सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 60, कुल 837 में से
संदर्भ में पढ़ें॥ श्रीः ॥
सात्वतसंहिता
अलशिङ्गभट्टविरचितभाष्योपेता
प्रथमः परिच्छेदः
प्रश्नप्रतिवचनम्
विष्णोराराधनपरा मुनयो मलयाचले ।
संस्थिताः सिद्धगन्धर्वविद्याधरनिषेविते ॥ १ ॥
✻ अलशिङ्गभाष्य ✻
श्रीमद्यादवशैलाग्रशेखरं सद्गुणाकरम् ।
योगानन्दनृसिंहाख्यदैवतं पर्युपास्महे ॥ १ ॥
श्रीमन्नारायणोऽव्याद् यदुगिरिनिलयो यः परं दिव्यरूपं
सौषुप्तस्वप्नजाग्रत्यदभिदुरमिदं चातुरात्म्यं च रूपम् ।
रूपं वैशाखयूपं विविधमपि विभवं चापि बिभ्रद्
देवीभूषायुधाढ्यो विहगपतिरथः पाति लोकान् समस्तान् ॥ २ ॥
विश्वस्य भजतां नित्यं नश्वरेतरभोगदः ।
शश्वत् सर्वार्थदो भूयाद् विश्वत्राता नृकेसरी ॥ ३ ॥
प्रणम्य शिरसाऽऽचार्यान् प्रतिष्ठापितसात्वतान् ।
तदादिष्टेन मार्गेण सात्वतार्थः प्रकाश्यते ॥ ४ ॥
अत्र तावद् भगवान् भगवच्छास्त्रविशारदो नारदो महामुनिः साक्षाद् वासुदेवेन
सङ्कर्षणायोपदिष्टं स्वेन सङ्कर्षणाल्लब्धरहस्याम्नायसंज्ञितैकायनश्रुतेः सूत्ररूपं भगव-
त्प्राप्त्येकोपायभूताभिगमनोपादानेज्यास्वाध्याययोगरूपकर्मविचारैः परव्यूहविभवरूप-
ब्रह्मविचारैश्च दर्भितं पञ्चविंशतिलक्षणं सात्वतं तन्त्रमुपदेक्ष्यन् आदौ तदवतारक्रमं दर्श-
यति—विष्णोरिति ।