षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 381, कुल 408 में से
संदर्भ में पढ़ेंदुःखाभावः सुखं चेति । चतुर्थस्कन्धे ‘श्रेयस्त्वं कतमद्राजन्कर्मणात्मन ईहसे । दुःखहानिः
सुखावाप्तिः श्रेयस्तन्नेह चेष्यत’ इति नारदेनोक्तम् । तत्र पूर्वं दुःखाभावो मृग्यः ।
बुद्धेस्तत्रैव प्रथमप्रवृत्तेः । दुःखं च पूर्वोक्तेभ्य एव दोषेभ्यः । दोषाणां च निवृत्तिर्न
प्रायश्चित्तकर्मणा आत्यन्तिकी । तदुत्तरमपि पुनः पापे मनःप्रवृत्तिदर्शनात् । 'कर्मणा
कर्मनिर्हारो न ह्यात्यन्तिक इष्यते । अविद्वदधिकारित्वात्प्रायश्चित्तं विमर्शन’मिति षष्ठे
शुकवाक्याच्च । न च तर्हि ज्ञानात्तन्निवृत्तिरस्तु । ‘यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरु-
तेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथे’ति गीतायां भगवद्वाक्याच्चेति शङ्क्यम् ।
‘नाश्रतः पथ्यमेवान्नं व्याधयोऽभिभवन्त्युत । एवं नियमकृद्राजन् शनैः क्षेमाय कल्पते ।
तपसा ब्रह्मचर्येण शमेन च दमेन च । त्यागेन सत्यशौचाभ्यां यमेन नियमेन च ।
देहवाग्बुद्धिजं धीरा धर्मज्ञाः श्रद्धयान्विताः । क्षिपन्त्यघं महदपि वेणुगुल्ममिवानल’ इति
त्रिषु प्रथमे पथ्याशनदृष्टान्तेन शनैर्नानासाधनतः क्षेमशब्दोदितज्ञानोत्पत्तिमुक्त्वा, द्वितीये
तत्सहकारीणि नवसाधनान्युक्त्वा, तृतीये पापनाशकथनात् । श्रीधरीये तप ऐकाग्र्यम् ।
‘मनसश्चेन्द्रियाणां च ऐकाग्र्यं परमं तप’ इति स्मृतेः । ब्रह्मचर्यं च ‘स्मरणं कीर्तनं केलिः
प्रेक्षणं गुह्यभाषणम् । सङ्कल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरेव चे’त्यष्टाङ्गमैथुनाद्विपरीतम् ।
शमो मनोनिग्रहः । दमो बाह्येन्द्रियनिग्रहः । त्यागो दानम् । सत्यं सत्यभाषणम् ।
शौचं देहाशुद्धिनिवारक आचारः । यमोऽहिंसादिः । नियमो जपादिरिति तेषां विवरणात् ।
एवं बहुकालतो दोषनिवृत्तिरिति सहकार्याभाव इदानीं ज्ञानस्योत्पत्तेरेव दुर्घटत्वात्कथञ्चित्
भवनेपि सहकारिसंपत्तेर्दुर्लभत्वाच्च ।
अतः परं भक्तितो दोषनिवृत्तिरवशिष्यते । ‘केचित्केवलया भक्त्या वासुदेव-
परायणाः । अघं धुन्वन्ति कार्त्स्न्येन नीहारमिव भास्करः । न तथा ह्यघवान् राजन्
पूयेत तपआदिभिः । यथा कृष्णार्पितप्राणस्तत्पूरुषनिषेवया । सध्रीचीनो ह्ययं लोके
पन्थाः क्षेमोऽकुतोभयः । सुशीलाः साधवो यत्र नारायणपरायणाः । प्रायश्चित्तानि
चीर्णानि नारायणपराङ्मुखम् । न निःपुनन्ति राजेन्द्र सुराभाण्डमिवापगाः । सकृन्मनः
कृष्णपदारविन्दयोर्निवेशितं तद्गुणरागि यैरिह । न ते यमं पाशभृतश्च तद्भटान् स्वप्नेपि
पश्यन्ति हि चीर्णनिष्कृता’ इति वाक्यैस्तस्या अपि पापनिवारकत्वेनोक्तत्वात् ।
सा तु ब्रह्मसम्बन्धकरणादेव सिध्यति, न तु तदतिहाय । तथा हि । अत्र प्रथमे ‘केचि’-
दितिपेदन तादृशाधिकारिणां दुर्लभत्वं सूचितम् । ‘केवलये’तिपदेन सहकारिनिरपेक्षत्व-
बोधनाद्भक्तेर्ज्ञानापेक्षया प्राबल्यं च बोधितम् । ‘कार्त्स्न्य’पदेन नीहारभास्करदृष्टान्तेन
च निरन्वयपापध्वंसजनकत्वम् । प्रौढे भास्करे नीहारस्य तथा नाशात् । द्वितीये ‘कृष्णा-
र्पितप्राण’ इत्यधिकारिविशेषणेन तस्य कृतब्रह्मसम्बन्धत्वस्य बोधनात् । उचितं चैतत् ।
अपहतपाप्मनः स्वस्वामित्वेऽनुसंहिते दोषनिवृत्तेर्युक्तत्वादिति । परमयं विशेषः । तथा
हि । तत्र तृतीयान्तेन ‘तत्पूरुषनिषेवये’तिपदेन सर्वदा भगवद्भक्तसङ्गत्वं च सूचितम् ।
तृतीये मार्गोत्कर्षबोधनार्थं भगवद्भक्तस्वरूपबोधनेन दाम्भिकादिसंसर्गत्यागः सूचितः ।
सि. र. ६