम्, तत्कुर्यात् । तानि भगवतेऽनुपहृत्य
न स्वयं विनियुञ्जीत । प्रारब्धादयो हि न दृष्टसामग्रीसंपादनरूपव्यापारं विना
संयोगस्पर्शाद्युत्पादयन्ति । तत्संपादिता च सामग्र्यसमर्पितैव दोषावहा, नतु समर्पिता,
भगवदीयत्वात् । अतोऽसमर्पिताया असंसर्गे संयोगस्पर्शाभ्यां भाविनां दोषाणामसंश्लेषादेव
वारणमित्यर्थः । ननु भवत्वेवं कालादिकृतदोषवारणम्, तथापि प्रारब्धवशाद्विद्यमानस्य
देहादेर्निर्वाहस्तु भगवदीयेनैवान्नादिना कार्यः । तथा सति स्वस्य स्वामिवस्तुभोगजनितो
दोषः सेवां प्रतिबध्नीयात्, अतस्तस्य कथं निवृत्तिरित्यत आहुः निवेदिभिरित्यादि ।
निवेदिभिरिति करणे तृतीया । निवेदो निवेदनं भगवति समर्पणम्, तद्येषामस्ति, मतु-