सामग्री पर जाएँ
सर्वकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 231, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 231

परिशिष्टम् ।
पश्यति कश्चनैनं । हृदा मनीषी मनसाभिक्लृप्तो य एवं विदुरमृतास्ते भवन्तीति श्रुत्या ज्ञानि-
मुक्तिस्थानत्वम् । पुरुषोत्तमाधिष्ठानत्वं तु तदाहुरक्षरं ब्रह्म सर्वकारणकारणं । विष्णोर्धाम परं
साक्षात् इति तृतीयस्कन्धे एकादशाध्यायवाक्यात् । इत्यादिभिरित्यादिपदेन अपाणिपादो
जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः अणोरणीयान् महतो महीयान् करोत्यकर्तैव
निहंत्यहन्तेत्यादयः परिगृहीताः । इदमिति ब्रह्मणि विरोधाभावनं, ब्रह्मसूत्रभाष्य इति फलमत
उपपत्तेरित्यतः स्वकृते, अत्र सिद्धान्तमुक्तावलीविवरणे, एतद्भाष्यकरणानंतरमेतत्करणमिति
लक्ष्यते । श्लोकान्वयस्तु कृष्णस्तु हि निश्चयेन परं ब्रह्मास्ति, बृहत् सच्चिदानंदकमस्ति,
तद्धि द्विरूपमस्ति, एकं सर्वं स्यात् , एकं तस्माद् विलक्षणमपरमस्ति । स्वमते श्रुतिर्सं-
मतत्वनिरूपणार्थं परमतनिरूपणमित्याशयेनाग्रिममवतारयन्ति प्रभवः विरोधेति । विरोध-
परिहारस्तु भगवतः सर्वभवनसमर्थत्वेनाचिंत्यानन्तशक्तिमत्त्वेन वा । अत एव विरुद्धांश-
परित्यागात् प्रमाणं सर्वमेव हि विचारितं । सांख्यमतानुसारिणः प्रकृतिः कर्त्री, पुरुषस्तु
पुष्करपलाशवन्निर्लेप इति सिद्धान्तमाश्रित्य मायागुणकार्यं जगदिति वदन्ति, नैयायिकास्त-
र्किकाः, गौतमकणादाक्षचरणादयः, ते हि परमाणवो नित्या अन्यत् सर्वमीश्वरकार्यमप्य-
नित्यमिति वदन्ति, मीमांसकाः जैमिनिमतानुवर्तिनः, स्वभाववादिनः जगत् स्वभावत एव
भवति, न कोप्यस्य कर्तेति वदन्ति, वेदबाह्या जैनाः कौला वामाः शाक्ता इत्यादयः ।
श्लोकान्वयस्तु तत्र पूर्वस्मिन्नपरं वादिनः मायिकं सगुणं कार्यं स्वतंत्रं चेति नैकधा बहुधा
जगुः । स्वमतस्य सर्वमूर्धन्यत्वबोधनायाहुः मूले तदेवेति । ब्रह्मैवेति, एतत् परिदृश्यमानं
जगत्, प्रकारेण भवतीति वर्तते नतूपद्यते, नित्यत्वात् , यतो वेत्यादिश्रुतयस्तु आविर्भाव-
तिरोभावपराः, स्वमतेति प्रपञ्चो भगवत्कार्यस्तद्रूपो माययाभवत् इत्यादि रूपस्य, श्लोका-
न्वयस्तु तदेवैतत् इति स्पष्टं, अस्तीत्यध्याहारः, द्विरूपमपि च गङ्गावत् ज्ञेयं, सा
जलरूपिणीत्युत्तरेणान्वेति, सा गङ्गा जलरूपं शीलं यस्या एतादृश्येका आधिभौतिकी
प्रथमा । पूर्वमक्षरात्मकसैवेति परमतनिराकरणासंभवात् , सेवां कुर्वाणानां भोगमोक्षप्रदा-
ध्यात्मिकी द्वितीया, सा च यथा अक्षरं ब्रह्म पुरुषोत्तमाधिष्ठानं, यथाधिदैविकं गङ्गारूपा-
धिष्ठानं, यतः प्रसन्ना गङ्गा आधिदैविकी स्वं स्वामिनीरूपं निजभक्तेभ्यो दर्शयति, यथा
भगीरथाय प्रदर्शितं, तदुक्तं श्रीमद्भागवते नवमस्कन्धे नवमाध्याये 'दर्शयामास तं देवी
प्रसन्ना वरदास्मि ते' इत्यादिना, माहात्म्यमपि तत्रैव 'भगीरथः स राजर्षिः निन्ये भुवन-
पाविनीं । यत्र स्वपितॄणां देहा भस्मीभूताः स्म शेरते । रथेन वायुवेगेन प्रयांतमनुधावती ।
देशान् पुनन्ती निर्दग्धानासिञ्चत् । सगरात्मजान् यज्जलस्पर्शमात्रेण ब्रह्मदंडहता अपि ।
सगरात्मजा दिवं जग्मुः केवलं देहभस्मभिः । भस्मीभूतांगसंगेन स्वर्गयाताः सगरात्मजाः ।
किं पुनः श्रद्धया देवीं ये सेवन्ते धृतव्रताः ।
श्लोकान्वयस्तु सा जलरूपिणी मर्यादामार्गविधिना सेवां कुर्वतां नृणां माहात्म्य-
संयुता भक्तिमुक्तिदा तथा ब्रह्मापि बुध्यताम् ॥ ६ ॥