षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 370, कुल 408 में से
संदर्भ में पढ़ें३० सिद्धान्तरहस्यम् ।
दोषाणां तत्प्रविष्टानां जलानामिव सर्वथा । तत्प्रवेशे पुनस्तेषां गुणदोषादिवर्णना ॥१३१॥
गङ्गात्वेनैव कर्तव्या न पानीयप्रयोगतः। शूद्रत्वादिकथात्रापि वैष्णवत्वेन बुध्यताम् ॥१३२॥
उपदिश्य जनोद्धारं पुष्टिमार्गेण सर्वथा । निजासँरूपाचार्येभ्यो दयार्द्वेभ्यो दयानिधिः ॥
कृपया प्रकटीभूय साक्षाच्छ्रीगोकुलेश्वरः । लीलाविशिष्टरूपस्तद्धृदयं प्राविशद्धरिः ॥१३४॥
इति श्रीवल्लभाचार्यदासदासेन रूपितः । तद्वाक्यगूढवाक्यार्थस्तेन तुष्यन्तु ते मयि ॥१३५॥
इति श्रीहरिदासोदिताः सिद्धान्तरहस्यविवृतिकारिकाः समाप्ताः ।
श्रीकृष्णाय नमः ।
सिद्धान्तरहस्यम् ।
श्रीविट्ठलेश्वरविरचितविवृतिसमेतम् ।
श्रीहरिः । श्रीमदाचार्याः स्वप्रकटितशुद्धपुष्टिमार्गानभिज्ञान् स्वमार्गीयसिद्धान्तजि-
ज्ञासून् स्वसेवकान् प्रति कृपया पुरुषोत्तमसिद्धान्तं निरूपयन्ति श्रावणस्यामले पक्ष इति
श्रावणस्यामले पक्षे एकादश्यां महानिशि ।
साक्षाद्भगवता प्रोक्तं तदक्षरश उच्यते ॥ १ ॥
अर्धरात्रे साक्षादव्यवधानेन भगवता श्रीमद्भिरिधारिणा यत्प्रोक्तं तदक्षरश इति
प्रत्यक्षरेण सप्तप्रकारेण निरूप्यते । सप्तप्रकारानाह । श्लोकार्थः, अर्धश्लोकार्थः, पदार्थः,
प्रकरणाथैः, वाक्यार्थः, वेदार्थः, अक्षरार्थः । एतैः सप्तप्रकारैः साक्षादन्तरालरहितं मनो-
वाक्शरीरैः सकलांशेन भगवता पूर्णपुरुषोत्तमेन प्रोक्तं प्रकर्षेण निश्चयं कृत्वोक्तम् ।
उक्तं तत् कस्मिन्नवसरे ? 'श्रावणस्यामले पक्षे एकादश्यां महानिशि' इत्येतस्मिन्नवसरे
प्रोक्तम् । श्रावणे यदुक्तं तत्कथं, तत्र हेतुमाहुः । श्रावणस्तु दक्षिणायनं चातुर्मास्यं च ।
तस्मान्निषिद्धमासे यदुक्तं तस्यायमाशयः । पुरुषोत्तमविषये सर्वदा विधिरेव, न तु निषेधः ।
उक्तं च 'स्मृते सकलकल्याणभाजनं यत्र जायते । पुरुषं तमहं नित्यं व्रजामि शरणं
हरिम्' । तथा चोक्तं दशमस्कन्धे जन्मप्रकरणे 'अथ सर्वगुणोपेतः कालः परमशोभन'
इति । एतावता भगवत्प्रवृत्तिर्यदा भवति, तदा सर्वे उत्तमयोगा भवन्तीत्युक्तम् । शुक्ल-
पक्षस्य हेतुमाह । शुक्लपक्षस्तु पूर्वजानां रात्रिः, तत्र कर्ममार्गानधिकार इति । उक्तं च एका-
दशस्कन्धे 'न रोधयति मां योगो न सांख्यं धर्म उद्धव । न स्वाध्यायस्तपस्त्यागो नेष्टापूर्तं
न दक्षिणा । व्रतानि यज्ञाश्छन्दांसि तीर्थानि नियमा यमा' इति । एकादश्या हेतुमाह ।
एकादशी शिवतिथिः, शिवस्तु भक्तप्रधानः । उक्तं च चतुर्थस्कन्धे । 'अथ भागवता
१ निजाख्यरूपानार्यान् दयार्द्रानिति पाठः ।