सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

आ०-१ ] शिवदृष्टिः १६
आत्मप्रच्छादनक्रीडां१ कुर्वतो वा कथंचन२ ।
मायारूपमितीत्यादि षट्त्रिंशत्तत्त्वरूपताम् ॥ ३२ ॥
बिभ्रद्विभर्ति३ रूपाणि तावता व्यवहारतः ।
यावत्स्थूलं जडाभासं संहृतं पार्थिवं घनम् ॥ ३३ ॥
तस्मादेवमुक्तेन क्रमेण स्वरूपानुप्रविष्टचिन्निर्वृतिरूपशक्तिद्वयः
प्रकाशानन्दमयः पूर्णः परमेश्वरः शिवः प्रसृतः कदाचित् प्रथमतः४ ।
शक्तिमात्रक औन्मुख्ये विषयाननुष्वक्ते निर्वृतिमये इच्छापूर्वभागे परापरा-
वस्थारम्भदशायां तदनुरूपं रूपं५ बिभर्ति ध्यायिनां ध्येयम् । कदाचिदि-
च्छात्ः६ इच्छाशक्तिरूपत्वात् निमित्तात् । अथवा इच्छारूपमासाद्य७
तदनुरूपं पूर्ववद्रूपं८ बिभर्ति । कदाचित्पुनः ज्ञानशक्तिरूपत्वात् सदाशिव-
रूपं बिभर्ति । क्रियातो ज्ञाने तु प्रागुक्तनयेनाधिक्यात्९ । ऐश्वरीं तु स्थितिं
कदाचित्क्रियाशक्तेः समाभोगात् पर्यन्तप्राप्तविस्तारात् बिभर्ति । कदा-
चित् परापरावस्थान्तरभिन्नशेषवेद्यवेदकरूपबोधात्मप्रमात्रवस्थया१०
मन्त्रादिरूपतां बिभर्ति । एकान्तभिन्नतैव वेद्यस्य विश्वस्य स्थूलत्वम् ।
१ शिवादिमन्त्रमहेशान्तात्मत्वेनेदन्ताभासस्याहमात्मन्येव विश्रान्तेर्न
किञ्चन स्वरूपान्यथाभाव इति द्योतयितुमात्मप्रच्छादनेत्यादि माया-
रूपमित्युक्तम् । २ केनापि गणनानईेण रूपेणेत्यर्थः । ३ बिभ्रद्विभर्तीत्यनेन
एतादृक्स्वरूपाभासनायामपि न तेषां स्वात्मनि किञ्चन् स्वातन्त्र्यमिति
द्योतनार्थम्, अथवा शक्तिमच्छक्तिरूपतोभयविधत्वमागमेष्वेषां सूचितमेव ।
४ उत्तरतत्त्वापेक्षयात्रापि क्रमः । ५ रूपमधिष्ठातृस्वरूपम् । ६ इच्छात्
इति निमित्तपञ्चमी । ७ इच्छारूपमित्यर्थे ल्यब्लोपे पञ्चमी ।
८ ध्यायिनां ध्येयमित्यर्थः । ९ अन्तःकरण इव वेद्यमिति नयेन ।
१० परापरावस्थायां सदाशिवेश्वररूपत्वेऽन्तरभेदेनैव केवलमिच्छाद्य-
नुगुणविशेषविशिष्टं वेद्यवेदकरूपं बोधात्मैव भासते, तत्रैव सर्वस्मिन्प्रमात्रु-
न्मीलनेन मन्त्रादिरूपता, तत्रापि चानुन्मीलितोन्मीलितन्यायेन विशेषः ।
ननु च किमिदमत्र स्थूलवेदनं नाम, तत्राह एकान्तभिन्नतेति । सा च प्रमात्र-
भिनिवेशेनेति बोध्यम् ।

२० उत्पलदेवकृतवृत्त्योपेता [ आ०-१
प्रमातृणां च बोधात्मत्वेऽपि शिवेच्छातो१ भेदापत्तेः स्थूलत्वम्। अतो२
वेदनस्यापि स्थूलत्वम्३, इदं तु विद्यात्वम्। अन्ये चैनां विद्यां भेदो-
ल्लासात् महामायामिच्छन्ति४ । कदाचिदात्म५प्रच्छादनात्मकाभेदा६-
ख्यातिमयीं संसाररूपां भ्रान्तिं७ क्रीडामेव कथंचन तथास्वभावत्वात्
कुर्वतो मायाशक्तिपरावस्था बीजभूता रूपमिति८ चोक्तानि तत्त्वानि
आदिभूतानि येषां षट्त्रिंशत्तस्तत्त्वानां, तद्रूपतां९ सामान्येन बिभ्रत् तद्विशेष-
रूपाण्यपि बिभर्ति तावता प्रसिद्धव्यवहारनिष्पत्तेः। अप्रसिद्ध१०व्यवहारा-
न्तरमस्तु ईश्वरस्य कार्याणामनियमात्११, तदात्मता तु तेषामपि१२ युक्ति-
युक्ता न बाधितुं शक्या। इत्येतावत् प्रतिजानीमहे१३ षट्त्रिंशत्संख्या
पूर्यते यावत्१४ पार्थिवं तत्त्वम्, तदनन्तरं नोपलभ्यतेऽत्र तथा। पार्थिवं तत्त्वं
स्थूलत्वात् पर्यन्तवर्ति। अनेकसहकारिसंपाद्यविशेषं कारणात्कार्यं स्थूलं

१ ननु चास्या वेद्यवेदकबोधात्मकप्रमात्रवस्थाया अविशेषात् कथं
तत्रानेकप्रमातृतैतत्याह शिवेच्छात इति। २ अतः-—प्रमाणप्रमेययोरधीन-
त्वात्। ३ विद्यात्वविद्येशानत्वमन्त्रमन्त्रेश्वरेश्वरत्मकम्। ४ मायायां हि भेद
उल्लसितोऽत्र तु तदुल्लास एवेति। यदुक्तमागमे--
‘मायोपरि महामाया।’
इति। तेनात्र पर्यायभेद एव न परमार्थभेद इति। ५ स्वातन्त्र्यघनस्यात्मनः
प्रकर्षेणाच्छादनं तद्धानिरूपणम्। ६ अभेदस्याप्यख्यातिरात्मनोऽप्याच्छादम्।
७ भ्रान्तिम्, पुनःपुनर्लौकिकया जननमरणस्वरूपां न तु व्यतिरेकेणाभासनात्
व्यतिरिक्ताम्। ८ अपरैव रूपं रूपप्रसारः। ९ कतिपयकतिपयभेदानुगतं रूपं
तत्त्वम्। ननु किमेतान्येव तत्त्वानि उतापराण्यपि सन्तीत्याह तद्विशेषरूपा-
णीति। १० ननु यदि अन्यान्यपि सन्ति तत्किमिति नोपदिष्टानि इत्याह
तावतेति। अप्रसिद्धेति, सामान्यलोकाविषयम्।
'परिच्छिन्नप्रकाशत्वं जडस्य किल लक्षणम्।
जडाद्विलक्षणो बोधो यतो न परिमीयते॥’
इति नीत्यापरिच्छिन्नत्वमेव, यत्पुनः षट्त्रिंशत्तत्त्वरूपतां बिभ्रदित्युक्तं
तन्नियमनमव्यवस्था मा भूदिति। ११ 'अपरिच्छिन्नशक्तेः कः कुर्याच्छक्ति-
परिच्छेदम्।' इति नीत्या। १२ कार्याणाम्। १३ प्रतिज्ञां कुर्महे।
१४ यावच्छब्दस्यावाधारणावधिवाचकत्वादिति भावः।

आ०-१ ] शिवदृष्टिः २१
भवति व्यक्ततरत्वात् १ न तु सूक्ष्मम् । महत्तत्त्वेऽपि २ प्रधानादेः कारणस्य
सौक्ष्म्यमेव ३ । तथा चिन्मयत्वात् सर्वस्य यावत्प्रकाशान्वयः । सत्त्वा-
त्प्रभृति जलतत्त्वेऽपि शुक्लप्रकाशवर्णं तावत्कारणता संभाव्या । पार्थि-
वेऽपि तु यावत् तदस्ति चित्रप्रकाशैक्याख्यातिमात्रात् पृथक् ४ प्रकाशा-
त्मत्वेऽपि । तदुक्तम् जडाभासं ५ कार्ष्ण्यात् जडोऽप्रकाश आभासो ६
रूपमस्येति तत् । आकाशादिमहाभूतमयन्तन्मात्र ७ पञ्चक ८ व्यूहनात्मतया
संहतम् ९, अनन्तरं संपर्कान्तरासंभवादन्त्यकार्यम्, अत एव बहूनां संघा-
ताद्घनं स्वदेशान्तरप्रतिबन्धकम् अत्यन्तपरसंमिश्रणासहं १० परिपुष्टद्वैत-
दृष्टिपर्यन्तनिविष्टम् ॥ २६-३३ ॥
अत ११ ऊर्ध्वं यानि भुवनादीनि कार्याणि, तान्येवामेव भूतानां
विभवभूतानि अपरिसंख्येयानि स एव निर्मिमीत इत्याह--
तथा नानाशरीराणि १२ भुवनानि तथा तथा ।
विसृज्य रूपं १३ गृह्णाति प्रोत्कृष्टाधममध्यमम् १४ ॥ ३४ ॥
१ पञ्चत्रिंशत्तत्त्वकारणं हि पार्थिवं तत्त्वं, तथा च तत्तत्सहकारि-
कारणोपस्कृतत्वात्कारणादपि कार्यस्य व्यक्ततरत्वात्स्थूलत्वं कार्यस्य
कारणेऽन्तर्भावात् । २ सर्वानुस्यूतत्वात् । ३ अव्यक्ततरत्वात् । ४ तत्
पार्थिवं तत्त्वं 'नाप्रकाशः प्रकाशते' इति न्यायेन प्रकाशात्मत्वेऽपि चित्रप्र-
काशैक्याख्यातिमात्रात्पृथगेवास्ति । ५ पार्थिवं तत्त्वम् । ६ जलेऽपि शुक्ल-
वर्णाभासादस्त्येव प्रकाशान्वयः, पार्थिवे कार्ष्ण्याभासान्नास्तीत्यर्थः । ७
विशेषाणां सामान्यमूलत्वात्सामान्यकारं तन्मात्रपञ्चकम् । ८ व्यूहनं विशेष-
रचना । ९ संहतं निविडं मिलितम् । शब्दस्पर्शरूपरसगन्धतन्मात्रेभ्यो
व्यूढेभ्यः पार्थिवं तत्त्वमिति । १० जलादिषु ह्येतानि सर्वाण्यसंभाव्यानि ।
तानि ह्यन्यसंपर्कसहनशक्तानि, अघनानि, स्वदेशान्तराप्रतिबन्धकानि
अत्यन्तपरसंमिश्रणासहानि, अत एव न द्वैतदृष्टिपरिपोषकाणि ।
११ ननु किमिदं षट्त्रिंशत्तत्त्वरूपतां बिभ्रदित्युच्यते यावदन्यदपि
विभवात्मकं भुवनजातमस्त्येवेत्याशङ्कयाह अत इत्यादि । १२ भोगसाधनानि
शरीराणि । भुवनानि भोग्यानि । १३ भोक्तारं देवतिर्यङ्मनुष्यरूपम् ।
१४ अयमत्र तात्पर्यार्थः-आदौ ह्यपूर्णम्मन्यतारूपः परिस्पन्दोऽकर्मकमभिलाष-
मात्रं भविष्यदवच्छेदयोग्यतेति । ततोऽपि रागः कर्माविच्छिन्नोऽभिलाषः ।
कर्म तु तत्र कर्ममात्रं, ततोऽपि कर्मभेदविचित्रो बुद्धिधर्मो राग इति । तदिदं

२२ उत्पलदेवकृतवृत्त्योपेता [ आ०-१
एवं यथा विश्वप्रपञ्चतननक्षमं तत्त्वरूपं षट्त्रिंशत्संख्यं कार्यं रूपेण
बिभर्ति, तथा तैरेव तत्त्वैर्जनकसंसारिपुरुषरूपेण निर्वर्तनीयानि न तु साक्षात्
विधातुर्देवादिशरीराणि¹ कार्याणि, केवलं प्रत्यभिज्ञोक्तनीत्या² परस्या-
किंचित्करत्वात्³ स एव स्वकमातापितृभूतादिरूपेण देवादीन् भुवनानि
च तन्निवासरूपाणि विसृज्य, प्रोत्कृष्टादिदेवमनुष्यतिर्यग्योनिरूपं⁴
गृह्णाति ॥ ३४ ॥
शरीरभुवनवासना अन्योन्यानुरूपा गृह्णाति--इत्याह--
स्थानानुरूपतो देहान्देहाकारेण भावनाः ।
आददत्तेन तेनैव रूपेण प्रविभाव्यते ॥ ३५ ॥
अन्योन्यानुरूप्येणैवेषां देवादीनां विलक्षणव्यवहारनिर्वृत्तिः । स च
शरीरादि आददत् तेनैव मायीयेनैव रूपेण उपलक्ष्यते प्रसिद्धः ॥ ३५ ॥
स्वस्वरूपाख्यातेर्नरकादावपि स एवास्तीत्याह--
क्रीडया⁵ दुःखवेद्यानि कर्मकारीणि तत्फलैः ।
संभत्स्यमानानि तथा नरकार्णवगह्वरे ॥ ३६ ॥
मलोपोद्वलितं कर्म संसारवैचित्र्यभोगे निमित्तमिति तद्भोगवास नानु-
विद्धानामणूनां भोगसाधनार्थं शरीराणि स एव सूयत इत्युक्तं तथा
नानेत्यादि । शरीरस्य भोगसाधनार्थं तानि तान्यनेकविधानि वासनानुसारेण
भुवनानि, तदनुसारेण च भोगभुक्त्यन्तं तद्रूपतापरिग्रह इत्युक्तं प्रोत्कृष्टेति ।
१ परमेश्वरस्य सर्वकर्तुः । २ संवेदनस्वातन्त्र्यस्वभावः परमेश्वर एव
विश्वभावशरीरः परमार्थतः सर्वजनकः । कथं तर्हि मातापित्रादेस्तदभिमान
इति चेत्, इदं वक्तव्यं किं शरीरेन्द्रियाणां तत्सामर्थ्यमुत तद्व्यतिरिक्त-
स्यान्यस्य कस्यचित् । शरीरेन्द्रियाणि हि जडस्वरूपत्वाद्ग्रावराशिमध्य एव
निक्षिप्तानि कथं तेषामुत्पत्त्यभिमानः । या पुनस्तद्व्यतिरिक्ता संविन्नाम,
तस्याश्च परमेश्वरसंविदोऽनधिकत्वमिति निर्णेष्यामः । तस्माद्यदत्र केचन
शरणं सामग्रीवादमभ्युपागमन्सोऽपि परमेश्वरस्यैव कर्तृतोपोद्वलक इति ।
३ तत्तत्प्रमातुः कर्तुश्च ।
४ 'अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति ।
मानुष्यश्चैकविधः समासतो भौतिकः सर्ग ॥'
इति तत्तदवान्तरभेदेऽपि त्रिविधत्वमेवेति बोधयन् । ५ उक्तमिदं यत्किंचि-
देतद्भासते, तत्सर्वं परमाद्वयनयोपदेशेन परस्वभावमयमेवेति । तत्र मा

आ०-१ ] शिवदृष्टिः २३
निवासीनि शरीराणि गृह्णाति परमेश्वरः ।
विश्वरचनामयक्रीडास्वभावेन, दुःखरूपतया वेदयिष्यमाणानि नरके,
अथवा दुःखं वेदयिष्यमाणं नरके येषु तानि मायात्मकनियतिशक्तिवशात्
पापकर्मकारीणि इह शरीराणि गृह्णाति, तथा नरक एवार्णवः तत्कुक्षा-
वगाधभीषणे निवासीनि सन्ति तत्कर्मफलैः संबन्धमागमिष्यन्ति ।
परमेश्वरो नरकेऽपि स एवास्ते, न तु तदतिरिक्तः कश्चिदस्तीत्यैक्यमेव
स्थिरीकृतम् ॥ ३६ ॥
एतदेव लौकिकदृष्टान्तेनाह--
यथा नृपः सार्वभौमः प्रभावामोदभावितः ॥ ३७ ॥
क्रीडन्करोति पादातधर्मांस्तद्धर्मधर्मतः ।
तथा प्रभुः प्रमोदात्मा क्रीडत्येवं तथा तथा ॥ ३८ ॥
यथैश्वर्यचमत्कारवासितः सार्वभौमो राजा निरर्गलतया क्रीडया
तल्लक्षणस्वभावापत्तेः पदातिसम्बन्धिचेष्टितानि आचरति, तथा परमेश्वरः
पूर्णत्वात् स्वत आनन्दघूर्णितैस्तैर्भूतभेदात्मभिः प्रकारैरेवमेतत्सदृशं क्रीडति ।
हर्षानुसारी स्पन्दः क्रीडा ॥ ३७-३८ ॥
पूर्वोक्तशक्त्यादितत्त्वमुपसंहर्तुमाह--
इत्थं १ शिवो बोधमयः स एव परानिवृतिः २ ।
सैव ३ चोन्मुखतां याति सेच्छाज्ञानक्रियात्मताम् ४ ॥ ३९ ॥
सैव ५ शाक्तशरीरादिनारकान्तं ६ हि भूतता ।
प्रसूयते स्वचिद्रूपप्रमुखं पार्थिवान्तकम् ॥ ४० ॥
पदार्थत्वेन भगवान्सर्वत्रैव तदात्मता ।
कश्चिद्देवं निषिद्धाचरणेन स्वात्मानमज्ञानी नरके निमज्जयेदित्यतः क्रीड-
येति । अज्ञानी हि चर्यैकायत्तभोगमोक्षोऽतस्तदुल्लङ्घनेनावश्यं नरकपात-
मर्हतीति, तथा परमानन्दघनोऽपि कथं नरकादावास्त इति यत्केचन
भ्रान्तास्तान्प्रत्यद्वयप्रतिपत्तिदार्थ्यार्थमाह क्रीडयेति ।
१ 'आत्मैव सर्वभावेषु' इति नयेन । २ निर्वृतचिदित्यादिना । ३ यदा
तु तस्येत्यादिना । ४ तस्येच्छेत्यादिना । ५ कदाचित्स्थूलवेदनात् विद्यात्वे-
त्यादिना । ६ क्रीडयेत्यादिना ।

२४ उत्पलदेवकृतवृत्त्योपेता [ आ०-१
अनेनोक्तप्रकारेण शिवो भगवान् बोधमात्ररूपः पूर्णो निरपेक्षः
आनन्दात्मा सदैव । तथा मायाशक्तिवशादात्माख्यातिः आनन्दातिरिक्त
इव तत्त्वतामेति जगन्निर्माणेच्छाशिरूपेण स्थातुम् । तस्याः१ क्रियात्वात्
तत्पूर्वभागात्मकोन्मुखतां याति । सा च क्रमेण इच्छाज्ञानक्रियात्मतां याति ।
एतावता निर्मातृत्वेन शाक्तशरीरप्रभृतिनारकशरीरान्तरूपं प्रसूयते२ स एव
जायते । सा च भूतता भूतसर्गः । निजचिन्मात्ररूपशिवतत्त्वादिपार्थिव-
तत्त्वान्तं रूपं पदार्थत्वेन तैस्तैरुच्यमानं भगवान् प्रसूयते । अतः सर्वत्रैव
तदात्मता । युक्तिश्च वक्ष्यते ॥ ४० ॥
भूतसर्गे प्रमातृपञ्चकं निदर्शयन्नाह--
स्वशिवत्वमिवाजानन्पश्चात्मव्यपदेशतः ॥ ४१ ॥
तद्रूपत्वेन३ वा पश्यन्स्थितः शान्त४ इव क्वचित् ।
केवलेशदृढत्वेन५ क्वचित्केवलशंभुता ॥ ४२ ॥
अप्रबुद्धो६ निष्कलश्च क्वचित्प्रलयकेवली७ ।
आत्मबोधो विकलवत्क्वचिद्विज्ञानकेवली८ ॥ ४३ ॥
स्वशिवत्वमजानन्निव पश्चात्मव्यपदेशमासाद्य स्थितः । स्वरूपभेदा
ख्यातिरेव हि मायाशक्तिकृता ग्राह्यग्राहकरूपसंसारात्मतया अवतिष्ठते ।
तत्र ग्राहकः पशुः पुर्यष्टकावच्छिन्नं चैतन्यम् । स एव परिमितत्वादणुः
चैतन्यात्मतया नित्योऽमूर्तश्च९, विश्वात्मतात्यागेनाज्ञः, अस्वातन्त्र्यात्
क्रियागुणरहितोऽनीश्वरश्च वेद्यपुर्यष्टकात्मनि भिन्न इव रागितया
भोगोपायविचिन्तको, मायाकृतत्वात्१० मायोदरान्तःस्थः । स्वशिवत्वाज्ञानं
१ तस्या इच्छायाः । २ स एव तादृशो जायते । ३ शुद्धशिवत्वेन ।
४ ग्राह्यग्राहकक्षोभरहितः । ५ तत्तन्निर्माणचतुरस्तत्तदुपादाननिमित्तकारणा-
न्युपादाय स्वतन्त्रं चतुर्दशविधभूतसृष्टिकारी क्लेशकर्मविपाकाशयैः स्वयम-
परामृष्टोऽन्यांश्च तत्र योजयन् स्वकर्मानुसारेण फलदाता पुरुषविशेष ईश्वर
इति । ६ स्वरूपबोधेन हि पशुत्वम्लानिः, तदभावे भिन्नग्राह्यशून्यतायामपि
न पाशच्छेदः । ७ प्रलयाकलः कार्मणमलद्वयभाजनं, विज्ञानकलः
स्वातन्त्र्यहानिरूपाणवमलभाजनम् । ८ स्वातन्त्र्यहान्या ।
९ पशुर्नाम किल चिदचिद्रूपावभास एव। अचिद्रूपत्वं पुनर्मल-
लक्षणम्, तद्रूपमप्याह अज्ञ इत्यादि । १० • अनेनास्या द्विरूपता साधिता ।
तथाहि तस्य च सृजतः परमेश्वरेच्छामयं, तत एव च नित्यं स्रक्ष्यमाणवस्तु-

आ०-१ ] शिवदृष्टिः २५
शिवभट्टारकस्यायुक्तं नित्यनिर्मलस्वभावत्वात् तद्विना १ मलानामेवा-
नुतपत्तेस्तदधिष्ठानात्तेषाम् २ । ततस्तदज्ञानभागणुः तदैव मायाशक्तिवशात्
उत्तिष्ठतीत्याणवमायामलद्वयोद्भवः ३ । कार्ममलश्च तत्प्रभवः ४ । स्वशिव-
त्वमिवेति इवग्रहणं व्यपदेशग्रहणं च अज्ञानात्मकमेतत् न वस्तुतः कश्चित्
ग्राह्यग्राहकभेद इति वक्तुम् । एतच्च ईश्वरप्रत्यभिज्ञायां निपुणं विवेचितम् ।
क्वचिन्महामायापर्यायविद्याशक्तिवशात्तद्रूपत्वेन ५ आत्मानं पश्यन् सर्वथा
विश्वात्मतामनुगतः शान्त इव । अत्रापि इवशब्दो ज्ञानविशेषेण शान्तता,
न तु वस्तुतः सार्वात्म्यविरह इति वक्तुम् । उत्तरत्रापीवशब्दस्तदर्थं
योजनीयः । विद्याशक्तितारतम्यतश्च भेदात् क्वचिद्वैशेषिकादिमत-
केवलेश्वरमात्रदृढाभिमानेन स्थितः, क्वचित् केवलशंभुसंज्ञा शिवभेदेन,
क्वाप्यवस्थाभेदावस्थितविज्ञानमय एवाम्लानपशुभावः मायाख्यमलोप-
स्थापितभिन्नग्राह्यशून्यः प्रलयकेवली भवति । अन्यत्र आत्मबोधी न तु
पुर्यष्टकस्थः, प्रलयाकवलच्च ग्राह्यरहितः, कार्ममलास्पर्शी विज्ञान-
केवलिरूपः ॥ ४३ ॥
इच्छावशेनैवमवस्थानमिति बहुतरवाद्युपेतदृष्टान्तमाह ६--
योगिनामिच्छया यद्वन्नानारूपोपपत्तित्ता ।
न चास्ति साधनं किंचिन्मृदादीच्छां विना प्रभोः ॥ ४४ ॥
गतस्य रूपस्य जडतयाभासयिष्यमाणत्वाज्जडं, सकलकार्यव्यापारादि-
रूपत्वाच्च व्यापकं मायाख्यं तत्त्वमुपादानकारणं, तदवभासकारिणी च
परमेश्वरस्य मायाशक्तिस्ततोऽन्यैवेत्याचार्य्याभिनवगुप्तपादाः । १ न च
मलसम्बन्धेनेत्याह, तद्विनेति । २ परमेशेच्छामयत्वात् । ३ तदुक्तमीश्वर-
प्रत्यभिज्ञायां--
'स्वातन्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता ।
द्विधाणवं मलमिदं स्वस्वरूपापहानितः ॥
भिन्नवेद्यप्रथात्रैव मायाख्यं जन्मभोगदम् ।
कर्तर्यबोधे कार्मं तु मायाशक्त्यैव तत्त्रयम् ॥'
इति । ४ मायोद्भवः । ५ शिवत्वेन । ६ बहुतरवादीति--
'न दृश्यते त्वत्प्रतिभासशक्तेः
स्वप्नेऽर्थवैचित्र्यनिमित्तमन्यत् ।
तद्वदृष्टसामर्थ्यतया सदैव
विश्वप्रपञ्चप्रथनेकहेतुः ॥'

२६ उत्पलदेवकृतवृत्त्योपेता [ आ०-१
तथा भगवदिच्छैव तथात्वेन प्रजायते ।
योगिनामिच्छामात्रेण¹ नानागृहादिरूपाणामुपपत्तिता क्रियात्मत्व-
मासाद्यते इति शेषः । न च मृत्काष्ठादि तेषां तक्षादीनामिव किंचित्साधन-
मस्ति परमेश्वरेच्छातिरिक्तम् । तद्रूपतापत्त्या हि ते² निर्मिमते । तथा
भगवदिच्छामात्रमेव विश्वरूपत्वं संपद्यते ॥ ४४ ॥
दृष्टमुदाहरणमाह³--
दृश्यन्तेऽत्र तदिच्छातो भावाः कामादियोगतः ॥ ४५ ॥
तत्र मिथ्यास्वरूपं चेत्स्थाप्याग्रे सत्यतेदृशाम् ।
कामशोकभयादियोगाच्च ते ते भावाः पुरः⁴ स्फुरन्तो दृश्यन्ते । तत्र
भगवदिच्छैव⁵ कारणं तावत्यंशे भावनावशादीश्वरतावेशात् । न च तत्र
चौरादयो मिथ्यारूपा भान्ति-यतोऽग्रे सत्यत्वमीदृशानामवश्यं स्थाप-
नीयम् ॥ ४५ ॥
इति भट्टदिवाकरवत्सोक्तनयेन यद्यपि स्वप्नसंकल्पकामशोकादिविषयपरि-
दृष्टभावाभासनिर्माणसामर्थ्यं संविद एवानुभूयते, तथापि घटादेः प्रसिद्ध-
मृदादिकारणपरम्परापराकरणेन तदत्रासत्यं घटादीति केचन विप्रति-
पन्नास्तान्प्रति योगिदृष्टान्तेनेच्छानिर्माणं समर्थयति । १ योगी हि पुरसेनादि-
निर्माणमिच्छावशादेव करोतीति सिद्धम् । तत्र हि तदिच्छया झटिति
संघटिताः परमाणव उपादानमित्युच्यमाने यदि प्रसिद्धो घटसंपादकः
समस्तकर्मशिक्षाधर्माधर्मदण्डादिसहकारिसहितः स्वोपादानोचितः कपालादि-
कारणकलापोऽभ्युपेयते, तत्कुलालविशेष एवायं योगीत्यायातम् । अहो तर्हि
तस्य योगिनो योगित्वमिति तत्र तदुल्लङ्घनमेवेत्याह इच्छामात्रेणोपपत्तिता
क्रियात्मत्वमासाद्यत इति ।
२ योगिनश्च शरीरप्राणाद्यारूपितमपि चैतन्यं तावन्नैर्मल्यान्निर्मातृ
स्वशरीरप्राणादिसहितप्रमात्रन्तरापेक्षया बाह्यत्वेन तस्यार्थस्य चित्तत्त्वमेव
सर्वत्र निर्मातृ । ३ प्रत्यक्षसिद्धम् । ४ प्रत्यक्षत एवार्थक्रियाकारित्वात् ।
५ भगवदिच्छेति, चित्तत्त्वं यतः स्वात्मरूपमहमित्यनन्यापेक्षप्रकाशविमर्शं
ततस्तस्य यदाभासनं, तत्तावदुपपन्नं न प्रयत्नसाध्यं तदभेदिनश्च भावराशेः
प्रकाशात्मकत्वादुपपन्नमाभासनमित्यर्थः ।

आ०-१ ] शिवदृष्टि: २७
एवमेतदप्यग्रे वक्ष्यते इत्याह--
एवं सर्वेषु भावेषु यथा सा शिवरूपता ॥ ४६ ॥
नीरूपता निर्वृतिर्वा शक्तित्रितययोगिता ।
सच्चित्त्वं संस्थितं नित्यं कथनीयं तथाग्रतः ॥ ४७ ॥
उक्तं तावत्--
'पदार्थत्वेन भगवान्.........।' (४१)
इत्यादिना तत्त्वभूतमुखेन सर्वस्य शिवरूपत्वम् । इदानीं यथा घटपटादिष्वपि
भावेषु शिवता, तद्रूपत्वाच्च १ परिमितरूपैर्नीरूपत्वं, निर्वृति:२, इच्छादि-
योगिता, सच्चित्त्वमजडत्वं च सम्यगेव स्थितमुपपन्नम् ३, तथाग्रतोऽवश्यं
कथनीयम् ॥ ४७ ॥
एवं स्थिते ४ यद्ब्रूवति, तदाह--
एवं सर्वपदार्थानां समैव शिवता स्थिता ।
परापरादिभेदोऽत्र ५ श्रद्धानैरुदाहृतः ॥ ४८ ॥
परमशिवात्प्रभृति घटाद्यन्तानामपि पदार्थानां समैवान्यूना अनति-
रिक्ता च शिवता पूर्णचिद्रूपानतिरेकान्नियता ६ सर्वेषां तथा सामरस्या-
सादनात् कापि स्थिति: ७ स्यादित्यर्थः । एवं च सर्वस्य शिवरूपसामरस्यात्
तदख्यातिमयशुद्धयशुद्धिरूपपरापरादिभेदो भावानामुक्तः । तत्र श्रद्धा-
मात्रेणोपपत्तिरहितेन जन्तूनां, न तु वस्तूनां शुद्धिरशुद्धिर्वा काचित् ॥ ४८ ॥
एवं सर्वेषां सत्यत्वमाह--


१ तत्र सर्वेषां भावानां तथा शिवता भवति, यदि तद्धर्मयोगस्तत्रापि
भवति, नान्यथा,-इत्यतः सर्वं तत्समर्थकं समर्थयति तद्रूपत्वादिति ।
२ कर्माविच्छिन्ना औन्मुख्यरूपा । ३ युक्त्यानुभूतम् । ४ सर्वपदार्थानां सर्व-
शक्तिसंपूर्णशिवत्वे स्थिते । ५ ननु यदि संपूर्णैव तेष्वपि शिवता, तत्कि-
मित्यागमेषु परापरादिभेदो नियमेन कथ्यत इत्याशङ्क्याह परापरेत्यादि ।
६ सर्वस्य पदार्थजातस्यावश्यंभाविनी । ७ ननु च भवतु सर्वत्र पूर्णशिव-
तत्त्वोपयोगस्तथापि स्वात्मनि स्थितत्वात्कश्चमत्कारातिशय इत्यत आह
स्थितिरिति । योगिनो हीदृशी यदि स्थितिस्तदा सर्वचमत्कार एवेत्यर्थः ।

२८ उत्पलदेवकृतवृत्त्योपेता [ आ०-१
एवं भेदात्मकं नित्यं शिवतत्त्वमनन्तकम् ।
तथा तस्य व्यवस्थानान्नानाऽरूपेऽपि सत्यता ॥ ४९ ॥
उक्तक्रमेण १ भेदात्मकं, न तु २ भावभेदपृथग्भूतम् । भेदा अपि
तदात्मकाः ३, अत एव तदनन्तकं भिन्नार्थसद्भावे सति अन्तः स्यात् तद्रूपाना-
क्रमणात् । एवं व्यवस्थानात्स्वभावत्वात् तस्य परमेश्वरस्य नानारूपेऽपि
विश्वस्मिन् सत्यतैवेति ॥ ४६ ॥
इति श्रीशिवदृष्टौ श्रीमदुत्पलदेवप्रभुपादनिर्मितायां वृत्तौ
प्रथममाह्निकम्
१ रूपप्रसाररसत् इत्यादिना । २ अनेन न तेषां स्वकीयं रूपं
किंचिदिति द्योतितम् । ३ ननु भेदोऽपि भाति, किं चात्र शरणमित्याह
तदात्मका इति ।

अथ
द्वितीयमाह्निकम्
ईश्वराद्वयवाद¹ एव युक्तियुक्तो², न तु शब्दपरब्रह्माद्वयवाद इति
वक्तुं, वैयाकरणोपेतशब्दाद्वैतं तावन्निराकर्तुमुपक्रममाण आह--
अथास्माकं³ ज्ञानशक्तिर्या सदाशिवरूपता ।
वैयाकरणसाधूनां पश्यन्ती सा परा स्थितिः ॥ १ ॥
पश्यन्ती यद्यपि⁴ नादरूपतया विश्वमामृशन्ती क्रियाशक्तिरूपतया
समन्विता, तथापि पश्यन्ती इति दर्शनप्राधान्यात् उपचारिज्ज्ञानशक्ति-
रूपत्वेऽप्याश्रीयमाणे⁵ परमशिवरूपताया अत्यन्तदूरवर्तिनी न तु पर्यन्त-
१ तदेवमियता सर्वशासनार्थसंक्षेपार्थसूचकेन पीठिकाबन्धरूपेणो-
पोद्घातपरेणानेन प्रथमाह्निकेन परमेश्वर एक एव तावत् स्वरूपप्रसारेण
परापरादिरूपतया भासते, तथात्वेऽपि न खण्डितव्यपदेशव्यवहार्यः ।
तथाहि-परावस्थायां तावत्पूर्णानन्दस्वभाव एव, परापरायामपि रूपप्रसार-
रसादेव न काचन विकल्पकलङ्ककल्पना, अपरावस्थायां पुनः प्राकृतप्रजा-
यामपि च तस्य सहजप्रकाशबोधोऽस्तीत्यपि समर्थितम्। तदेतत्त्रिधात्व-
मप्यन्यवादिमतेऽनुपपत्त्या समर्थितमपि शिथिलितमिव भाति । तस्मिन् हि
निरसिते सर्वमिदं मेघावरणविगमेनेव स्वप्रकाशभानुकिरणवृन्दमत्यन्तस्वच्छं
भासते नान्यथा, पांसुपातेन हि न मणेर्महार्घतापगच्छति, परं मलिनो
भाति । तत्र प्राधान्येनेह परब्रह्माद्वयवाद एव निरसनीयः, प्रसङ्गागतस्य च
शब्दब्रह्माद्वयवादस्य निरसनं तावत्तण्डुलशुद्धाविव कणनिरसनमिति तन्निरा-
सनायाह न शब्दब्रह्मेत्यादि । २ अनुभवानुवर्ती सत्तर्कप्रकारो युक्तिः ।
३ अथेति स्वसिद्धान्तकथनानन्तरं परप्रक्रियारम्भे । ४ ज्ञानशक्तौ हीच्छायां
यद्बीजतयावस्थितं तदेव विकसितं, ततश्चात्रामर्शासंभवात् कथं ज्ञान-
शक्तित्वमिहाप्युक्तं ज्ञानदर्शनयोग्यतेत्यत्र योग्यतेति, ततश्च कथमुक्तं ज्ञान-
शक्तिः पश्यन्तीति मत्वाह् यद्यपीति । ५ अपिशब्दोऽत्रोपरोधेनैव ज्ञान-
शक्तित्वं न तु वस्तुत इति द्योतयति ।

३० उत्पलदेवकृतवृत्त्योपेता [ आ०-२
दशासौ ज्ञानशक्तेः सदाशिवरूपत्वात् परापरव्यवस्थात्र । तेषां पुनः सा
परावस्था मता । सदाशिवरूपत्वे¹ च क्रियाशक्तिरपि न परित्यक्ता ।
यदुक्तं--
'ज्ञानक्रिये सादाख्यम्'
इति । शक्तिशक्तिमतोरभेदात्² ज्ञानशक्तिमान् सदाशिवः, उद्रिक्तक्रिया-
शक्तिरीश्वर इति । अत³ एवेच्छाशक्तिमयः शिवो यावच्चित्स्वातन्त्र्य-
शक्तिमान् पर्यन्ते परमशिवः । अत्रान्तरे चौन्मुख्यनिवृत्त्यपेक्षयाधिकतत्त्व-
संभवः । तदस्तु, मा वा भूत्, नैतदिह मुख्यवृत्त्या प्रतिपाद्यम्, अत
एवाधिकशक्तिप्रदर्शने कृतेऽप्युक्तं 'षट्त्रिंशत्तत्त्वरूपतां बिभ्रत्' इति ।
शिवभेदतात्पर्यं⁴ तु न खण्ड्यत इति नियमः । मायोत्तीर्णेऽप्यध्वनि⁵
विद्योन्मेषेऽपि कार्ममलानुल्लासात् संसारासंपर्केऽपि परमेश्वरऽभेदाख्यातेः
सर्वथैवाविच्छेदादागमावगतेश्वरेच्छावशोत्यपरापरदशाव्यपदेश्योक्ततत्त्वोप -
गमः⁶ । वैयाकरणसाधूनामिति साधुग्रहणमेषां⁷ जाड्यख्यापनाय । परमपि
हि रूपं यदि पश्यन्त्याः यदुक्तं--
'प्रतिलब्धसमाधाना⁸ च ।'
इति,
'विशुद्धा९ च ।'
१ ननु यदि भवद्भिः पश्यन्त्या नादशक्तिरूपतया क्रियाशक्तिरेवाभ्यु-
पगता येन यद्यपीत्याद्युक्तं, सूत्रकारेण कथं ज्ञानशक्तिः सदाशिवरूपतेति
महानयं स्वकटकक्षोभः संपन्न इत्याशङ्क्याह सादाशिवरूपत्वे चेतिः ज्ञान-
शक्तियोग्यता क्रियाशक्तिप्रारम्भः सदाशिवत्वमित्यर्थः । २ ननु ज्ञानशक्तिः
सदाशिवतेति कोऽयं निर्देश इत्यत आह शक्तीति । ३ प्रसङ्गागतमाह अत
एवेति । ४ ननु किं तर्हि अत्र प्रतिपाद्यं सर्वथा हि निःशेषतः कथिते प्रकृतं
साध्यं सिद्ध्यत्यत आह शिवाभेद इति, सर्वथा हि शिवाभेदतात्पर्यमिह साध्य-
मिति नियमः । तच्च, अस्तु वाधिक्यं मास्तु वा, न खण्ड्यत इत्यर्थः ।
५ ननु व सर्वत्र हि मायाया उच्छेद एवाङ्गीकृतः, स च ज्ञानशक्ता-
वप्यस्ति ततोऽलमनेन ज्ञानशक्तिरस्माकं तेषां परा स्थितिरिति शङ्कित्वाह
मायोत्तीर्ण इति । ६ तेन नात्र परतत्त्वस्थितिरित्यर्थः । ७ यथा लौकिकेऽपि
अत्यन्तमूर्खेऽपि साधुरयमिति । ८ केवलशब्दार्थरहितस्वरूपसमाहितिः ।
९ ग्राह्यग्राहककल्लोलरहिता ।

आ०-२ ] शिवदृष्टिः ३१
इति,
'प्रशान्तप्रत्यवभासा १ च ।'
इति, अन्यद्वा अपि अतोऽधिकतरं प्रकृष्टरूपमस्याः स्यात्; तथापि सरो २
रस इति मध्यमायामुन्मिषतः क्रमस्य कारणभूतायां तत्क्रमशक्तिरस्त्येव ।
यदुक्तं--
'प्रतिसंहृतक्रमाप्यन्तः सत्यपि अभेदे समाविष्टक्रमशक्तिः
पश्यन्ती ।'
इति । ततो न सा पूर्णा ३ पर्यन्तदशेति कथं तस्याः परस्थितिरूपता,
परब्रह्मरूपता, शब्दब्रह्मरूपता ॥ १ ॥
तथा ४ च त एवमाहुरित्याह--
इत्याहुस्ते परं ब्रह्म यदनादि तथाक्षयम् ५ ।
तदक्षरं ६ शब्दरूपं सा पश्यन्ती परा ७ हि वाक् ॥ २ ॥
यदनादि अनन्तं च परं ब्रह्म चिद्रूपं तदक्षरं निर्विकारं शब्दरूपम् ।
सैव च पश्यन्तीसंज्ञा परा वाक् । वाग्रूपतां ८ विना परब्रह्माख्यश्चित्प्रकाशो-
ऽपि न प्रकाशेत । सा हि प्रत्यवमर्शिनी । प्रत्यवमर्शनमेव ९ च प्रकाशन-
मुच्यत इत्याहुस्ते ॥ २ ॥

१ गलितबाह्यविकल्पावभासा । २ तथापीति मूलभूतत्वात्तस्या
यदि तस्यां सूक्ष्मक्रमकलना न स्यात् तर्हि सरो रस इत्यत्र क्रमस्मरणे
निमित्ताभावादुत्क्रमेण स्मरणं मन्तव्यं, तत्र हि एकस्मृत्यूपारूढानां
वर्णानामर्थावबोधकत्वमुक्तं, तच्च सति कारणे तादृक्प्रतिभासे भवति
नान्यथेत्यर्थः । ३ अन्तःसमाविष्टक्रमत्वात् । ४ ननु च पश्यन्ती तादृश्यस्तु
तस्याः कथं तत्र विवादः, ततोऽन्यापि काचिदस्त्यक्रमा इत्यत आह एवमिति,
पश्यन्त्या एव परब्रह्मशब्दब्रह्मरूपतेत्यर्थः । ५ अक्षयमन्तरहितम् । ६ अक्षरं-
कल्पनोज्झितम् । ७ सर्वतः पूर्णत्वात्सूक्ष्मा । ८ ननु वाचः प्राणस्पन्दात्मक-
त्वात्कथं शब्दरूपमेव परं ब्रह्मेत्यत आह वाग्रूपतामिति ।
'वाग्रूपता चेदुत्क्रामेद्वोधस्य शाश्वती ।
नप्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥'
इति भर्तृहरिपादाः ।
९ यद्यपि परं ब्रह्म चित्प्रकाश एवाभ्युपगतस्तथा चात्र कथं शब्द-
रूपता, तथात्वे हि तत्प्रकाशतैव न कथंचन सिध्यति इति कैवोक्तिर्वाग्रूपतां

३२ उत्पलदेवकृतवृत्त्योपेता [ आ०-२
स एव चात्मेत्याह--
स¹ एवात्मा सर्वदेहव्यापकत्वेन वर्तते² ।
अन्तःपश्यदवस्थैव चिद्रूपत्वमरूपकम्³ ॥ ३ ॥
या अन्तः पश्यदवस्था⁴ भोक्तृतारूपा ज्ञेयरूपशून्यं चिद्रूपत्वं चैतन्य-
मात्रं स एवात्मा कथ्यते, सर्वदेहव्यापकस्तद्भोगायतनावस्थितो⁵ भोग्यं
भुङ्क्ते ॥ ३ ॥
स एव⁶ परमात्मा सर्वज्ञ इत्याह--
तावद्यावत्परा⁷ काष्ठा यावत्पश्यत्यनन्तकम् ।
अभ्यासप्रकर्षात्तथा काष्ठा⁸ प्राप्ता सा पश्यन्त्येव भवति, यथा
अनन्तं सर्वमेव विश्वं पश्यति येन दर्शनक्रियार्थोऽस्याः पूर्यते ॥ ४ ॥
तदैवाविद्योपशमात् परमार्थोऽसावित्याह⁹--
अक्षादिवृत्तिभिर्हीनं¹⁰ देशकालादिशून्यकम् ॥ ४ ॥
सर्वतः क्रमसंहारमात्रमाकारवर्जितम्¹¹ ।
ब्रह्मतत्त्वं परा काष्ठा परमार्थस्तदेव¹² सः ॥ ५ ॥
विनेत्यादि । न, चिद्रूपस्य यच्चिद्रूपत्वं तदेव वाग्रूपतेति यतस्तन्मतमित्याह
प्रत्यवमर्शनमेवेति । १ नन्वस्त्वेतादृल्लक्षणं शब्दब्रह्मानाद्यन्तं पूर्णं, तथापि
कस्य बन्धः कस्य मोक्षः, तदर्थमेव व्यवहारप्रवृत्तिरिति तावद्भोक्तारं बन्ध-
मोक्षाधिकारिणमविद्योपरागात् स्वतःस्वच्छं समर्थयति स एवेति । २ भोग्यं
प्रति प्रवर्तते । ३ ज्ञेयेदन्ताविषयम् । ४ भोक्तृरूपत्वेन तस्यावस्थितिस्तेना-
वस्थैव तावज्जीवता सिद्धा । ५ तस्य भोक्तुः । ६ अवस्थाया अवस्थातुर-
व्यतिरिक्तत्वाद्भोग्यरूपावस्थानिवृत्तौ पुनरपि केवलमवस्थातैवावशिष्यत
इत्याह । ७ अत्र परा काष्ठा इत्यावृत्तिपक्षेण योजनीयम् । तथाच यावत्परा
काष्ठा प्राप्ता, तावदेवानन्तकं पश्यन्तीमयमेव सर्वं विश्वं पश्यति ।
यावदित्यवधारणे, ततः परा काष्ठा पश्यन्त्येव भवतीत्यर्थः । ८ भोग्य
प्रवृत्तिरहिता च । ९ अविद्यालक्षणं तदवस्थारूपं भोक्तृतालक्षणं
संसारिणं जीवमुपपाद्य तदनुषङ्गेण च शुद्धमपि परमात्मलक्षणं
सर्वज्ञमुपपाद्य परमूपेय इत्याह परमार्थोऽसावित्यादि । १० सर्वतोऽवच्छेद-
विरहात् । ११ ग्राह्यग्राहकाकारेण, नियतस्वरूपत्वस्यादिना गृहीतत्वाद् ।
१२ एवकारो भिन्नक्रमः स इत्यन्तरं योज्यः ।

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ३३
तदर्थप्रकाशनव्यापार इन्द्रियाद्यालोचनाद्युपायोपयोगो नास्ति
देशकालजात्यवच्छेदश्च१, अत एव सर्वतो देशात् कालाच्च यः क्रमस्तदुप-
पदेशमात्रं ब्रह्मतत्त्वं क्रमस्यैव२ संसाररूपत्वात्, अतश्च सर्वग्राह्यग्राहका-
कारवर्जितं, ततः परतरस्याभावात्३ पराकाष्ठा, प्राप्तं तत् स एव च
परमार्थः पश्यन्तीरूपः ॥ ५ ॥
स एव च पुनरेवं भवतीत्याह--
आस्ते विज्ञानरूपत्वे स शब्दोऽर्थविवक्षया ।
मध्यमा कथ्यते सैव बिन्दुनादमरुत्क्रमात् ॥ ६ ॥
स एव पश्यन्तीरूपः४ शब्दोऽर्थप्रतिपादनेच्छारूपया विवक्षया उप-
लक्षिते मनोविज्ञानरूपत्वे५ आस्ते६। सैव च मध्यमा वाक् कथ्यते क्रमेण७
बिन्दुनादसंज्ञप्राणापानवाय्रूल्लासात् 'प्राणापानान्तरे नित्यमेका८ सर्वस्य
तिष्ठति।' इति ॥ ६ ॥
पुनरप्येवमास्त इत्याह--
संप्राप्ता वक्त्रकुहरं कण्ठादिस्थानभागशः ।
वैखरी कथ्यते सैव बहिर्वासनया क्रमात् ॥ ७ ॥
घटादिरूपैर्व्यावृत्ता गृह्यते चक्षुरादिना ।
१ देशकालादयः शून्याः अत्रेति देशकालादिशून्यकं तेषामपि
तदनतिरिक्तवृत्तिकत्वादत एव वृत्तौ देशकालजात्यवच्छेदश्चेत्युक्तम् ।
२ क्रम एव संसारस्तेन तदात्मत्वेऽपि क्रमाभावत्तच्छून्यत्वम् । ३ अन्य-
स्याधिकस्य । ४ अथेदानीमादौ पारमार्थिकं पश्यन्तीस्वरूपमुक्त्वा, तदनन्तरं
जीवपरमात्मपरस्थितीर्निगमय्य, पुनस्तत्प्रसरक्रमेण व्यावहारिकिं संसार-
स्थितिं प्राह येनायं ग्राह्यग्राहकाडम्बरो विवर्तमान आस्ते इति स एवेत्या-
शङ्कापूर्वकम् । ५ मनोविज्ञानरूपत्व इत्यनेन पश्यन्तीरूपस्य शब्दस्य यैवार्थ-
प्रतिपादनेच्छा विवक्षारूपा, तदेव मनोविज्ञानरूपत्वं, स एव पश्यन्त्याम-
भेदस्थितौ सत्यामपि क्रमोल्लासः, सैवान्तःसंजल्परूपा मध्यमेति सूचितम् ।
६ स्थितिं भजते । ७ तेन प्रागापानवाय्रूल्लास एव क्रमाभास इत्यर्थः ।
८ पश्यन्तीरूपा सुषुम्णा ।
६ 'अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ॥'
३

३४ शिवदृष्टि; आ०-२
अत्रापि बिन्दुनादमरुत्क्रमात् सा पश्यन्ती संप्राप्ता वक्रकुहरमिति
योज्यम्। तदुक्तं—
'प्राणो वर्णानभिव्यज्य वर्णेष्वेव प्रलीयते।' वाक्यप० १।११६
इति। ततो वक्त्रोदरं प्राप्ता कण्ठादिस्थानभागेषु विभक्तककारादिवर्ण -
रूपा वैखरी वर्ण्यते—
'स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा।
वैखरी वाक्प्रयोक्तॄणां प्राणवृत्तिनिबन्धना॥'
इति। परतोऽपि बाह्यार्थवासनया अविद्यारूपया क्रमेण घटपटाद्याकारै-
विवृत्ता सैव वाक् चक्षुरादीनां ग्राह्यभावमापद्यते ॥ ७॥
तथा ते प्राहुरित्याह--
यस्मात्तैरुच्यते सद्भिरेव वस्तुप्रवृत्तये ॥ ८॥
अनादिनिधनं ब्रह्म शब्दतत्त्वं१ यदक्षरम्।
१ शब्दोपग्राह्यतया शब्दोपग्राहितया च शब्दतत्त्वम्, तथाहि सर्व-
प्रत्यय उपजायमानो नानुल्लिखितशब्दक उपजायते, तदुल्लेखविरहिणोऽ-
नासादितप्रकाशस्वभावस्य निर्विषयत्वात्, इदमीदृशमित्यादिपरामर्शः
मुषितवपुषि वेदने वेदनात्मकतैव न भवेत्, अतः शब्दोन्मेषप्रभावप्राप्त-
प्रकाशस्वभावत्वात् सर्वप्रत्ययानां शब्दानुविद्धबोधकत्वमिति सर्वं शब्द-
तत्त्वमिति निश्चयः। ततश्च शब्दतत्त्वमेवार्थभावेन विवर्तते, तथाहि
शब्दाख्यविशेषानुवेधवन्ध्यबोधविशेषाननुभवात् सर्वं निर्विकल्पकं सवि-
कल्पकं वा ज्ञानं शब्दविशिष्टमर्थं भासयति। गौः शुक्लो गच्छति,–इति
जातिगुणक्रियावच्छिन्नविषयावभासिनि प्रत्यये शब्दविशिष्ट एवार्थः परि-
स्फुरतीति। शब्दाख्यविशेषानुरक्तस्य तस्य विशेष्यस्य स्वरूपं पृष्टः शब्द-
मेव दर्शयति। शब्दापरित्यागलब्धप्रकाशस्वरूपयैवानुभूत्यानुभवामीति
सोऽपि विशेष्यः शब्दस्वरूप एवेति। तदेवं शब्द एवार्थोपारूढः प्रतिभा-
तीति व्यवतिष्ठते। इत्थं यदुपारूढः शब्दः प्रकाशते, तस्य पृथक् प्रदर्शयि-
तुमनुभवितुं चाशक्यत्वाच्छब्द एव तथा तथा प्रतिभाति–इति शब्दविवर्त
एवायमर्थो नान्यः कश्चिदिति। अतश्च शब्दब्रह्मेदमेकमविद्योपाधिदर्शित-
विचित्रभेदमविद्योपरमे यथावस्थितस्वरूपं प्रकाशत इति स्थितम्।

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ३५
विवर्ततेऽर्थभावेन १ प्रक्रिया जगतो यतः ॥ ९ ॥
न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ १० ॥
अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा ।
इत्यादिवाक्यरचनैस्तैरेवं प्रतिपादितम् ॥ ११ ॥
यस्मात्तैर्वैयाकरणैः सद्भिः साधुभिर्मुग्धैरेवमुक्तरूपं प्रतिपादितं
पश्यन्ती रूपं शब्दतत्त्वमक्षरमनाद्यन्तं ब्रह्म विश्वार्थभावेन विवर्तते तदसत्य-
रूपमात्मन्युपगच्छति ३, असत्यविभक्तान्यरूपोपग्राहिता विवर्तस्तस्यास्तत्
विवर्तते, यतो विवर्तनात् प्रक्रिया भावभूतभुवनादिविन्यासवैचित्र्यमिति ।
तथा न स घटपटादिप्रत्ययो लोकव्यवहारेऽस्ति, यो वाचकशब्दानुगमवर्जितः
वाग्रूपतां विना न ब्रह्मतत्त्वप्रकाशोऽपि प्रकाशेत, ‘सा हि प्रत्यवमर्शिनी ।’
इति । तथैवं भूते पश्यन्तीरूपे शब्दाख्ये ४ ब्रह्मणि यो निष्णातस्तेन ५ परं ब्रह्माधि-
गतं भवतीति । तथा तच्च पश्यन्तीरूपं ग्राह्यग्राहकविभागक्रमरहितम् ,
१ शब्दब्रह्मैवेदमनाद्यविद्यावासनोपप्लवमानभेदमर्थभावेन विवर्तते,
न तु वाचकादपि विभक्तं वाच्यमपि नाम किंचिदस्ति, काल्पनिक एव
वाच्यवाचकविभागोऽयमविद्यैव विद्योपाय इत्याश्रीयते, वाग्रूपता तु तत्त्वं
सर्वत्र प्रत्यये तदनपायात् ।
२ ‘अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा ।
स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी ॥
केवलं बुद्ध्युपादाना क्रमरूपानुपातिनी ।
प्राणवृत्तिमतिक्रम्य मध्यमा वाक्प्रवर्तते ॥’
इति । ३ अङ्गीकरोति । ४ शब्दाख्ये शब्दस्वरूपे ब्रह्मणि निष्णातोऽभ्यास-
प्रकर्षात्परधारारूढस्तेन परं ब्रह्माधिगतं स्वतोऽवगतं भवति, न शब्दब्रह्म-
परब्रह्मणोर्भेद इत्यर्थः । यथोक्तम् —
‘द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ।
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥’
इति । ५ कृताभ्यासः ।

३६ शिवदृष्टिः [ आ०-२
अविभागा तु पश्यन्ती देशकालक्रमसंहारवती चेति आदिग्रहणात्
प्रावप्रदर्शितमध्यमावैखर्यादिवाक्यरुक्तमिति १ ॥ ११ ॥
तदिदानीं विचार्यत इत्याह--
तद्विचाराय२ राद्धान्तः३ संप्रत्येष विधीयते ।
वैयाकरणोक्तविचारार्थं सिद्धान्तो वक्ष्यमाणो युक्तियुक्तत्वात्४ यः,
स परिनिष्ठां५ प्राप्यते ॥
तथाचेताह--
आदौ६ तावदिन्द्रियत्वे स्थिता वाक्कर्मसंज्ञिते ॥ १२ ॥
तस्यात्मता ब्रह्मता वा वक्तुं शक्या न साधुभिः ।
१ विखरः शरीरस्तत्र वर्तमाना । २ एवं स्वसिद्धान्तस्थापनार्थं
शब्दाद्वैतब्रह्मवादितमुपन्यस्तं, तत्र तु प्रथममेव तदनुपपत्तिः सूचिता
'अथास्माकम्' इत्यादिना । अधुना तत्तादृशमपि न युक्तियुक्तमित्येतदर्थ-
मारम्भः । ३ राद्धान्तः पूर्वप्रसिद्ध एव, न तु स्वबुद्धिकौशलेनापूर्वतया कल्पित
इत्यर्थः । यदि च स सिद्धान्तः स्वयमेव, तर्हि तत्राक्षेप्यत्वनिराकर्तव्या-
योगात्कृतमनेनेत्यत आह विधीयत इति । पूर्वसिद्ध एव वादविप्रति-
पत्त्यासिद्धकल्पः तन्निरसनेन परिस्थाप्यत इत्यर्थः । ४ युक्तियुक्तत्वमेव
सिद्धान्तत्वम् । ५ परिनिष्ठां पर्यन्ततः स्थितिम् । ६ इत्थमत्र संबन्धः--
तस्यात्मनो ब्रह्मणो वा आत्मतात्मनो भावः स्वभावः, तथा ब्रह्मता तत्स्व-
भावो वक्तुं न शक्या । अत्र हेतुरतिस्थूलकर्मेन्द्रियरूपत्वात्तस्याः । तत्र
यद्वाचस्त्रैविध्यं तैरूवतं, तदनुमत्यैकत्वमेव वैखरी रूपमाश्रित्य प्रत्याचष्टे
आदौ तावदित्यादिना । तथा हि एकैव वैखरी वाक् वागिति लोके प्रसिद्धा,
अन्यत्र ह्यन्ययोर्द्वयोरपि निरसनमुक्तम् ।
'अन्तःसङ्कल्पो वर्ण्यते मध्यमा वाक्
सेयं बुद्ध्यात्मा नैष वाचः प्रभेदः ।
बुद्धिर्वाच्यं वा वाचकं वोल्लिखन्ती
रूपं नात्मीयं बोधभावं जहाति ॥'
तथा 'पश्यन्तीति तु निर्विकल्पकमतेर्नामान्तरं कल्पितं
विज्ञानस्य हि न प्रकाशवपुषो वाग्रूपता शाश्वती ।'
इति ।

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ३७
प्रथमं तावद्वाचोयुक्तिरेवैषा¹ विरुद्धा। तथा हि वाक् स्थिता अति-
स्थूलकर्मेन्द्रियत्वे, बुद्धीन्द्रियस्य बोधोपयोगोऽपि भवेत्, तस्य पर्यन्तवर्त्तिन
आत्मनो ब्रह्मतत्त्वस्य वा संबन्धी स्वभावो भवेत्, तस्मात् तैः पूर्ववत्साधु-
भिस्तद्रूपत्वं वक्तुमेव न शक्यम् ॥ १२ ॥
तस्या² अविद्यायां स्थितत्वात् पाणिपादादिव्यावृत्त्या परमार्थत्वं
न युज्यत इत्याह--
इन्द्रियत्वेऽपि सामान्ये पाण्यादेर्ब्रह्मता न किम् ॥ १३ ॥
तत्र चेत्सूक्ष्मकलना³ सर्वत्र कलनाग्रतः।
वाचः सूक्ष्मपश्यन्तीरूपतया ब्रह्मता अस्ति, तेनैषोक्ता इति चेत्, सा
सत्यरूपता सर्वत्र पाण्यादौ⁴ घटादावपि चाग्रे कलयिष्यते ॥ १३ ॥
अथ⁵ वाग्व्यपदेशोऽपि ध्यानावस्थायां हृत्कण्ठतालुभ्रूमध्यादिस्थाना-
न्तराक्रमणात् तस्या उत्कर्षो, न तु पाण्यादेरेवमस्तीत्याह--
अन्तः क्रमो हृदादेश्चेत्प्राणादेः किं न सत्यता ॥ १४ ॥
सर्वस्यान्तःपरामर्शपूर्णतास्ति प्रवर्त्तते।
प्राणापानसमानोदानादेरपि हृद्याद्याक्रमणात्सत्यता स्यात्।
सर्वस्य चार्थस्य प्रवृत्तिकालेऽन्तःपरामर्शोऽस्ति। नहि पश्यन्त्यभिमता-
वस्थायां शब्दस्येव शब्दार्थस्यापि⁶ न परामर्शः केवलमभेदेनेति सर्वं
तथा स्यात् ॥ १४ ॥
अथ⁷ वाचः सिद्धिप्रदत्वादिनोत्कर्ष इत्याह--
१ ब्रह्मत्वनिरूपणात्मिका। २ तस्या वाचः। अयमत्र भावः-यदि
वाचः पाण्यादिसामान्यत्वेन वर्तमानाया ब्रह्मता, तदा तन्न किमाधिक्येनान्यत्र
कथं नेति, यदि तद्व्यावृत्त्या विशेषरूपत्वेन, तदपि नेत्याह परमार्थत्वं न
युज्यत इति। ३ ततश्चात्मता ब्रह्मता वा। ४ ततश्चैतदुक्तं भवति-किमिति
तत्रैव ब्रह्मता, न पाण्यादौ, नापि घटादौ। साहि सत्यता सर्वत्रास्तीत्यतः
किमत्रैव हेतुरित्यर्थः। ५ कर्मेन्द्रियसमानत्वेऽपि चास्याः शक्तित्वाद्दीदृक्त्वं,
पाण्यादेस्तदभावान्नेदृक्त्वमित्याशयेनाह। ६ यथा तत्र शब्दस्य परा-
मर्जोऽस्त्येव, न नास्तीति, तथा शब्दार्थ स्थाप्यस्त्येवेत्यर्थः। ७ पुनरपि
कर्मेन्द्रियसाम्यतायामपि वाच एव एवंविधत्वादुत्कर्षः, न पाण्यादेरिति
तथात्वमस्याः, न परस्येत्याशङ्कापूर्वकं प्रत्याचष्टे।

३८ शिवदृष्टिः [ आ०-२
अत्रोपासनया सिद्धिर्देवतायोगितेति चेत् ॥ १५ ॥
योगशास्त्रेषु सर्वेषां देवतासिद्धियोगिता ।
ये वै वाचमुपासते, तेषां तद्विदां सिद्धिरुक्ता, वागीश्वरी चाधि-
ष्ठातृदेवता तत्रास्तीति सा सत्या,--इत्येतदपि न, योगशास्त्रादिषु
अधिष्ठातृदेवताः, करणानां महाभूतानां च धारणावशात् सिद्धयोऽपि ।
ततस्तत्रापि प्रसङ्गः ॥ १५ ॥
ते१नैतन्मन्तव्यमित्याह२--
तस्माद्धिरण्यगर्भादियोगसांख्येतिहासताम् ॥ १६ ॥
विहाय शास्त्ररचना३ जातुचिन्न विराजते ।
पाण्यादीन्द्रियवन्नैतद्ब्रह्म वागिन्द्रियं भवेत् ॥ १७ ॥
तस्माद्ब्रह्मादिप्रणीतयोगशास्त्रसांख्यानामितिहासरूपं, तदुक्त-
मर्थं प्रपञ्चयत् शास्त्रं४ कार्यं, तदितिहासात्मतां विहाय स्वमनी-
षिकया शास्त्ररचना न शोभते । एवं च५ यथा पाण्यादीन्द्रियमनादि-
शास्त्रसिद्धत्वान्न ब्रह्मरूपेण युक्तं विरच्यते६, अपितु तदनुसारेणैव, तथा
वागपि७ ॥ १७ ॥
सांख्यादेरपि८ कथमनादित्वमित्याह--
अथोच्यते प्रक्रियासौ सांख्यादिरचिता न सा ।
तत्त्वोन्मेषप्रसरणे भवेत्संबन्धभागिनी ॥ १८ ॥
१ सत्यतापत्तिः । २ यतो भवन्मते तिलशोऽपि युक्तिसाधिते न
कथंचनोपपत्तिरुपलभ्यते, तस्माद्भवद्भिरेतदस्मत्कथनमादर्तव्यमित्यर्थः ।
३ नवप्रपञ्चरूपा । ४ तेन तस्यैव तदुक्तस्य विविच्य सविस्तरं कथनं
शास्त्रमित्यर्थः । ५ ततोऽपि किमित्याह एवं चेति । ६ नवीनैस्तस्येन्द्रियत्वेन
कथितत्वात् । ७ वागपि ब्रह्मरूपतया न विरचनीयेत्यर्थः । ८ ननु चास्तु
ब्रह्मप्रणीतत्वाद् वेदस्य प्रामाण्यं, तत्र च वाग्ब्रह्मेत्यपि कथितं ततश्च कथमत्र
विरोधः, सांख्यादेः पुनः कपिलादिप्रणीतत्वादस्मदीयशास्त्रवदादिमत्त्वमेव,
कथं तदुक्तं प्रामाण्यं भजेत्, तत्र हि सर्वत्र वाच इन्द्रियत्वमेव समर्थित-
मित्याशङ्कां गर्भीकृत्याह सांख्यादेरपीति ।