शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 196, कुल 699 में से
संदर्भ में पढ़ें१७८ शतपथ ब्राह्मण
षामहे॒ शंयुर्बार्हस्प॒त्योऽवे॒दित्ये॒वैत॒दाह॑ ॥ २६॥ गा॒तुं य॒ज्ञाय॑ गा॒तुं य॒ज्ञप॑तय
ऽइति॑ । गा॒तुꣳ ह्येष य॒ज्ञाये॒कृति गा॒तुं य॒ज्ञपत॑ये यो य॒ज्ञस्य॒ सꣳस्थां दैवी॑ स्व॒स्ति-
र॑स्तु नः स्व॒स्तिर्मानु॑षेभ्य॒ इति॑ स्व॒स्ति नो॑ दे॒वत्रा॑स्तु स्व॒स्ति म॑नु॒ष्ये॒त्रेत्ये॒वैत॒दा-
होर्ध्वं जिगातु भेष॒जमित्यूर्ध्वं नोऽय॑ य॒ज्ञो दे॑वलो॒कं ज॑यत्वित्ये॒वैत॒दाह॑ ॥ २७॥ शं
नो॒ऽअस्तु द्वि॒पदे॒ शं चतु॑ष्पद॒ऽइति॑ । ए॒ताव॒द्धाऽइ॒दꣳ सर्वं याव॒द्द्द्विपा॒च्चैव चतु॑ष्पा-
च्च॒ तस्मा॒द्द्वैवैत॒द्यज्ञ॑स्य सꣳस्थां ग॒त्वा शं क॑रोति॒ तस्मा॑दाह॒ शं नो॒ऽअस्तु॑ द्वि॒पदे॒
शं चतु॑ष्पद॒ऽइति॑ ॥ २८॥ अथानवेत्युप॑स्पृशति । अ॒मानुष॒ऽइव॒ वाऽए॒तद्भवति य-
द्बर्हिष्ये॑ प्रवृ॒त इ॒यं वै पृ॑थि॒वी प्र॑ति॒ष्ठा तद॒स्यामे॒वैतत्प्रति॑ष्ठायां प्रति॑तिष्ठति तड्
खलु॒ पुन॑र्मानु॒षो भ॑वति॒ तस्मा॑दनवे॒त्युप॑स्पृशति ॥ २९॥ ब्राह्मणम् ॥ २ [१.१.] ॥ ॥
ते वै पत्नीः संयाजयिष्यन्तः प्रतिपरायन्ति । जुहूं च स्रुवं चाध्वर्युरादत्ते वेदꣳ
होताज्यविलापनीमग्नीत् ॥ १॥ तद्धैकेषामध्वर्युः । पूर्वेणाहवनीयं पर्येति तड् त-
था न कुर्याद्बर्हिर्द्धा ह यज्ञात्स्याद्यत्तेनेयात् ॥ २॥ जघनेनो हेव पत्नीम् । एकेषाम-
ध्वर्यु॒रेति॒ नोऽए॒व तथा॑ कुर्यात्पूर्वार्द्धो वै य॒ज्ञस्या॑ध्व॒र्युर्जघनार्द्धः पत्नी॒ यथा॒ भसत्त॑ः
शिरः प्रतिदध्यादेवं तद्बर्हिर्द्धा हेव यज्ञात्स्याद्यत्तेनेयात् ॥ ३॥ अन्तरेणो हेव प-
त्नीम् । एकेषामध्वर्यु॒रेति॒ नोऽए॒व तथा॑ कुर्यादुत्तरार्द्धो य॒ज्ञात्पत्नी॒ यत्तेनेयात्तस्मा-
ड् पूर्वेणैव गार्हपत्यमन्तरेणाहवनीयं चेति तथा ह न बर्हिर्द्धा यज्ञाद्भवति यथो
ऽह॒वाऽदः प्रचरन्नन्तरेण संचरति स ऽउऽए॒वास्यैष सं॑चरो भवति ॥ ४॥ अथ पत्नीः
सं॒याजय॑न्ति । य॒ज्ञाद्वै प्रजाः प्र॒जाय॑न्ते य॒ज्ञात्प्र॒जाय॑माना मि॒थुनात्प्र॒जाय॑न्ते मि॒थुनात्प्र॒-
जाय॑माना ऋ॒ततो॑ य॒ज्ञस्य॑ प्र॒जाय॑न्ते तद्येना ए॒तदृत॑तो य॒ज्ञस्य॑ मि॒थुनात्प्र॒जन॑नात्प्र॒-
जनय॑ति॒ तस्मान्मिथुनात्प्रजननादृततो॑ य॒ज्ञस्ये॒माः प्र॒जाः प्र॒जाय॑न्ते॒ तस्मा॒त्पत्नीः सं-
या॒जय॑न्ति ॥ ५॥ चतस्रो दे॒वता॑ यजति । च॒तस्रो॒ वै मिथु॒नं द्वन्द्वं॒ वै मिथु॒नं द्वे-द्वे॒
हि खलु॑ भवतो मिथु॒नमे॒वैतत्प्र॒जन॑नं क्रियते॒ तस्मा॑च्चतस्रो दे॒वता॑ यजति ॥ ६॥