शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 54, कुल 280 में से
संदर्भ में पढ़ेंउत्तमदशतालम्] पञ्चमोऽध्यायः । ३५
हिक्कासूत्राद्धृदयान्तं हृदयान्नाभिसीमकम् ।
नाभेस्तु मेढ्रमूलान्तं विश्वांशत्रियवैः पृथक् ॥ ५ ॥
मेढ्रमूलगतं तिर्यक्सूत्रं मध्याभिधं स्मृतम् ।
मध्यसूत्रादूरुदीर्घं सप्तविंशांशकैः स्मृतम् ॥ ६ ॥
तस्माद् वेदाङ्गुलं जानुतुङ्गं जङ्घोरुमानवत् ।
तस्मात् पादतलोत्सेधं युगांशं परिकीर्तितम् ॥ ७ ॥
अङ्गुष्ठाग्रात्तु पार्ष्ण्यान्तं तलं सप्तदशाङ्गुलम् ।
हिक्कासूत्रादधो बाहुदीर्घमृक्षाङ्गुलं तथा ॥ ८ ॥
कोर्परायाममर्व्यंशमेकविंशांशकं ततः ।
प्रकोष्ठस्यायतं तस्मात् सार्धत्रयोदशांशकम् ॥ ९ ॥
मध्याङ्गुलाग्रपर्यन्ततलायामं करस्य तु ।
सार्धभान्वङ्गुलं तारं मुखे तस्यान्तविस्तृतिः ॥ १० ॥
सार्धत्रयोदशैरंशैर्ग्रीवाग्रे सार्धनन्दकैः ।
ग्रीवामूले दशांशैस्तु विस्तारं परिकल्पयेत् ॥ ११ ॥
हिक्काधो बाहुसीमान्तं चत्वारिंशांशमेव हि ।
सार्धद्वाविंशदंशं तु कक्षयोरन्तरं तथा ॥ १२ ॥
नवांशं चतुर्यवोपेतं बाहुमूलविशालकम् ।
एकविंशतिभागं तु स्तनदेशे तु विस्तृतिः ॥ १३ ॥
हृदयावधिविस्तारमेकोनविंशदङ्गुलम् ।
कलांशं चतुर्यवोपेतं मध्यव्यासमुदाहृतम् ॥ १४ ॥
एकोनविंशदंशं तु श्रोणीदेशविशालकम् ।
तत्र मेढ्रविशालं तु द्वियवाधिकमङ्गुलम् ॥ १५ ॥