शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 242, कुल 699 में से
संदर्भ में पढ़ेंन्त्वित्येव॑ प्रयाजानाꣳ रू॒पं व॒सुव॑ने वसुधेयस्येत्य॑नुयाजा॒नाम् ॥ २७ ॥ तस्य॒ हिर॑ण्यं
दक्षि॑णा । आ॒ग्ने॒यो वाऽए॒ष य॒ज्ञो भव॑त्य॒ग्ने रेतो॒ हिर॑ण्यं॒ तस्मा॑द्धिर॒ण्यं दक्षि॑णान्व-
॒डन्वा स हि वृ॒द्धेनाग्ने॒योऽग्नि॒र्ह्यमिव॑ ह्यस्य व॒ह् भ॑वति दे॒वानाꣳ हव्यवा॒हनो
ऽग्नि॒रिति॒ वह्वति वाऽए॒ष म॑नु॒ष्येभ्य॒स्तस्मा॑दन्व॒ङ्गान्दक्षि॑णा ॥ २८ ॥ ब्राह्म॒णम् ॥ १
[२.३.] ॥ ॥
प्रजाप॑तिर्ह॒ वाऽइ॒दमग्र॑ऽएक॑ ए॒वास॑ । स ऐक्षत क॒थं नु प्र॒जाये॒येति॒ सोऽश्रा-
म्यत्स तपो॑ऽतप्यत॒ सो॒ऽग्निमे॒व मु॒खाज्जन॑यां चक्रे तद्यदे॒नं मु॒खादज॑नयत॒ तस्मा॑द-
न्ना॒दोऽग्निः स यो हॆव॑मेत॒मग्निम॒न्नादं॑ वे॒दान्ना॑दो हैव भ॑वति ॥ १ ॥ तद्वाऽए॒भ्येत॒
द्ये दे॒वाना॒मज॑नयत । तस्मा॑दग्नि॒रग्रि॒र्ह वै नामैतद्यद॒ग्निरिति॒ स जा॒तः पूर्व्व॑: प्रे-
याय॒ यो वै पूर्व्व ए॒त्यग्र॒ऽएतीति॒ वै तमा॑हुः सो॒ऽस्याग्निता ॥ २ ॥ स ऐक्षत
प्र॒जाप॑तिः । अ॒न्नादं॒ वाऽइ॒ममा॒त्मनो॒ऽजीज॑ने॒ यदि॒मं न वाऽइ॒ह म॒दन्य॒दन्न॑मस्ति॒ यं
वाऽअ॒यं नाद्यादिति॑ काल्वालीकृ॒ता हैव त॒र्हि पृ॑थि॒व्या॑स॒ नौष॑धय आ॒सुर्न वन॒-
स्प॒तय॒स्तदे॑वास्य॒ मन॒स्या॑स ॥ ३ ॥ अथैनम॒ग्निव्या॑त्तेनोप॒पर्य्या॑ववर्त्त । तस्य॒ भीत॒स्य
स्वो म॑हि॒माप॑चक्राम वाग्वाऽअ॒स्य स्वो म॑हि॒मा वाग॑स्यापचक्राम॒ स आ॒त्मन्ने॒वा-
ऽहुतीमीषे॒ स उ॑द॒मृष्ट॒ तद्यदु॑द॒मृष्ट॒ तस्मा॑दि॒दं चा॑लोम॒कमि॒दं च॒ तत्र॑ विवेद घृ॒ता-
हुतिं वैव॒ पय॑आहुतिं॒ वोभयꣳ॑ ह॒ वेव॒ तत्पय॑ ए॒व ॥ ४ ॥ सा हैनं॑ नाभि॒राध्यां॑
चकार । केशमिश्रेव ह्वास॒ तां व्यौक्ष॒द्दोष॒ धयेति॒ तत॒ ओष॑धयः॒ सम्भ॑वं॒स्तस्मा॑दो-
षधयो॒ नाम॒ स द्वि॒तीय॒मुद॑मृष्ट॒ तत्राप॑रामा॒हुतिं॑ विवेद घृ॒ताहु॑तिं चै॒व पय॑आहुतिं॒
वोभयꣳ॑ ह॒ वेव तत्पय॑ ए॒व ॥ ५ ॥ सा हैनम॒भिराध्वां॑ चकार । स व्य॑चिकित्स-
ज्जुहुवानी३ मा हौ॒षामी॒३ति तꣳ स्वो म॑हि॒माभ्यु॑वाद जु॒हुधीति॒ स प्र॒जाप॑तिर्विदां॑
चकार॒ स्वो वै मा म॑हि॒माहेति॒ स स्वाहेत्ये॒वाजु॑हो॒त्तस्मा॑दु॒ स्वाहे॒त्येव हू॒यते॒ तत॒
एष उद॑ियाय॒ य ए॒ष तप॑ति॒ ततोऽयं प्रब॑भूव॒ योऽयं प॑वते॒ तत॒ ए॒वाग्निः परा॑ङ्