सामग्री पर जाएँ
सर्वकोश
शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

पृष्ठ 257, कुल 280 में से

संदर्भ में पढ़ें
पृष्ठ 257

यत्र षोडशकं जातं घनसंज्ञकमङ्गुलम् ।
आढकोऽयं समाख्यातः सर्वधान्यादिमापने ॥ १०० ॥
चतुःषष्टियुतं यस्मिन् घनमष्टशताङ्गुलम् ।
द्रोणोऽयमयुतादूर्ध्वं त्रिसाहस्रघनाङ्गुलम् ॥ १०१ ॥
शतानामष्टकयुतं चतुर्विंशत्समन्वितम् ।
खारीति विदिता तज्ज्ञैः सर्वे वै दारुलोहजाः ॥ १०२
यथा तेषां बहिर्भागे शुभायादिसमुद्भवः ।
तथा भित्तेर्घनं कुर्यात् सङ्क्रमीथं च लोहजम् ॥ १०३
ऊर्ध्वभागे तु तन्मध्ये तदाधाराय लोहजम् ।
पादं च पत्रचित्राढ्यं भित्तिबाह्ये सशृङ्खलम् ॥ १०४
दण्डं सुवर्तुलं लौहं कार्यं धान्यापसारकम् ।
तुर्यश्रे व्यासगुणितमायामगतमात्रकम् ॥ १०५ ॥
तद्धाताङ्गुलनिघ्नं यत् तत् दन्तर्घनाङ्गुलम् ।
वृत्ते व्यासार्धगुणितं नाहार्धं घातताडितम् ॥ १०६ ॥
अथोलूखलादि—
हस्तमात्रसमुत्सेधं वर्तुलं लघुमध्यमम् ।
आयामार्धे त्रिपादं वा तारं तत्र्यंशमानतः ॥ १०७ ॥
गर्तस्य घातं तारं च शैलं वा वार्क्षमेव वा ।
उलूखलाङ्घ्रिभित्येवं कारयेत् सुदृढं यथा ॥ १०८ ॥
सारदारुकृतान्येव मुसलानि भवन्ति हि ।
पञ्चाङ्गुलोनद्विकराद्यायतानि दृढानि च ॥ १०९ ॥