सामग्री पर जाएँ
सर्वकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 229, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 229

परिशिष्टम् ।
श्रीकृष्णाय नमः । श्रीगोपीजनवल्लभाचार्यवर्यचरणपाथोजनितयुगलाय नमः । श्रीगो-
पीजनवल्लभाय नमः । श्रीमदाचार्यवर्यश्रीविठ्ठलेशैः प्रचोदितः । कुरुते मथुरानाथगोस्वामि-
तनयोऽद्भुतां । श्रीमदाचार्यसिद्धान्तमुक्तावल्या विवेचने । टिप्पण्या विवृतिं दासो द्वारि-
केशः सविस्तरम् । अथ श्रीमद्गोकुलनाथाः श्रीमद्विठ्ठलेश्वरविरचितां सिद्धान्तमुक्तावल्या
विवृतिं विवरीतुं निर्विघ्नतायै प्रार्थनात्मकं मङ्गलमाचरन्ति 'यद्वाञ्छये'ति । यस्य श्रीमद्वि-
ट्ठलेश्वरपादरजसो वाञ्छया प्राप्तमनोरथेन पुंसः अर्थाः प्रयोजनाः जन्मप्रभृतियावत्कृतिवि-
षयाः धर्मादयो भक्त्यन्ता वा मोक्षान्ता इति व्युच्चरणमारभ्य अक्षरप्रवेशपर्यन्तं यावज्जन्मकृताः
अधरीकृताः हस्तागता भवन्ति सः कोपि अनिर्वचनीयः पितृपद्रेणुः मह्यं श्रीगोकुलनाथाय
प्रसीदतु प्रसन्नो भवतु, तत्प्रसादं विना तद्भाष्याभिप्रायो हृदये न समायाति, यतः अतः
प्रार्थ्यते । स इति पितृपद्रेणोः परोक्षत्वकथनेन श्रीमद्गोस्वामिनां कन्दराप्रवेशानन्तरं
टिप्पणी कृतेति । अथ श्रीमद्वल्लभनंदनाः सिद्धान्तमुक्तावलीं विवरिषवः श्रीमदाचार्य-
चरणाब्जपरागनमनात्मकं मंगलं विधाय ग्रन्थविवरणं प्रतिजानते प्रणम्येति । पितुः
श्रीमदाचार्यस्य पादयोः अब्जयोः परागाब्जरजुरेणुर्मह्यं प्रसीदतु अनुरागतः प्रकर्षेण नत्वा
तत्कृपया तद्वाङ्मुक्तावलीं विशदीकुर्मः । नमने प्रकर्षः भूमिपर्यन्तं साष्टाङ्गप्रणामः पितुः पालन-
कर्तुः रूढ्या । श्रीमदाचार्यस्य पादयोरब्जयोर्निजभक्ततापहारकानंददायकयोर्यत् परागं रजः
अनुरागः अनुरागश्च रागेण पूर्वं भगवता वरणे कृते तं अनुलक्षीकृत्य जायमानभक्त्या तत्कृपया
श्रीमदाचार्यवाग्रूपां मुक्ताफलानामावलीं विशदीकुर्मो, धारणयोग्यां कुर्मो, मुक्तानां वर्तुलत्वेन
दोरके प्रवणं विना तेषां वलेर्विशदीकरणं न संभवति यतः । अत एव समाप्तौ वक्ष्यन्ति
‘श्रीविठ्ठलस्तद् वाङ्मालां हृदये दधौ’ इति । अथ सा माला कालबाहुल्येन मलिना शिथिला
च जातेति तद्रुजलादिनोज्ज्वलां कृत्वा धारणयोग्यां कर्तुं प्रकाशोधमः तत्र साधनं तेषां कृपा ।
अथ श्रीमद्वल्लभाचार्यचरणाः स्वीयानां स्वकीयसिद्धान्ताज्ञानजन्यतापं निवारयितुं नम-
नात्मकं मंगलं विधाय स्वकीयसिद्धान्तविनिश्चयं प्रतिजानते । नत्वेति । स्मर्तृणामखिला-
घहरं श्रीहरिं श्रीकृष्णं नत्वा, णम प्रहृत्वे शब्दे चेत्यनुशासनात् । अग्रे वक्ष्यमाणैर्बहु-
भिर्मिथोविरुद्धैः सिद्धान्तैः शास्त्रार्थसंदेहे तन्निरासाय स्वसिद्धान्तरूपं शास्त्रार्थनिश्चयं
वक्ष्यामि—श्रीगोकुलाधीशाः प्रतीकमाहुरग्रे इति । सिद्धान्तमुक्तावल्यां चतुर्थश्लोके । अथ
प्रभवः प्रतीकमाहुः स्वसिद्धान्तेति । अग्रे वक्ष्यमाणैरिति । मायिकं सगुणमित्यादिभिरित्यर्थः ।
तत्र परस्परविरोधस्य स्पष्टत्वात् साक्षाच्छ्रुतिनिरूपितं वक्ष्यामीति विशब्दार्थः । तस्यैव
स्वकीयत्वज्ञापनाय स्वपदं, साक्षाच्छ्रुतिरिति । ननु श्रुतौ सेवाप्रकारः कुत्रोक्त इति चेच्छृणु ।
‘भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम
देवहितं यदायूः' । कर्णेभिरिति वैदिकपदोक्त्या कर्णानां दिव्यत्वं बहुवचनेन ‘विधत्स्व कर्णा-
युतमेष इति प्रार्थनया प्राप्तत्वं भद्रं स्वं स्वं रवं शृणुयाम, ततो जागरणानंतरं भद्रं