षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 111, कुल 408 में से
संदर्भ में पढ़ेंश्रीपुरुषोत्तमचरणविवृतिसमेतः । २३
प्यादनादर इत्यर्थः । ननु साङ्ख्यमनेकविधम् । क्वचित् षड्विंशतितत्त्वानि । क्वचित्
पञ्चविंशतिः । क्वचित् षोडश सप्तदशेत्यादि । तथा सति तेषामेकफलाभावात्कथं सर्वेषां
साङ्ख्यानामादरणीयत्वमिति चेत्, तत्राऽऽहुः ऋषिभिरित्यादि । यद्यपि साङ्ख्य-
प्रक्रिया ऋषिभिर्बहुधा प्रोक्ता, तथापि, अबाह्यतः विमार्गपरिपोषितात्
आत्मव्यतिरिक्तत्यागरूपं यद्बोध्यमन्तरङ्गं साधनं तत्सर्वत्रैकम् । ततो वा हेतोस्तासु
सर्वासपि प्रक्रियासु फलं स्वरूपावस्थानात्मकमोक्षरूपमेकमेव । अतो बाह्यसाङ्ख्य-
व्यतिरिक्तं सर्वमेव साङ्ख्यं शिष्टादरणीयमित्यर्थः ॥ ८ ॥
एवं स्वतो मोक्षसाधकमेकं शास्त्रं निर्णीतम् । अतः परं द्वितीयं निर्णेतुमुपक्षि-
पन्त्याग इत्यादि ।
अत्यागे योगमार्गो हि त्यागोऽपि मनसैव हि ।
यमादयस्तु कर्त्तव्याः सिद्धे योगे कृतार्थता ॥ ९ ॥
अत्यागे त्यागाभावे साधनत्वेन विवक्षिते योगमार्गश्चित्तवृत्तिनिरोधेनाऽऽत्म-
बोधैको यः पन्थाः, स हि युक्तः पुराणसमानाधिकरणः । तथा ^च ततः शिष्टादृत इत्यर्थः ।
ननु त्यागाभावे कथं योगसिद्धिः कथं च मोक्ष इत्याकाङ्क्षायां तत्रत्यं साधनसमाज-
माहुस्त्याग इत्यादि । हि यस्माद्धेतोर्मनसैव त्यागो "नैव किञ्चित्करोमी"त्याद्यु-
क्तवत् । तु पुनः यमादयः यमनियमासनप्राणायामप्रत्याहारध्यानधारणासमाधयो
बाह्याभ्यन्तरा उपायत्वेन कर्त्तव्याः । तैः सिद्धे योगे चञ्चलस्य मनसोऽखिलवृत्ति-
निरोधे दृढे सति कृतार्थता आत्मनः स्वरूपावस्थानरूपमोक्षसिद्धिरित्यर्थः । एतेन
निर्बीजसब्रीजयोगा अबाह्या यावन्तस्ते सर्वेऽपि योगत्वेन सङ्गृहीताः ॥ ९ ॥
एवं स्वतो मोक्षे द्वितीयं शास्त्रं निर्णीतम् । अतः परं परतो मोक्षविषयकं
शास्त्रद्वयं निर्णेतुं तत्रत्यमोक्षस्वरूपनिरूपणपूर्वकं तत्प्रपञ्चयन्ति पराश्रयेत्यादि ।
पराश्रयेण मोक्षस्तु द्विधा सोऽपि निरूप्यते ।
ब्रह्मा ब्राह्मणतां यातस्तद्रूपेण सुसेव्यते ॥ १० ॥
ते सर्वार्था न चाऽऽद्येन शास्त्रं किञ्चिदुदीरितम् ।
अतः शिवश्च विष्णुश्च जगतो हितकारकौ ॥ ११ ॥
पराश्रयेण परस्य तत्तच्छास्त्रे सर्वोत्कृष्टत्वेन प्रतिपादितस्य आश्रयेण सर्वा-
१ विमार्गपरिपोषितादिति ग. २ वेदबाह्यामिति क. ३ मोक्षस्वरूपमिति ख. ग. ४ आत्मवाचक इति ग.
५ समदृढसति इति क. ६ परमिति नास्ति ख.