षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 213, कुल 408 में से
संदर्भ में पढ़ें[Page Header: श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । ६१]
प्रकर्षेण पश्यतीत्यर्थः । तस्य सर्वस्वरूपो हरिरेवेति न तदतिरिक्तमपेक्षते । भजनोपयोग्यर्था-
पेक्षायामपि प्रभुणेव सर्वं सम्पद्यत इति न कदाचिद्दुःखी भवति । एतज्ज्ञापनार्थं दृष्टान्तः ।
( गङ्गातीरस्थित इति । यद्वद् यथा गङ्गातीरस्थितस्तत्र प्रवाहमध्ये देवतामाधिदैविकीं
तां पश्यति, तथा ज्ञानी स्वस्मिन् आत्मनि परं ब्रह्म कृष्णं पश्यति, परं भक्त्येति विशेष
उभयत्र ज्ञातव्यः । तदभावे तु दर्शनमपि दुर्लभम्, कुतस्तरां भजनमिति भावः । 'भक्त्या
या दृश्यते क्वचि'दिति पूर्वमुक्तत्वात् 'भक्त्याहमेकया ग्राह्य' इति प्रभुवचनाच्च । ननूक्त-
प्रकारकज्ञानाभावेपि लोके भजनं दृश्यते, तत् कथमित्यपेक्षायामाहुः संसारेति । )
यस्तु प्रपञ्चासक्तो गुरूपदेशमात्रेण भजते, संसारनिवृत्तिहेतुत्वं ज्ञात्वा भजते, न तु ब्रह्म-
भावसम्पत्त्या, पुरुषोत्तमाविर्भावाभावात्, स तु गङ्गातो दूरस्थो यथा तां भजते, तत्रापेक्षि-
ततज्जलाप्राप्त्या दुःखी भवति, तथा अयं भक्तिमार्गस्थ इति साक्षात्स्वरूपसम्बन्ध्यर्थापेक्षायां
तदप्राप्त्या क्लेशभागभवतीत्यर्थः । तथापि न स भजनं त्यजति, अङ्गीकारात्प्रभोः । अनङ्गी-
कारे तु मध्ये भजनप्रतिबन्धेपि कृतभजनवैयर्थ्यासम्भवाज्जन्मान्तरे तत्फलिष्यतीति ज्ञेयम् ।
(तेन प्रवाहभक्तिमार्गीयोऽयं निरूपितः, अन्यथा मध्येऽनङ्गीकारः, तेन भजनप्रतिबन्धादिकं
न स्यात् । ननु पुष्टिमार्गं परित्यज्य किं तत्कथनेनेत्याशंक्याहुः तस्मादिति । यस्मात् प्रवा-
हस्थभक्तेऽप्येवमङ्गीकारः प्रभोः, यज्जन्मान्तरेपि तं न त्यजति, तस्माद्धेतोः श्रीकृष्णमार्ग-
स्थः पुष्टिमार्गस्थः सर्वलोकतोपि मुक्तो भिन्नो विशिष्टश्चेत्यर्थः । सर्वपदात् ज्ञानितः प्रावा-
श्रीरघुनाथात्मजश्रीव्रजनाथकृतविवृतिटिप्पणी ।
तदतिरिक्तं भगवदतिरिक्तम् व्यवहार्यं वस्तु । अर्थापेक्षायां जलाद्यपेक्षायाम् । प्रभुणेव
प्रभुरेव लीलासृष्टिविशिष्टप्रचुरलीलासृष्टिस्थपदार्थान् प्रकटयतीत्यर्थः । अक्षरात्मकाधिष्ठान-
भूतजलाभावेपि पुरुषोत्तमात्मकलीलासृष्टिस्थजलाविर्भावो भवतीत्यर्थाभावप्रयुक्तं दुःखं
कदापि न भवतीत्यर्थः । एतदिति । वक्ष्यमाणैतद्विभागज्ञापनाय संसारी यस्त्विति
दृष्टान्तः । यस्त्विति । तुशब्देन लीलासृष्टिविशिष्टपुरुषोत्तमाविर्भाववतो व्यावृत्तिः । पुरु-
षोत्तमाधिष्ठानत्वेन अक्षरत्वेन च प्रपञ्चज्ञानवान् प्रपञ्चासक्तः । स त्विति । इदं पदं
'क्लेशभागभवती'त्यनेन सम्बध्यते । भक्तिमार्गस्थ इति । भजनाकांक्षा प्रतिपादिता ।
साक्षादिति । सत्यां भजनोपयोगिजलाद्यपेक्षायां कदाचिदधिष्ठानभूताक्षरात्मकजलाद्य-
भावेन पुरुषोत्तमात्मकजलाप्राप्त्या क्लेशभाक् भवतीत्यर्थः । ननु ब्रह्मभावसंपत्तिर्हि पूर्वा-
वस्था, सा च सर्वेषां समाना, तत्र च सर्वस्यापि सेवोपयोगियावदर्थाप्राप्त्योद्वेगहेतुक्लेशभा-
कत्वस्य सिद्धत्वात्तेन न सेवासिद्धिः इति चेत्, सत्यमित्याशयेनाहुः तथापीति । अङ्गी-
कारात् पुष्ट्यावङ्गीकारात् । अङ्गीकार एव शीघ्रं सर्वफलसाधक इत्यदोषः । अङ्गीकारे
च भजनत्यागाभाव एव मानम् । अनङ्गीकार इति । केवलपुष्टावनङ्गीकारे । मूले
तस्मादिति । यतो हेतोरङ्गीकृत एव न दुःखभाक् तस्माद् हेतोः शुद्धपुष्टिमार्गस्थः तद-