षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 211, कुल 408 में से
संदर्भ में पढ़ेंश्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । ५९
जगतो रूपं त्रिविधम्, तथा तत्रत्यत्रिविधानां देवता उपास्याः ब्रह्मादयः त्रयः प्रोक्ताः,
तत्तच्छास्त्रे निरूपिताः । देवतेति स्त्रीलिङ्गप्रयोगात् तेषामस्वातंत्र्यं द्योतितम् ।) तेन
तद्गुणनियामकत्वेन ब्रह्मादयो भगवतैव कृता इत्यर्थः । (ते तु प्राकृतानामेव नियामकाः,
न तु ज्ञानिनामपीत्याहुः ब्रह्मणीत्थमिति ।) ब्रह्मैकरूपमिति तन्निष्ठानां नियमको
हरिरेव । (तर्हि भक्तानामपि लोकमध्यपातित्वात्तन्नियामकत्वं ब्रह्मादीनां कुतो नेत्यत
आहुः कामचार इति । लोके तेभ्य एव कामचारः, त एव नियामका इत्यर्थः । न
चान्यथेति । प्रकारान्तरेण नेत्यर्थः । भक्तेषु विशेषमाहुः परमानन्दरूप इति ।)
ये तु भगवद्भक्तास्तेषां स्वात्मनि स्वात्मविषये ऐहिके पारलौकिके चार्थे जलादिषु
श्रीकृष्ण एव कामचार इत्यर्थः । सर्वत्र नियामकः स एवेति भावः । अथवा । भक्तानां
स्नेहातिशयेन आत्मत्वेनैव प्रभुः स्फुरतीति सर्वांशेन तत्प्रार्थने शङ्का न भवतीत्यर्थः ।
(ब्रह्माद्यपेक्षयाऽत्र विशेषः 'परमानन्दरूप'पदेनोक्तः । एतावदुक्तस्य फलितार्थमाहुः अत
इति । अत उक्तरीत्या सर्वापेक्षया श्रीकृष्ण एव भक्तिमार्गे भजनीय इत्युक्तम्, अतो हेतो-
स्तत्र बुद्धिर्विधीयताम् क्रियतामित्यर्थः । ननु कीदृशी बुद्धिरिति चेत्, तत्राहुः ब्रह्मवा-
देनति । ब्रह्मवादे हि परब्रह्मणः साकारत्वं प्रतिपाद्यते, अतस्तदुक्तपरब्रह्मत्वेन श्रीकृष्ण
एव बुध्यतामिति भावः । तथात्वं दामोदरलीलायां श्रीशुकेन स्फुटमेवोक्तं, 'न चान्तर्न
बहिर्यस्ये'ति 'त्रय्या चोपनिषद्भिश्चे'त्यादिना । तेन ब्रह्मवादो भक्तिमार्गे अनुभवसाक्षिक
इति निरूपितं भवति । अत एव तुशब्देन निराकारवादो व्यावर्तितः) ॥ ११ ॥
श्रीरघुनाथात्मजश्रीव्रजनाथकृतविवृतिटिप्पणी ।
ततो हेतोः । रूपवदिति । यथा जगतो रूपं त्रिविधम्, तथा तद्गुणाभिमानिन्यो देवताः
तिस्रः प्रोक्ताः । यदा तु ब्रह्मात्मकत्वेन जगत् ज्ञातम्, तदा ब्रह्मणि इत्थं तद्देवत्वेन
हरिः पुरुषोत्तमो मतः शास्त्र उक्तः । इति मूलव्याख्या । त्रिस्वभावत्वेनेति । राजसा-
दिक्स्वभावत्वेन । तेन त्रिस्वभावत्वेन हेतुना । ब्रह्मणीयस्यार्थमाहुः ब्रह्मेति । तन्निष्ठानां
ब्रह्मैकनिष्ठानाम् । एतन्निरूपणफलमाहुः मूले कामचार इति । अस्मिन् लोके कामचारः,
स ब्रह्मादिभ्य एव, न प्रकारान्तरेणेति लोकनिष्ठानां व्यवस्था, भगवन्निष्ठानां व्यवस्थामाहुः
परमानन्द इति । एतस्यार्थमाहुष्टीकायां ये त्विति । स्वात्मविषय इति । स्वात्मपदस्य
स्वात्मीयपरत्वम् । कामचार इति । कामचारनिश्चय इत्यर्थः । लक्षणानङ्गीकारेण पक्षा-
न्तरमाहुः अथवेति । अस्मिन्पक्षे आत्मपदं कृष्णविशेषणम् । तत्प्रार्थने 'त्वदुच्छिष्टं
भोज्य'मित्यादिभगवत्प्रार्थने । यतो हेतोर्ब्रह्मैकनिष्ठानामेव व्यवहारो ब्रह्मण्येव पर्यवस्यति,
अतो हेतोः सर्वं पुरुषोत्तमाधिष्ठानभूतमक्षरं ब्रह्मैवेति ज्ञात्वा व्यवहर्त्तव्यमित्यर्थमाहुः मूले
अतस्त्विति ।