षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 374, कुल 408 में से
संदर्भ में पढ़ें३४ सिद्धान्तरहस्यम् ।
मार्गास्तत्परत्वेन ज्ञेयम् । अन्ये सर्वेऽपि प्रकाराः पुरुषोत्तमविषये न भवन्ति, किन्तु मायावादि-
सिद्धान्ते भवन्ति । उक्तं च सप्तमस्कन्धे ‘नैषां मतिस्तावदुरुक्रमांघ्रिं स्पृशत्यनर्थापगमो
यदर्थः । महीयसां पादरजोऽभिषेकं निष्किञ्चनानां न वृणीत यावत्’ । पुनः श्रीमदाचार्यैः
पृष्टम् । मायावादः कस्मिन् विषये प्रवर्तते । तदा श्रीमद्गिरिधारिणोक्तम्-महल्लीलारसमन्तरेण
सर्वं मायावाद उच्यते । उक्तं च पुराणान्तरे । ‘जानीत परमं तत्त्वं यशोदोत्सङ्गलालितम् ।
तदन्यदिति ये प्राहुरसुरांस्तानहो बुधा’ इति । मायावादस्वरूपमाह । वेदोक्तकर्माणि
मन्यन्ते, निराकारस्वरूपं भजन्ते, द्वेषेण मोक्षं मन्यन्ते, सर्वदेवान् मां च समं मन्यन्ते,
सर्वमेकीकृत्य जानन्ति, प्रपञ्चमसत्यं मन्यन्त इति मायावादः ।
न ग्राह्यमिति वाक्यं हि भिन्नमार्गपरं मतम् ।
सेवकानां यथा लोके व्यवहारः प्रसिध्यति ॥ ७ ॥
तथा कार्यं समर्प्यैव सर्वेषां ब्रह्मता ततः ।
न ग्राह्यमिति वाक्यं हि भिन्नमार्गपरं मतम् । न ग्राह्यमिति निवेद्य न ग्राह्यमिति
यद्वचनं तत् मद्भजनाद्भिन्नमार्गपरं ज्ञेयम् । उक्तं च गीतायां ‘अवजानन्ति मां मूढा मानुषीं
तनुमाश्रितम् । परं भावमजानन्तो मामेवाक्ष्यमव्ययम्’ ।
पुनः श्रीमदाचार्यैः पृष्टम् । सकलसिद्धान्तस्य फलमेकीकृत्य वक्तव्यम् । तदा
श्रीमद्गिरिधारिणोक्तम्-लोके यथा सेवकस्य व्यवहारः प्रसिद्धोऽस्ति, तथा भजनं विधे-
यम् । उक्तं च गीतायां ‘मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः । मन्मना भव मद्भक्तो
मद्याजी मां नमस्कुरु । कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति’ । एवं प्रथममन्यसे-
वकवद्भजनं विधेयम् । पश्चात् पतिव्रताधर्म आयाति । पुनः श्रीमदाचार्यैः पृष्टम् । सेव-
कस्य व्यवहारः कथमस्ति । तदा श्रीमत्प्रभुणोक्तम्-तथा कार्यं समर्प्यैव सर्वेषां
ब्रह्मता तत इति । यथा लोके सेवकव्यवहारः, तथा समर्प्य कार्याणि कर्तव्यानि । एवं
क्रियमाणे मदाश्रयेण ब्रह्मस्वरूपो भवति । शुद्धो भवतीत्यर्थः । यथा राज्ञः प्रथमं
कश्चिज्जातीयः सेवक आगत्य तिष्ठति । राजसेवकान् मिलित्वा स्वसेवां ज्ञापयति, अहमद्य
प्रभृति भवदीयोऽस्मि, तथा भक्तौ नामग्रहणम् । पश्चाद्राजा आज्ञां ददाति, तदनन्तरं
पृष्ट्वा पृष्ट्वा राजकार्याणि करोति, पश्चाद्राजा पृच्छति, प्रसन्नो भवति, तदा तं स्वसदृशं
करोति, तथाहमपि भक्तं शुद्धं करोमि । उक्तं च प्रथमस्कन्धे ‘अतो वै कवयो नित्यं
भगवत्यखिलात्मनि । कुर्वन्त्यहैतुकीं भक्तिं ययात्मा सुप्रसीदति । श्रुतोऽनुपठितो ध्यात आदृतो
वानुमोदितः । सद्यः पुनाति सद्धर्मस्तन्नामग्रहणादिभिः ।’ एतेन मद्भजनेन मत्सदृशो
भवतीति सूचितम् ।
तत्र दृष्टान्तः । गङ्गात्वं सर्वदोषाणामिति ।
गङ्गात्वं सर्वदोषाणां गुणदोषादिवर्णना ।
गङ्गात्वे न निरूप्या स्यात्तद्वदत्रापि चैव हि ॥ ८½ ॥
यथा शुद्धमशुद्धं वा जलं गङ्गान्तः पतितं सत् गङ्गातुल्यं भवति । परन्तु गङ्गामध्ये