सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 524, कुल 837 में से
संदर्भ में पढ़ेंएकोनविंशः परिच्छेदः ४६५
पर स्थापित करा देवे । इस प्रकार मन्त्र से युक्त कर्म द्वारा उसका पुर्नजन्म करा
देवे ॥ ४६-५० ॥
फिर शिष्य भावना के ध्यान से युक्त होकर अपने पितृ मातृ युक्त इस जगत्
का त्याग कर देवे । (यहाँ तक शिष्य के भूतशोधन की प्रक्रिया कही गई) ॥ ५१ ॥
ततः कवचमन्त्रेण दद्यात् सप्ताभिमन्त्रितम् ॥ ५१ ॥
तस्योपवीतमपरमुदितं चापि यस्य यत् ।
उपवीतधारणार्हस्य त्रैवर्णिकस्य शिष्यस्य नूतनोपवीतधारणमाह—तत
इति ॥ ५१-५२ ॥
सर्वदा दासभावत्वमापन्नस्य च तत्त्वतः ॥ ५२ ॥
अमद्यापाऽन्योत्यस्य लोकधर्मोज्झितस्य च ।
आप्तवद् ब्रह्मनिष्ठस्य कर्मतन्त्ररतस्य च ॥ ५३ ॥
गोदानं शूद्रजातेर्वै विहितं चैव नान्यथा ।
योग्यस्य शूद्रस्य तु गोदानं विहितमित्याह—सर्वदेति द्वाभ्याम् ॥ ५२-५४ ॥
वौषट्स्वाहावषट्कारनिष्ठानां तु प्रतिक्रिया ॥ ५४ ॥
नमस्कारेण मन्त्राणां कार्ये प्राप्ते ह्यनुग्रहे ।
तदीयमर्घ्यपुष्पाद्यं यत्किञ्चिद् यागसाधनम् ॥ ५५ ॥
सुसंस्कृतमसिद्धं वा भक्त्या कर्मण्यतां व्रजेत् ।
शूद्रस्य वषकाराद्यनर्हत्वान्मन्त्रशरीरे तत्प्रतिनिधित्वेन नमस्कारो योज्य इत्याह—
वौषडिति । पाद्मे तु—
द्वादशाक्षरमादौ तु पश्चादष्टाक्षरात्मकम् ।
मूर्तिमन्त्रांश्च तदनु समध्याप्य यथाविधि ॥
केवलं वैष्णवं नाम नमःप्रणववर्जितम् ।
हुंफडादिवषट्स्वाहावर्जितं केशवादिकम् ॥
अध्याप्य स्त्रीषु शूद्रेषु तद्देवानुलोमजे ।
सावित्रीं येऽनुतिष्ठन्ति तेषां विप्रवदिष्यते ॥
इति शूद्रादीनां प्रणवनमस्कारावपि निषिद्धौ । अन्यत्र—
न स्वरः प्रणवोऽङ्गानि नाप्यन्यविधयः स्मृताः ।
स्त्रीणां च शूद्रजातीनां मन्त्रमात्रोक्तिरिष्यते ॥
इति प्रणवमात्रं निषिद्धम् । अतः संहिताभेदेन व्यवस्था ज्ञेया । पुष्पाञ्जल्यादि-
समर्पणार्थं शूद्राहृतं पुष्पादिकमपि तद्भक्तिवशेन कर्मार्हं भवतीत्याह—तदीय-
मिति ॥ ५४-५६ ॥