षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 259, कुल 408 में से
संदर्भ में पढ़ेंश्रीकृष्णाय नमः ।
पुष्टिप्रवाहमर्यादा ।
श्रीश्रीवल्लभकृतविवरणसमेता ।
श्रीमत्पितृपदाम्भोजं नत्वा सर्वार्थसिद्धिदम् ।
आचार्यदर्शितं मार्गत्रयं व्याख्यातुमुद्यतः ॥ १ ॥
हरिवागीशवागर्थो न स्वतो बुद्धिगोचरः ।
तत्कृपैव तदीयं मां ज्ञात्वार्थं बोधयिष्यति ॥ २ ॥
इति निश्चित्य मनसि स्वाशक्तिं तत्कृपाबलम् ।
विवृतिः कर्तुमारब्धा तत्पदाब्जप्रसादतः ॥ ३ ॥
यद्यपि पुष्टिप्रवाहमर्यादामार्गाः गीताश्रीभागवतादावुक्ता एव, तथापीयदवधि
विविच्य केनापि न प्रकटीकृता इति श्रीमदाचार्याः प्रमाणपूर्वकं विविच्य प्रकटीकर्तुं
प्रतिजानते पुष्टिप्रवाहमर्यादा इति ।
पुष्टिप्रवाहमर्यादा विशेषेण पृथक् पृथक् ।
जीवदेहक्रियाभेदैः प्रवाहेण फलेन च ॥ १ ॥
मार्गा इति शेषः । विशेषेणेति । तत्र विशेषा मार्गत्रयेपि प्रत्येकं पुष्टिप्रवाहमर्या-
दाभेदकृता विशेषाः । ते साङ्कर्याभावाय पृथक् निरूप्यन्ते । तत्र पूर्वं मार्गत्रयविभेद-
ज्ञापकान् विशेषानाहुः जीवदेहेति । पुष्टिमार्गीया जीवाः वक्ष्यमाणमार्गद्वयजीवेभ्यो
भिन्नाः । तेषां देहाः पुष्टिमार्गानुकूला भिन्ना एव । तन्मार्गदेहसम्बन्धिक्रिया अपि
भिन्नाः । निरन्तरं तदनुसारिक्रियाप्रवहणं प्रवर्त्तनं प्रवाहः तेनापि भेदः । फलेन च ।
वक्ष्यमाणमार्गद्वयफलातिरिक्तफलेनापि भेदः । एवं प्रवाहमर्यादयोरपि । चकारात्
साधनैरपि भेदः ॥ १ ॥
एवं प्रकारभेदैर्वक्ष्यामीति कथनं प्रतिज्ञाय प्रतिज्ञायाः प्रयोजनमाहुः सर्वेति ।
वक्ष्यामि सर्वसन्देहा न भविष्यन्ति यच्छ्रुतेः ।
सर्वेषां मार्गत्रयाणां सन्देहाः संशयाः यस्य प्रकारभेदस्य श्रुतेः श्रवणात् कदापि
कस्यापि न भविष्यन्ति ।
एवमुद्देशेन मार्गत्रयभेदमुक्त्वा लक्षणैराहुः । तत्र प्रथमं पुष्टिमार्गसद्भावे प्रमाणमाहुः
भक्तिमार्गस्येति ।
१ पु. प्र. म.