सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 79, कुल 837 में से
संदर्भ में पढ़ें२० सात्वतसंहिता
सहकार्यानपेक्षा मे सर्वकार्यविधौ हि या ॥
तेजः षष्ठं गुणं प्राहुस्तमिमं तत्त्ववेदिनः ।
पराभिभवसामर्थ्यं तेजः केचित् प्रचक्षते ॥
ऐश्वर्ये योजयन्त्येके तत्तेजस्तत्त्वकोविदाः ।
इति पञ्च गुणा एते ज्ञानस्य स्रुतयो मताः ॥(२।२६-३५) इति
अथ मन्त्रार्थ उच्यते—अत्रादौ प्रणवेन तन्नादान्तगगनस्थितः परवासुदेवो विवक्ष-
णीयः, इदानीं तस्य प्रकृतत्वात् । तथा च लक्ष्मीतन्त्रे—
ओमित्येतत् समुत्पन्नं प्रथमं बिन्दुतारकम् ।
बिन्दुना भूषयेत् पश्चान्नादेन तदनन्तरम् ॥
ध्यायेत् सन्ततिनादान्तां तैलधारात्मवाक्यताम्।
एतत्तद् वैष्णवं रूपं त्र्यक्षरं ब्रह्म शाश्वतम् ॥
अनिरुद्धस्त्वकारोऽत्र प्रद्युम्नः पञ्चमः स्वरः ।
सङ्कर्षणो मकारस्तु वासुदेवस्तु पञ्चकः ॥
चतुर्णामविभागं तु नादरूपं सुरेश्वर ।
नादस्य या परा काष्ठा साऽहन्ता परमेश्वरी ॥
शक्तिः सा परमा रूपा नादान्तगगनाह्वया ।
शब्दब्रह्ममयी सूक्ष्मा साहं सर्वविगाहिनी ॥
विरामे सति नादस्य यः स्पष्टीभवति ध्रुवम् ।
ज्योतिस्तत् परमं ब्रह्मलक्ष्मीनारायणात्मकम् ॥
एतत्ते वैष्णवं धाम कथितं पौरुषं परम् ।(२४।६-१२) इति
शान्तोदितविज्ञानप्राणाय शान्तोदितं सूक्ष्मरूपम्, स्वात्ममात्रानुभवदशाविशिष्ट-
मिति यावत् । यतः शान्तोदिता नित्योदिता चेति दशाद्वयमीश्वरस्य प्रसिद्धम् । तत्र
शान्तोदितावस्था नाम स्वात्ममात्रानुभवदशा, नित्योदितावस्था तु स्वभूत्यनुभवदशा ।
तथा च श्रीगुणरत्नकोशव्याख्याने—
‘तैस्तैः कान्तेन शान्तोदितगुणविभवैः’ (२५श्लो०)
इत्यत्र दशाद्वयं व्याख्यातम् । गर्गकुलीनरामानुजीये श्रीरङ्गराजस्तवव्याख्याने तु-
‘प्रथन्ते सोऽनन्तः स्ववशघनशान्तोदितदशः’ (उ० ३७ श्लो०)
इत्यत्र स्वभूतिस्वगुणानुभवदशा शान्तोदितदशा, स्वरूपानुभवदशा नित्यो-
दितदशेति व्युत्क्रमेणोक्तम् । तत्प्रामादिकम् । यतस्तत्कर्तृक एव वरदराजस्तव-
व्याख्याने—
‘प्रशान्तानन्तात्मानुभवजमहानन्दमहिम
प्रसक्तस्तैमित्यानुकृतवितरङ्गार्णवदशम्’ । (१३ श्लो०)
इत्यत्र शान्तोदितदशा नाम स्वात्ममात्रानुभवदशा, इतरा नित्योदितदशेति यथा-
क्रमं व्याख्यातम् । विज्ञानं तुर्यव्यूहमित्यर्थः । ‘विज्ञानं यज्ञं तनुते’ (तै०उ० २।५)
इत्यत्र यथा विज्ञानशब्दस्य धर्मिवाचकत्वम्, तद्वदिहापि भगवद्वाचकत्वं बोध्यम् ।