शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 84, कुल 699 में से
संदर्भ में पढ़ें६६ शतपथ ब्राह्मण
द्वेव॒ भवति पापीयान्वा यस्यै॒वं विदुष एता अन्वाहु॒ः सोऽर॒णा मीमा॒ꣳसैवै न
त्वे॒वैता अनूच्य॑न्ते ॥ १२॥ त्रिरे॒व प्रथ॒मां त्रिरुत्तमाममवानन्ननुब्रूयात् । त्रयो वा
ऽइ॒मे लोका॒स्तदिमाने॒वैतल्लो॒कांत्संतनोतीमांल्लो॒कांत्स्पृणुते त्रय इमे पुरुषे प्राणा
ए॒तने॒वास्मिन्ने॒तत्संततमव्यवच्छिन्नं दधात्ये॒तदनुवचन॑म् ॥ १३॥ स यावदस्य वर्चः
स्यात् । ए॒वमे॒वानुविवञ्चेत्तस्यैतस्य परिचक्षाेत साम्यवान्यादनवानन्ननुविवञ्चेस्त-
त्कर्म विवृञ्चेत सा परिचक्षा ॥ १४॥ स यच्चेत्तन्नोदाश॒ꣳसित । अथै॒कैकामिवान-
वानन्ननुब्रूयात्तदे॒कैकयैवेमांल्लो॒कांत्संतनोत्ये॒कैकयेमांल्लो॒कांत्स्पृणुते॒ऽथ यत्प्राणं द-
धाति गायत्री वै प्राणः स यत्कृत्स्नां गायत्रीमन्वाह॒ तत्कृत्स्नं प्राणं दधाति तस्मा-
दे॒कैकमेवानवानन्ननुब्रूयात् ॥ १५॥ ता वै संतत॒मव्यवच्छिन्ना अन्वाह । संव-
त्स॒रस्यैवैतदहोरात्राणि संतनोति तानीमानि संवत्सरस्याहोरात्राणि संततान्यव्य-
वच्छिन्नानि परिलुवन्ते द्विषन्तं॒ड चैवैतद्भातृव्याय नोपस्थानं करोत्युपस्थानं ह
कुर्याद्यद्संतता अनुब्रूयात्तस्माद्वि संतता अव्यवच्छिन्ना अन्वाह ॥ १६॥ ब्राह्मणम्
॥२[५.]॥ अध्यायः ॥३॥ ॥
हिंकृत्यान्वाह । नासामा य॒ज्ञोऽस्तीति वाऽआहुर्म वाऽअहिंकृत्य साम गी-
यते म य॒द्धिंकरोति तद्धिंकार॒स्य रूपं क्रियते प्रणवे॑नैव साम्नो रूपमुपगहृत्यो३म्
ओ३मित्येतेनो हास्यैष सर्व एव ससामा य॒ज्ञो भवति ॥ १॥ यद्वेव हिंकरोति ।
प्राणो वै हिंकार॒ः प्राणो हि वै हिंकारस्तस्मादपिगृह्य नासिके न हिंकर्तुꣳ श-
क्नोति वाचा वाऽऋचमन्वाह वाक्क वै प्राणश्च मिथुनं तदे॒तत्पुरस्तान्मिथुनं प्रज-
ननं क्रियते सामिधेनीनां तस्मा॒द्धि हिंकृत्यान्वाह ॥ २॥ स वाऽउपाꣳशु हिंकरो-
ति । अथ यदुच्चैर्हिंकुर्यादन्यतर॒द्वि कुर्याद्वाचमेव तस्मादुपाꣳशु हिंकरोति ॥ ३॥
स वाऽर्ऋति च प्रेति चान्वा॒ह । गायत्रीमेवैतदर्वाचीं च पराचीं च युनक्ति परा-
च्यह देवेभ्यो यज्ञं वह॒त्यर्वाची मनु॒ष्यानवति तस्माद्वाऽर्ऋति च प्रेति चान्वा॒ह