षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
DevanagariHindipublished408 पृष्ठ
पृष्ठ 224, कुल 408 में से
संदर्भ में पढ़ेंपृष्ठ 224७२ सिद्धान्तमुक्तावली ।
७२ सिद्धान्तमुक्तावली ।
राजसादिस्वभावप्रकाशकानि जगतो नियामकत्वेनोत्पत्त्यादौ कार्ये व्यापृतानि । तदंशी
कृष्णस्तु नित्यनिरवद्यानन्दात्मको गुणातीतो रसात्मकलीलामात्रैककार्य इति भावः ।
ब्रह्मविष्णुशिवानां कृष्णांशत्वेन आधिदैविकरूप-भेदमध्ये गणना । 'सत्त्वं रजस्तम
इति प्रकृतेर्गुणास्तैर्युक्तः परः पुरुष एक इहास्य धत्ते । स्थित्यादये हरिविरञ्चिहरेति
संज्ञाः' 'न ते मय्यच्युतेऽजे च भिदामण्वपि चक्षते' इत्यादिवाक्यात् । ब्रह्मवैवर्ते
स्पष्टमेव त्रयाणां कृष्णांशत्वप्रतिपादनाच्च । अत एव निबन्धे श्रीमदाचार्यचरणैरवादि
'गुणाभिमानिनो ये वै तदंशाः सगुणाः स्मृता' इति । अग्रे च 'अन्तर्याम्यक्षरं कृष्ण'
इत्यारभ्य 'स्वभावकर्मकालाश्चे' त्यनेनाक्षरभेदानुक्त्वा 'रुद्रो ब्रह्मा हरिस्तथे' ति
वाक्येन कृष्णभेदा उक्ताः । तथाच सिद्धमेतत् । 'द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर
एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते । उत्तमः पुरुषस्त्वन्यः परमात्मे-
त्युदाहृत' इत्यत्र क्षराक्षरपुरुषोत्तमा उक्ताः, तेऽत्र 'परं ब्रह्म तु कृष्णो ही'त्यारभ्य 'देवता-
रूपवत्प्रोक्ता' इत्यन्तेन प्रपञ्चाक्षरकृष्णशब्दवाच्या विवेचिताः । न च गीतासु त्रयाणां पृथ-
गुप्त्या द्वैतं शङ्क्यम् । 'वासुदेवः सर्वमिति'त्यनेन शुद्धाद्वैतस्यैव भगवदभिप्रायविषयत्वस्फु-
रणात् । ब्रह्मणोति । स्थितानामिति शेषः । यथा जगतो नियामकाः कृष्णांशा ब्रह्मादयः,
इत्थमक्षरब्रह्मभूतानां नियामको हरिरेव न तु ब्रह्मादयः । तेषां ज्ञानिनां जगदतीतत्वादिति
भावः ॥ कामचारस्त्विति । अस्मिन् क्षररूपे लोके प्रपञ्चे कामचारः तत्फलप्रेप्सया
प्रवृत्तानां मनोरथप्राप्तिप्रवाहो ब्रह्मादिभ्यः कृष्णांशभूतेभ्यो भवति । दृष्टान्तेऽपि गङ्गांशभूताया
एव लौकिकव्यवहारः स्मर्यते भारते शन्तनुप्रसङ्गे, न तु साक्षादंशवत्या गङ्गाया आधिदै-
विक्याः सकाशात् । तस्याः केवलभक्तिलभ्यायाः प्रवाहे सर्वदैव विद्यमानत्वात् । ननु लोके
कामचारो ब्रह्मादिभ्य इत्युक्ते भक्तानामपि लोकमध्यपातितया तथैव भविष्यतीत्याशङ्क्य तेषां
भिन्नप्रकारमाहुः परमानन्दरूपे त्विति । लोकविशेषणमेतत् । परमानन्दो रूप्यते व्यव-
ह्रियते यत्रेत्यर्थात् । तुशब्दः पूर्वप्रक्रियां व्यावर्तयति । परमानन्दरूपे लोके लीलायोग्य-
प्रपञ्चे तु पुष्टिभक्तानां स्वात्मनि स्वात्मत्वेन स्फुरिते कृष्ण एव निश्चयो मनःस्थैर्यं स्वसक-
लमनोरथपूरकत्वबुद्धिश्च्छन्दप्रवृत्तिप्रवाहो, न तु ब्रह्मादिभ्यः । 'ये भजन्ति तु मां
भक्त्या मयि ते तेषु चाप्यहम्' 'अहं भक्तपराधीनः' 'तेषां नित्याभियुक्तानां योग-
क्षेमं वहाम्यहम् । तेषामहं समुद्धर्त्ता मृत्युसंसारसागरादि'त्यादिवाक्येषु साधारणेभ्यः
पृथक्तया भक्तानां चतुर्विधपुरुषार्थसाधकत्वस्य स्वस्मिन्नेव भगवताङ्गीकृतत्वात् । एवं
साधारणजीवानां पुष्टिस्थानामंशांशिभेदेन कामचारव्यवस्थामुक्त्वा वस्तुतः साधारणानामं-
शेभ्यो जायमानमपि फलं भगवत एवेति भगवान् एव सर्वेषां सर्वफलदायक इति प्रतिपाद-
यन्ति अतस्त्वित्यादिना । वस्तुविमर्शे सर्वस्य कृष्णात्मकत्वं तदधीनत्वम्, अतो ब्रह्मवादेन
तु कृष्ण एव बुद्धिः फलप्रदत्वबुद्धिर्विधीयताम् । 'फलमत उपपत्तेरि'ति न्यायेन कृष्णस्यैव
१ व्याव़त्तानीति ख. २ स्वच्छन्दवृत्तिरूपः कामचार इति पाठः ।