षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 340, कुल 408 में से
संदर्भ में पढ़ेंश्रीकृष्णाय नमः ।
सिद्धान्तरहस्यम् ।
श्रीमद्वल्लभाचार्यचरणदृष्टम् ।
श्रावणस्यामले पक्षे एकादश्यां महानिशि ।
साक्षाद्भगवता प्रोक्तं तदक्षरश उच्यते ॥ १ ॥
ब्रह्मसम्बन्धकरणात् सर्वेषां देहजीवयोः ।
सर्वदोषनिवृत्तिर्हि दोषाः पञ्चविधाः स्मृताः ॥ २ ॥
सहजा देशकालोत्था लोकवेदनिरूपिताः ।
संयोगजाः स्पर्शाजाश्च न मन्तव्याः कथञ्चन ॥ ३ ॥
अन्यथा सर्वदोषाणां न निवृत्तिः कथञ्चन ।
असमर्पितवस्तूनां तस्माद्वर्जनमाचरेत् ॥ ४ ॥
निवेदिभिः समर्प्यैव सर्वं कुर्यादिति स्थितिः ।
न मतं देवदेवस्य सामिश्रुक्तसमर्पणम् ॥ ५ ॥
तस्मादादौ सर्वकार्ये सर्ववस्तुसमर्पणम् ।
दत्तापहारवचनं तथा च सकलं हरेः ॥ ६ ॥
न ग्राह्यमिति वाक्यं हि भिन्नमार्गपरं मतम् ।
सेवकानां यथा लोके व्यवहारः प्रसिध्यति ॥ ७ ॥
तथा कार्यं समर्प्यैव सर्वेषां ब्रह्मता ततः ।
गङ्गात्वं सर्वदोषाणां गुणदोषादिवर्णना ॥ ८ ॥
गङ्गात्वेन निरूप्या स्यात्तद्वदत्रापि चैव हि ॥ ८ ½ ॥
इति श्रीवल्लभाचार्यविरचितं सिद्धान्तरहस्यम् ।
१. मताः । २. श्रीहरिः । नन्वसमर्पितवस्तुवर्जनेन सर्ववस्तुसमर्पणं प्राप्तम्, तत् किं स्वयं स्वभा-
वेन समर्पयेत् , अन्यथा वेति संदेहे प्राहुः निवेदिभिरिति । भगवान् हि यशोदास्वामिनीहस्त एव समर्पितं
भुनक्तीति, निवेदनः निवेदो निवेदनं तद्युता निवेदिनः, ते एव सर्वथा कृतनिवेदना मातृचरणस्वामिनी-
प्रभृतयः, तैः कृत्वा, सर्वं समर्प्यते सर्वं भगवते समर्पयन्तीति भावनया सर्वं समर्प्य पश्चात् स्वयं तदुपभोगं
लोके वेदे च कुर्यादित्यर्थः । ३ कार्यम् ।