सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 697, कुल 837 में से
संदर्भ में पढ़ें६३८ सात्वतसंहिता
गायत्रीभिस्तदर्थं च बह्वृचाद्यैः पृथक् पृथक् ।
अजस्य नाभावित्यादिमन्त्रैरेकायनेस्ततः ॥ १७० ॥
अध्वाऽधिभूतमूर्तं तु भोग्यं वापि पृथक् स्थितम् ।
देवतानां त्वधिष्ठानं पीठं कृत्वाऽथ बुद्धिगम् ॥ १७१ ॥
फिर साधक को गायत्री मन्त्र से तत्पश्चात् बह्वृचा आदि के मन्त्रों से पृथक्-
पृथक् होम करना चाहिए ॥ १७०-१७१ ॥
होतव्यं प्रणवेनैव स्वयं व्याहृतिभिस्तु तैः ।
अपरैर्मूलमन्त्रेण प्रणवान्तेन लाङ्गलिन् ॥ १७२ ॥
इसके बाद 'अजस्य नाभौ' इत्यादि मन्त्रों से पृथक्-पृथक् होम करे । हे
लाङ्गलिन् ! व्याहृति युक्त प्रणव से होम करे अथवा प्रणव लगाकर मूल मन्त्र से
होम करे ॥ १७२ ॥
ततो वाहनमन्त्रेण तर्पणीयः सदैव हि ।
स्वनाम्ना प्रणवेनैव स्वाहान्तेनापरैस्ततः ॥ १७३ ॥
ततो गरुडमन्त्रेण परिवारमन्त्रैश्च होममाह—तत इति । पारमेश्वरपुस्तकेषु
केषुचित् "ततो हवनमन्त्रेण" (१५।१५४) इत्यबद्धपाठो दृश्यते, तद्व्याख्यानेऽपि
हवनमन्त्रेण स्वाहान्तमन्त्रेणेत्यबद्धपाठ एवं व्याख्यातः । अपरैः परिवारमन्त्रैरित्यर्थः
॥ १७३ ॥
अब गरुड़ मन्त्र से तथा परिवार मन्त्र से तर्पण कहते हैं—इसके बाद वाहन
मन्त्र, गरुड़ मन्त्र से तर्पण करे । कोई कहते हैं प्रणव, फिर चतुर्थ्यन्त नाम, फिर
अन्त में स्वाहा शब्द से तर्पण करे ॥ १७३ ॥
संरोधस्तर्पितानां तु कार्यः पूर्णान्त एव हि ।
साम्भसा विष्टरेणैव भावेन सजपेन च ॥ १७४ ॥
सर्वेश्वरस्य देवस्य स्वकीयासु च मूर्तिषु ।
शब्दात्मिकास्वमूर्तासु तद्वच्छ्रुतिमयस्य च ॥ १७५ ॥
एवमेतावदन्तं समर्पितानां सर्वेषामपि परिवारदेवानां सर्वेश्वरस्य भगवतश्च
प्रतिष्ठानन्तरभाविपूर्णाहुत्यन्तसन्निरोधमाह—सन्निरोध इति द्वाभ्याम् । साम्भसा =
विष्टरेण कूर्चगतार्घ्येणेत्यर्थः ।
आवाहने सन्निधाने सन्निरोधे तथार्चने ॥
विसर्जनेऽर्घ्यपात्रं तु प्राक् पात्रान्नित्यमाचरेत् । (१८।७१-७२)
इति सन्निरोधेऽप्यर्घ्यदानस्य पूर्वोक्तत्वात् । भावेन ध्यानेनेत्यर्थः । सर्वैः स्वकस्य
देवस्येति पाठ एव सरसः । यतः सर्वैराचार्यऋत्विग्भिः स्वकस्य देवस्य प्रागादिस्व-