सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 76, कुल 837 में से
संदर्भ में पढ़ेंद्वितीयः परिच्छेदः १७
ततः समुद्धरेन्मन्त्रं परमात्मनि वाचकम् ॥ २२ ॥
वर्णचक्रार्चनपूर्वकं मन्त्रमुद्धरेदित्याह—आमध्यादिति द्वाभ्याम् । चक्रराट् =
वर्णचक्रमित्यर्थः । विभक्तिविनिमयच्छान्दसः । तथा चात्रैवं प्रयोगः—प्रशस्ते विजने
गुप्ते गन्धलिप्तेऽर्घ्यपुष्पाढ्ये सुधूपिते धरातले द्वादशारं चक्रं विलिख्य तन्मध्येऽक्षस्थाने
प्रणवं, नाभौ अकारादिविसर्गान्तान् षोडशस्वरान्, द्वादशारेषु प्रत्यरं वर्णयुग्मक्रमेण
ककारादिभकारान्तानि चतुर्विंशतिवर्णानि, नेमिभागे मकारादिहकारान्तवर्णनवकम्,
प्रधिगणे क्षकारं च विलिख्य आमध्यात् प्रधिपर्यन्तं वर्णपरम्पराम् ॐ ओं नमः, ॐ अं
नम इत्यादिक्रमेणोच्चार्यार्घ्यादिभिरभ्यर्च्य मन्त्रमुद्धरेत् ॥ २२-२२ ॥
‘अ’ से लेकर विसर्गान्त १६ स्वर वर्ण ह्रस्व एवं दीर्घ के विभाग से
(अकारादि ८ ह्रस्व वर्ण सौर रूप से तथा आकारादि ८ दीर्घ वर्ण चान्द्र रूप से)
नाभि में स्थित हैं। ‘क’ से लेकर ‘भ’ पर्यन्त २४ वर्ण दो-दो के क्रम से १२
‘अरा’ पर स्थित हैं। इन्हें ‘प्राकृत तत्त्व सञ्चय’ कहा जाता है ॥ १७-१८ ॥
नेमि भाग में कलनात्मक देह धारण किये स्वयं काल मकार से हकार पर्यन्त
९ वर्ण का रूप धारण किये हुये स्थित हैं । प्रधिगण में क्षकार लिखे । यह
वर्णात्मक कालवैश्वानर साक्षात् करोड़ों मार्तण्ड के समान देदीप्यमान हैं और हजारों
ज्वालाओं से परिवेष्टित वर्णात्मा भगवान् स्थित हैं । अतः मध्य से लेकर
प्रधिपर्यन्त ॐ ओं नमः, ॐ अं नमः इत्यादि क्रम से वर्णों को लिख कर
अर्घ्यादि से अर्चन करे और मन्त्र का उद्धार करे । यह चक्रराट् विद्या का बीज है
और परमात्मा का वाचक है ॥ १९-२२ ॥
गलन्तममृतप्रख्यमचिरान्मोक्षसिद्धिदम् ।
अक्षस्थमुद्धरेत् पूर्वं नेमिषष्ठमनन्तरम् ॥ २३ ॥
नाभिद्वितीयेनाक्रान्तं द्वितीयमिदमक्षरम् ।
द्वितीयं दशसंख्याच्च तदधश्चाष्टमात् परम् ॥ २४ ॥
नाभेस्त्रयोदशोपेतं द्वितीयमिदमक्षरम् ।
अथ द्वितीयं नवमान्नाभितुर्यादिनान्वितम् ॥ २५ ॥
द्वितीयमष्टमाद् वर्णं केवलं विद्धि पञ्चमम् ।
विज्ञानपदमादाय त्र्यक्षरं तदनन्तरम् ॥ २६ ॥
आद्यमेकादशाद् वर्णं भिन्नं नाभ्यपरेण तु ।
नेमेस्तृतीयवर्णस्य ततस्तमुपरि न्यसेत् ॥ २७ ॥
मन्त्राणां नवमं ह्येतद् दशमं मे निबोधत ।
नाभिद्वितीयेनाक्रान्तं प्राग्वर्णं चाष्टमारगम् ॥ २८ ॥
नेमेर्द्वितीयं तदनु नेमेरादाय चाष्टकम् ।
तदुद्देशात् तृतीयं च स्थितं तत् पञ्चमोपरि ॥ २९ ॥