शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 54, कुल 699 में से
संदर्भ में पढ़ें३६ शतपथ ब्राह्मण
य॒ज॒माना॒यारा॑ती॒यति॒ , यश्चै॑नं द्वेष्टि॒ तमे॒वैते॑दि॒भिश्च लो॒कैर॑भि॒निद॑धाति॒ षडु चेमां-
ल्लो॒कान॒ति चतु॑र्थमस्या एव सर्व॒ꣳ हर॒त्यस्या॒ꣳ हीमे सर्वे॑ लो॒काः प्र॒तिष्ठि॑ताः
किं हि क॒रन्न॒न्तरिक्ष॒ꣳ हरा॑मि दि॒वꣳ हरा॒मीति॒ हरे॑त्त॒स्माद॒स्या एव सर्व॒ꣳ हर-
ति ॥ १४ ॥ अथ तृण॒मन्त॑र्धाय॒ प्रहर॑ति । नेद॒नेन व॒ज्रेण सꣳशि॑तेन पृथि॒वीꣳ हि-
न्सा॒नीति॒ तस्मा॒त्तृण॒मन्त॑र्धाय॒ प्रहर॑ति ॥ १५ ॥ स प्रहर॑ति । पृथि॒वि दे॒वय॒जन्यो-
षध्यास्ते मूलं॒ मा हिꣳसिष॒मित्युत्त॑रूला॒मिव॒ वाऽए॒नामे॒तत्करोत्यादृढानस्तामेत-
दाहाैषधीनां ते मूला॑नि॒ मा हि॑ꣳसिष॒मिति व्र॒जं ग॑छ गो॒ष्ठान॒मित्य॑भि॒निधा॒स्यन्ने॒-
वैतद॒नप॑क्रमि कुरुते तद्य॒नप॑क्रमि॒ यद्ब्र॒जेऽन्त॒स्तस्मा॑दाह॒ व्र॒जं ग॑छ गो॒ष्ठान॒मिति
वर्ष॑तु ते॒ द्यौरिति॒ यत्र वाऽअ॒स्यै खनन्तः क्रू॒रीकुर्वन्त्य॒पघ्न॑न्ति॒ शान्ति॒राप॒स्तद॒द्भिः
शा॒न्त्या श॑मयति॒ तद॒द्भिः॒ संद॑धाति॒ तस्मा॑दाह॒ वर्ष॑तु ते॒ द्यौरिति॑ बधा॒न दे॒व सवि-
तः पर॒मस्यां॑ पृथि॒व्यामि॑ति दे॒वमे॒वैतत्सवितार॒माहा॒न्धे तम॑सि बधा॒नेति यदा॒ह
पर॒मस्यां॑ पृथि॒व्यामि॑ति श॒तेन॒ पाशै॑रित्य॒मृचे तदा॒ह॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि-
ष्मस्तमतो॒ मा मौ॑गिति॒ यदि॑ ना॒भिचरे॑द्य॒द्युऽअ॑भि॒चरे॒दमूमतो मा मौ॑गिति ब्रू-
यात् ॥ १६ ॥ अथ द्वि॒तीयं॒ प्रहर॑ति । अ॒पारुरुं॒ पृथि॒व्यै दे॒वयज॑नाद॒ध्यास॒मित्य॑र॒रुर्ह॒
वै नामा॑सु॒ररक्ष॑स॒मास॒ तं दे॒वा अ॒स्या अ॒पाघ्न॑त तथो॒ऽए॒वैनमेतद्द्वेष्यो॒ऽस्या अ॒पह॑ते
व्र॒जं ग॑छ गो॒ष्ठानं॒ वर्ष॑तु ते॒ द्यौर्बधा॑न॒ देव सवितः पर॒मस्यां॑ पृथि॒व्याꣳ श॒तेन पा॒-
शैर्योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा मौ॑गिति ॥ १७ ॥ तम॒ग्नीद॑भि॒निद॑धा-
ति । अर॑रो दि॒वं मा प॑प्त॒ इति॒ यत्र॒ वै दे॒वा अर॑रुमसु॒ररक्ष॑सम॒पाघ्न॑त स दि॒वम-
पिय॑तिषत्त॒मग्नि॑रभि॒न्यद॑धादर॑रो दि॒वं मा प॑प्त॒ इति॒ स न दि॒वम॑पत्तथो॒ऽए॒वैनमेत॒-
दध्व॒र्युुरे॒वास्मा॒ल्लोका॒दन्त॑रेति दि॒वोऽध्य॒ग्नीत्तस्मा॑देवं क॑रोति ॥ १८ ॥ अथ तृती॑यं प्र॒-
हर॑ति । द्र॒प्सस्ते॒ द्यां मा स्क॒न्नित्ययं वाऽअ॒स्यै द्र॒प्सो यमस्या इ॒मꣳ रस॒ प्रजा उप॑-
जी॒वन्त्येष ते॒ दिवं॒ मा प॒प्तद्वित्ये॒वैतदाह व्र॒जं गछ गो०--मौगिति ॥ १९ ॥ स वै त्रिर्य॑जुषा
हर॑ति । त्रयो वाऽइ॒मे लोका ए॒भिरे॒वैनमेतल्लोकैर॑भि॒निद॑धात्यद्धा वै तद्यदिमे