सामग्री पर जाएँ
सर्वकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 684, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 684

६६६ शतपथ ब्राह्मण
य॒जुषा दि॒वमेव साम्ना॒ तस्माद्य॒स्यैका वि॒द्यानूक्ता स्याद॒न्वेवापीतरयोर्नि॒र्मितं वि-
वन्दे॒तेममे॒व लोक॒मृचा ज॒यत्य॒न्तरि॑क्षं यजु॑षा दि॒वमेव साम्ना ॥२॥ तद्वाऽए॒तत् ।
सहस्रं वाचः प्रजातं हेऽइन्द्रस्तृतीये तृतीयं वि॒सृ॑क्षद्यच्च सामानि चेन्द्रो यजूꣳषि
वि॒सृज॒स्तस्मात्स॒दस्यृक्सामान्यां कुर्वन्त्ये॒न्द्धꣳ हि सदः ॥३॥ अथैतं वि॒ष्णुं य॒ज्ञम् ।
ए॒तैर्युजु॑र्भिः पु॒रस्ता॑देव विश॑ति तस्मात्पुरश्चरणं नाम ॥४॥ वागेवर्क्सामानि
च । मन एव य॒जूंषि सा य॒त्रेयं वागासीत्स॒र्वमेव तत्रा॑क्रिय॒त सर्वं प्राज्ञा॑य॒ताथ
यत्र॒ मन॒ आसीत्तत्र॒ किं च॒नाक्रि॑यत न प्राज्ञा॑यत नो॒ हि मन॑सा ध्याय॒तः
कश्च॒नाजा॑नाति ॥५॥ ते देवा वाचमब्रुवन् । प्राची प्रेहीदं प्रज्ञा॑पयेति सा॒ हो-
वाच किं मे ततः स्यादिति यत्किं चावषट्कृतꣳ स्वाहाकारेण यज्ञे हूयते तत
ऽइति तस्माद्यत्किं चावषट्कृतꣳ स्वाहाकारेण यज्ञे हूयते तद्वाचः सा प्राची
प्रैत्सैतत्प्राज्ञ॑पयदि॒तीदं कुरुते॒तीदं कुरुतेति॑ ॥६॥ तस्माडु कुर्वन्त्येवर्क्स ह॒विर्धाने
। प्रातरनुवाकमन्वाह समिधिनोरन्वाह ग्राव्णोऽभिष्टौत्येवꣳ हि समु॒त्राभव-
ताम् ॥७॥ तस्माडु कुर्वन्त्येव सदसि । य॒ज्ञुपैौडुम्बरीमुद्द्ब्रयन्ति सदः संमिन्वन्ति
धिष्ण्यान्युपकिरन्त्येवꣳ हि स॒युजावभवताम् ॥८॥ तद्वाऽए॒तत्सदः॒ परि॑श्रयन्ति । ए-
तस्मै मिथुनाय ति॒र्-इवेदं मिथुनं चर्याताऽइ॒ति व्यू॑ढं वाऽए॒तन्मिथुनं यद॒न्यः पु-
श्यति तस्माद्य॒द्यपि जायापती मिथुनं चर॒न्तौ पश्य॑न्ति व्येव द्रव्त आग एव कु-
र्व्वाते तस्माद्वारेण सदः प्रेक्ष॑माणं ब्रूयान्मा प्रेक्षथा इति यथा ह मिथुनं चर्य्यमा-
णं पश्येदेवं तत्कामं द्वारेण देवकृतꣳ हि द्वारम् ॥९॥ एव॒मैवैतद्धविर्धानं परि॑श्र-
यन्ति । एतस्मै मिथुनाय ति॒र्-इवेदं मिथुनं चर्याताऽइ॒ति व्यू॑ढं वाऽए॒तन्मिथुनं
यदन्यः पश्यति तस्माद्य॒द्यपि जायापती मिथुनं चर॒न्तौ पश्य॑न्ति व्येव द्रव्त आग
एव कुर्व्वाते तस्माद्वारेण हविर्धानं प्रेक्ष॑माणं ब्रूयान्मा प्रेक्षथा इति यथा ह मि-
थुनं चर्य्यमाणं पश्येदेवं तत्कामं द्वारेण देवकृतꣳ हि द्वारम् ॥१०॥ तद्वाऽए॒तहु-