सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 68, कुल 837 में से
संदर्भ में पढ़ेंप्रथमः परिच्छेदः ९
यथाऽनन्तरसाः सर्वे तस्य सन्ति सदैव हि ।
सर्वत्र शान्तरूपस्य अतः सर्वमुखः स्मृतः ॥
सत्त्वराशिर्र्यतो विद्धि स एवं परमेश्वरः ।
सर्वतः श्रुतिमांश्चासौ यथादृक्श्रावकोरगः ॥ (४।७६-८२) इति ।
एकम् = अद्वितीयम्, निःसमाभ्यधिकमिति यावत् । सर्वाश्रयं = निखिल-
जगदाधारम्, प्रभुं = जगत्स्वामिनं देवं परवासुदेवं परमिति समाख्यातम् । तदेतत्
परत्वविशिष्टं ब्रह्म सद् विद्धीत्यनुषङ्गः ॥ २५ ॥
श्रीभगवान् ने कहा—वह ब्रह्म ज्ञान, ऐश्वर्य, शक्ति, बल एवं वीर्य तथा
तेजोमय होने से षाड्गुण्य विग्रह वाले हैं, देदीप्यमान सूर्य एवं अग्नि के समान
तेजस्वी हैं । स्वतः पाणिपाद तथा सर्वतोऽक्षि एवं शिरोमुख वाले हैं ॥ २५ ॥
परमेतत् समाख्यातमेकं सर्वाश्रयं प्रभुम् ।
एतत्पूर्वं त्रयं चान्यज्ज्ञानाद्यैर्भेदितं गुणैः ॥ २६ ॥
विद्धि तद् व्यूहसंज्ञं सद् निःश्रेयसफलप्रदम् ।
एवं परलक्षणमुक्त्वा व्यूहलक्षणमाह—एतदिति । एतत्पूर्वम् = एष परवासुदेवः
पूर्वं प्रथमो यस्य तत् तथोक्तम् । ज्ञानाद्यैर्गुणैर्भेदितम्
बलसंवलितेनैव ज्ञानेनास्तेऽथ दक्षिणे ॥
ऐश्वर्येण तु वीर्येण प्रत्यग्भावेऽवतिष्ठते ।
तेजःशक्त्यात्मना सौम्ये संस्थितः परमेश्वरः ॥ (३।६-७)
इति वक्ष्यमाणप्रकारेण तत्तद्गुणभेदितम् अन्यत् त्रयं = सङ्कर्षणप्रद्युम्नानिरुद्ध-
त्रयम् । एवं च वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धचतुष्टयम् । व्यूहसंज्ञं तद् = ब्रह्म सद्
निःश्रेयसफलप्रदं = मोक्षफलप्रदं च सद् विद्धि ॥ २६ ॥
वह एक हैं, सर्वाश्रय हैं, प्रभु है, ज्ञानादि गुणों के भेदों के कारण वह ब्रह्म
तीन प्रकार के हैं । इस प्रकार उस ब्रह्म का पर स्वरूप कहा गया इसलिये परख
विशिष्ट नहीं ब्रह्म सत् है, ऐसा समझना चाहिए । इससे पूर्व वही पर वासुदेव भी
है, जिन्हें ज्ञानादि से भेदित किया गया है । वासुदेव, सङ्कर्षण, प्रद्युम्न एवं
अनिरुद्ध भेद से उन ब्रह्म की व्यूहसंज्ञा भी है । वह व्यूह तथा सत् संज्ञक होने के
कारण निःश्रेयस तथा मोक्षफल देने वाले हैं ॥ २६-२७ ॥
मुख्यानुवृत्तिभेदेन युक्तं ज्ञानादिकैर्गुणैः ।
नानाकृतिं च तद् विद्धि वैभवं भुक्तिमुक्तिदम् ॥ २७ ॥
॥ इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां प्रश्नप्रतिवचनं नाम
प्रथमः परिच्छेदः ॥ १ ॥
— ❦ ❁ ❧ —
सा० सं० - 5