षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 203, कुल 408 में से
संदर्भ में पढ़ेंश्रीमद्विठ्ठलेश्वरविरचितविवृतिसमेता । ५१
गङ्गादृष्टान्तस्य तात्पर्यान्तरमाहुः भक्त्यभाव इति ।
भक्त्यभावे तु तीरस्थो यथा दुष्टैः स्वकर्मभिः ।
अन्यथाभावमापन्नस्तस्मात्स्थानाच्च नश्यति ॥ २० ॥
एवं स्वशास्त्रसर्वस्वं मया गुप्तं निरूपितम् ।
एतद्बुद्ध्वा विमुच्येत पुरुषः सर्वसंशयात् ॥ २१ ॥
इति श्रीवल्लभाचार्यविरचिता सिद्धान्तमुक्तावली सम्पूर्णा ॥
भगवत्सान्निध्यदेशेऽपि स्थितौ भक्त्यभावे तथा भवतीति भावः । एतेन भक्तेरा-
वश्यकत्वमुक्तं भवति । ( सप्रयोजनमुक्तमुपसंहरन्ति एवमिति । उक्तप्रकारेण स्वशास्त्र-
रूपं स्वशास्त्रस्य वा सिद्धान्तरूपसर्वस्वं गुप्तं स्वल्पेन बहु निरूपितत्वात् गम्भीरतात्पर्यं
बहिर्मुखानामज्ञापनीयं वा । किं तेनेत्यत आहुः एतदिति । एतज्ज्ञानेन स्वमार्गसम्बन्धि-
सर्वसंशयनिवृत्तिर्भवति, अन्यथा 'संशयात्मा विनश्यती'ति बुद्धिरन्यथा भवेदित्यर्थः )
॥ २० ॥ २१ ॥
इति श्रीपितृपादाब्जपरागरागरससिक्तहृत् ।
श्रीविठ्ठलस्तत्सिद्धान्तवाङ्मालां हृदये दधौ ॥ १ ॥
श्रीविठ्ठलेशात्मजश्रीवल्लभकृतविवृतिटिप्पणी ।
तात्पर्यान्तरमिति । पूर्वं 'ज्ञानाधिक इत्यनेन भक्तेर्ज्ञानाधिक्यरूपं तात्पर्यमुक्तम्। अनेन
भक्तेरावश्यकत्वरूपं तात्पर्यमुच्यते । भक्त्यभाव इतीति । तीर्थात्मकत्वेन जानन्नपि तीर-
स्थितोपि भक्त्यभावे दुष्टैः कर्मभिः अन्यथा भावं जलत्वेनैव ज्ञानमापन्नस्तस्मात् स्थाना-
त्तीर्थत्वज्ञानादपि नश्यतीत्यर्थः । तथाभवतीति । अक्षरब्रह्मात्मकत्वेन ज्ञानवानपि दुष्टैः
प्रारब्धैः स्वकर्मभिरन्यथाभावं प्राप्तः प्रपञ्चत्वेनैव जानन् तस्मात् स्थानात् ब्रह्मात्मकत्वज्ञा-
नान्नश्यतीत्यथः । न च ज्ञानेन सर्वपापक्षयात् कथमन्यथाभावो वक्तुं शक्य इति शंक्यम् ।
ज्ञानस्यानारब्धानामेव कर्मणां नाशकत्वात् । प्रारब्धकर्मणां नाशस्तु पुष्ट्यैवेति सिद्धं भक्तेरे-
वावश्यकत्वम् । मूले एवमिति । पूर्वोक्तप्रकारेण । स्वशास्त्रेति । स्वशास्त्रस्य सेवाप्रकार-
रूपं सिद्धान्तम् । गुप्तं निरूपितमिति । गुप्ततया निरूपितम् । एतदिति । यन्मया गुप्तं
निरूपितम् । एतद्बुद्ध्वा विमुच्येत । सर्वसंशयादेतद्ग्रन्थनिवर्त्याद्विमुक्तो भवतीत्यर्थः ।
पुनः कदापि संशयं न प्राप्नोतीति विशब्दार्थः ॥
इति श्रीविठ्ठलेशात्मजश्रीवल्लभ विरचिता सिद्धान्तमुक्तावलीविवृतिटिप्पणी ।