सामग्री पर जाएँ
सर्वकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 187, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 187

श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । ३५
ज्ञानमार्गाद्भक्तिमार्गस्याधिक्यमवगम्यते । भक्त्या विना न कोपि पुरुषार्थः सिध्यतीति
हृदयेनाह्याग्रे देहादिसर्वविनियोगाशक्तौ आसमन्ताज्जानन्तोऽखण्डशब्दब्रह्मरूपं, न तु
लौकिकशब्दरूपमिति नाम स्वरूपं जानन्तस्तदेव विवक्षन विशेषेण वदन्तु । अधिकमा-
हात्म्याद्यज्ञाने नाममात्रमुत कीर्तयन्तु । एतेनैव भगवत्स्वरूपतन्माहात्म्यादिकं ज्ञातं भवि-
ष्यतीत्याशयेनाह नाम स्वरूपम् । चिदिति । चिदित्युपलक्षणम् । सच्चिदानन्दात्मकमित्यर्थः ।
नामस्वरूपाज्ञाने तदुपदेष्टृगुरूपसत्तिः कार्येत्याशयेनाह महस्त इत्यादि । ते त्वत्सम्बन्धिनं
सुमतिं निर्दोषपूर्णगुणत्वेन भवन्तं जानन्तं भगवद्भक्तं भजामहे । स च स्वतेजसा पराज्ञा-
ननिरासक इत्याह मह इति । तेजोरूपमित्यर्थः । स्वहृदि सदा श्रीकृष्णप्राकट्येनोल्लस्वात्म-
कमिति वा । एतेन ज्ञानिनां भक्तिमार्गप्रवेश एवोपदिष्टो भवति । एवमेव ‘तद्विष्णोः' ‘तद्विप्रास'
इत्यादिश्रुतिसहस्रैर्निर्णयत इति सुष्टूक्तं ज्ञानमार्गादधिको भक्तिमार्ग इति ॥१७॥१८॥१९॥
गङ्गादृष्टान्तस्य तात्पर्यान्तरमाहुः भक्त्यभाव इति ।
भक्त्यभावे तु तीरस्थो यथा दुष्टैः स्वकर्मभिः ।
अन्यथाभावमापन्नस्तस्मात्स्थानाच्च नश्यति ॥ २० ॥
एवं स्वशास्त्रसर्वस्वं मया गुप्तं निरूपितम् ।
एतद्बुद्ध्वा विमुच्येत पुरुषः सर्वसंशयात् ॥ २१ ॥
इति श्रीवल्लभाचार्यविरचिता सिद्धान्तमुक्तावली सम्पूर्णा ॥
भगवत्सांन्निध्यदेशेऽपि स्थितौ भक्त्यभावे तथा भवतीति भावः । एतेन भक्तेरा-
वश्यकत्वमुक्तं भवति ॥ २० ॥ २१ ॥
इति श्रीपितृपादाम्बपरागसरसिक्तहृत् ।
श्रीविठ्ठलस्तत्सिद्धान्तवाञ्छालां हृदये दधौ ॥ १ ॥
श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः ।
तदा तस्याः किं फलमित्याकाङ्क्षायां वदन्तीत्याशयेनाग्रिममवतारयन्ति गङ्गेत्यादि ।
व्याकुर्वन्ति भगवदित्यादि । तथा भवतीति । दुष्टैर्निजकर्मभिः पाषण्डितामापन्नः सन् ।
‘अत्रापि वेदनिन्दायामधर्मकरणात्तथे'ति श्लोकद्वयोक्तरीत्या आरूढपतितो भवतीत्यर्थः ।
एतच्छ्लोकोक्तितत्पर्यमाहुः एतेनेत्यादि । तथा च भक्त्यभावे सर्वं व्यर्थमिति बोधनार्थ-
मेतदुक्तिरित्यर्थः । उपसंहारश्लोकस्तु प्रसिद्धार्थत्वान्न व्याख्यातः । परं तदारम्भस्थ एवं-
शब्दस्त्वतिदेशपरत्वेन बोधित इति स देहलीदीपन्यायेनोभयत्राप्यन्वेतीति बोध्यम् । एवं सर्वं
ग्रन्थं विवृत्योपसंहरन्ति इतिश्रीत्यादिश्लोकेन । अत्र हृदये दधाविति कथनेन स्वयमेव
सम्यग्विचारिता, नत्वनधिकारिणः प्रति स्पष्टीकृतेत्यपि बोधितम् ।
१. अदलितनलिनीदलैव वापी यदहृतपल्लव एष काननान्तः ।
प्रियसखि न जगाम वामशीलः स्फुटममुना नगरेण नन्दसूनुः ॥ २ ॥
इत्यधिकं पद्यं क्वचित् ।