षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 367, कुल 408 में से
संदर्भ में पढ़ेंश्रीहरिरायकृतविवृतिसमेतम् । २७
ब्रह्मेति प्रोच्यते सर्वसमत्वाददोषनिर्वृत्तेः । व्यापकत्वं च सम्बन्धे तेनैव विनिरूपितम् ॥३५॥
करणोक्त्या न मुख्योत्र भावित्वान्मानसी कृतिः । युक्तः प्रथमसम्बन्धो भावात्मा भावरूपिणा ॥
अग्रिमोपि तथोभूतः सर्वथा नात्र संशयः । विशेषः परमेतावान् प्रथमो मानसो मतः ॥३७॥
सर्वेन्द्रियैस्तथा चान्तःकरणैरात्मनापि हि । साक्षात्स्वरूपसम्बन्धो द्वितीय इति निश्चयः ॥३८॥
परं तत्रेन्द्रियादीनां कृत्यादीनां च सर्वथा । भावात्मकत्वं मन्तव्यं तादृग्रूपानुभूतितः ॥३९॥
अप्राकृतत्वं चैतद्धि बोध्यं स्यादिन्द्रियात्मनाम् । मानसे पूर्वसम्बन्धे या कृतिस्तनुवित्तजा ॥४०
सा हि साधनतां प्राप्ता प्राकृतेन्द्रियदेहजा । तथोक्तमस्मदाचार्यैस्तत्सिद्ध्यै तनुवित्तजा॥४१॥
एतादृशस्य योगस्य सकृत्करणमात्रतः । अयोग्यानां च योग्यानां सर्वेषामधिकारिणाम्॥४२॥
स्त्रीशूद्रद्विजबन्धूनां ब्राह्मणादेरपि स्वतः । ज्ञानाज्ञानविभेदेन हीनमध्याधिकारिणाम् ॥४३॥
श्रीकृष्णसात्कृतासूनामुत्तमाधिकृतावपि । भवति ब्रह्मसम्बन्धः समत्वात्सकलान्प्रति ॥ ४४ ॥
पुरुषोत्तमरूपत्वान्न चिन्ता तदनुग्रहे । न वा समागतां कन्यां त्यजेत्पुरुषकेसरी ॥ ४५ ॥
न च सामर्थ्यसहितः कुर्यात्कांचिद्विचारणाम् । बलादङ्गीकृतिकृतिर्न गृह्णीयात्समर्पितम् ॥४६॥
अतो न चिन्तालेशोपि विधेयः स्वीकृतौ हरेः । एतदेवास्रदाचार्यैर्नवरत्ने निरूपितम्॥४७॥
तथा निवेदने चिन्ता त्याज्या श्रीपुरुषोत्तमे । अयमेवात्र संस्कारो मन्तव्यः कृष्णसेवने॥४८॥
उपदेशस्तु सावित्र्या यथा वैदिककर्मणि । तापक्लेशगुणाधानं शुद्धिश्च समर्पणात् ॥ ४९॥
यथा हि संस्कृतः शुद्धः कर्ममार्गेभिधीयते । भक्तिमार्गे तथा तापक्लेशैः शुद्धो निरूप्यते॥५०॥
शुद्धो यत्कुरुते कर्म तत्सर्वं सफलं यथा । तथात्र तापक्लेशार्तकृता सेवापि मानसी ॥ ५१॥
संस्कारत्वे तु सम्बन्धो देहमात्रं विशोधयेत् । गायत्रीवन्न वै जीवमित्याशङ्कयात्र चोदितम्॥५२॥
सर्वशोधकतासिद्धयै पदं यद्देहजीवयोः । जीवशुद्धिरविधातः संसाराद्विस्मृतेर्हरेः ॥ ५३ ॥
अशुद्धिस्तदभावात्मा ब्रह्मसम्बन्धतस्तु सा । भवति ब्रह्मसम्बन्धे ह्यहन्ताममतागतिः ॥५४॥
तापक्लेशै च भगवत्स्मृतिः सार्वदिकी मता । अतः शुद्धो हि योग्यस्तु भगवद्भजने मतः॥५५॥
निवृत्तिरत्र दोषाणामेकदैव विवक्षिता । अतः सर्वपदं प्रोक्तं दोषाणां विनिवर्तने ॥ ५६ ॥
दोषत्वेनैव दोषाणां संग्रहस्तु निरूपितः । न प्रत्येकमपारत्वात्ते शक्यन्त उदीरितुम् ॥५७॥
बुद्धिसौकर्यसिद्धयर्थं तत्पञ्चविधतोदिता । दुष्यन्ति यैस्तु देहाद्या जीवाः कृष्णोपयोगतः ॥५८॥
निवर्तन्ते सर्वथैव ते दोषाः परिकीर्तिताः । निवृत्तिस्तु द्विधा दूरीकृतेः शुद्धिकृतेरपि ॥५९॥
आद्या तु वस्त्रमालिन्यनिवृत्तिरिव शोधकैः । द्वितीया मृण्मयस्येव पाकेनेव च शुद्धता॥६०॥
सदोषाङ्गीकृतेस्तस्यास्तद्गतौ व्यर्थता भवेत् । अतोत्र विनिवृत्तिस्तु द्वितीयैव हि युज्यते॥६१॥
एतदेव हि गङ्गात्वमित्यत्राग्रे निरूपितम् । हिशब्दः सर्वदोषाणां निवृत्तौ युक्तिबोधकः॥६२॥
कोटिसूर्याभिरूपस्य सम्बन्धाद्दोषवारणे । निश्चयार्थोपि बोद्धव्यः सत्यसङ्कल्पवाक्यतः॥६३॥
अविद्यारूपतस्तेषां संख्या चोक्ता तथाविधा । स्मृता इति पदोक्तौ च प्रसिद्धिरपि बोधिता॥६४॥
सर्वश्रुतिपुराणेषु लोके वेदेपि चैव हि । तेषु पञ्चविधत्वोक्त्या तत्रैवान्यनिवेशनम् ॥ ६५ ॥
देहेन सह जायन्ते जीवेनापि तथा पुनः । ते हि शूद्रत्वसंसारित्वादयः सहजा मताः॥६६॥
१ सम्बन्धः । २ न मुक्तः । ३ प्रतिमासम्बन्धः ।