सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 74, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 74

द्वितीयः परिच्छेदः १५

द्वाभ्याम् । अत्र वैभवीयेविवेकिनामित्यत्र अविवेकिनामिति पदच्छेदः । नह्यत्र विवेक-
रहितैरर्चनीयत्वोक्त्या विभवभेदानामपकर्षः शङ्कनीयः, अपि तु सौलभ्यातिशयेन
उत्कर्ष एव सिद्ध्यति । इत्थमेवोपबृंहितं लक्ष्मीतन्त्रेऽपि—
सुसिद्धयोगतत्त्वानाम्धिकारः परात्मनि ।
व्यामिश्रयागयुक्तानां मध्यानां व्यूहभावने ॥
वैभवीयादिरूपेषु विवेकविधुरात्मनाम् ।
अहन्ताममतातर्त्तानां भक्तानां परमेश्वरे ॥
अधिकारस्य वैषम्यं भक्तानामनुदृश्य सः ।
भजते विविधं रूपं परव्यूहादिशब्दितम् ॥ (१९।४८-५१)
इति ॥ १०-१२ ॥
इस वैभवीय चतुर्व्यूहरूप क्रियाक्रम में अहन्ता एवं ममता में ग्रस्त अपने-
अपने वर्णाश्रम क्रम में निरत कर्म, वाणी और मन से परमेश्वर में भक्ति रखने वाले
विवेकरहित साधकों का भी समन्त्रक अधिकार है ॥ १०-१२ ॥
एवं सम्प्रतिपन्नानां मन्त्रपूर्वं यथास्थितम् ॥ १२ ॥
विधानमेकमूर्तीयं समाकर्णय साम्प्रतम् ।
एवं स्वस्वाधिकारानुरोधेन सम्प्रतिपन्नानां हिततमं साक्षात् परस्यार्चनविधानमादौ
शृणुष्वेत्याह—एवमिति ॥ १२-१३ ॥
यदि दीक्षा ग्रहण किया हो, तब इस अर्चन में चारों वर्णों का यथाक्रम
अधिकार है । इस प्रकार अपने-अपने अधिकार से सम्प्रतिपन्न भक्तों के लिए
हिततम एक मूर्तीय परब्रह्म के अर्चन का विधान सर्वप्रथम सुनिये ॥ १२-१३ ॥
प्रशस्ते विजने गुप्ते गन्धलिप्ते धरातले ॥ १३ ॥
सुधूपितेऽर्घ्यपुष्पाढ्ये वर्णचक्रं प्रसाध्य च ।
तन्मन्त्रोद्धारार्थं चक्ररचनामाह—प्रशस्त इति ॥ १३-१४ ॥
यस्मिन् प्रतिष्ठितं विश्वमाब्रह्मभुवनान्तिकम् ॥ १४ ॥
येनोदितेन जगतः प्रभवः समनन्तरम् ।
स्वात्मन्युपरते यस्मिन् प्रलयः सम्प्रजायते ॥ १५ ॥
प्रेरकं चन्द्रसूर्याभ्यां सबाह्याभ्यन्तरं तु यत् ।
'मन्त्राणां जननी साक्षान्मम शब्दमयी तनुः' (लक्ष्मी. २३।११) इति वर्णचक्रस्य
साक्षाद् भगवच्छरीरकत्वात् तस्य निखिलजगदाधारत्वं सृष्ट्यादिहेतुत्वं चाह—यस्मि-
न्निति द्वाभ्याम् ॥ १४-१६ ॥
अब मन्त्रोद्धार के लिये चक्ररचना का प्रकार कहते हैं—प्रशस्त, सुधूपित,
विजन, सुगुप्त, गन्धलिप्त एवं अर्घ्यपुष्पों से समृद्ध धरातल में द्वादशारचक्र निर्माण