सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 309, कुल 837 में से
संदर्भ में पढ़ें२५० सात्वतसंहिता
भागद्वयं द्वयं लाञ्छ्यं योन्यर्थं चार्धवृत्तवत् ।
तच्छृङ्गकोटिगे सूत्रे कृत्वा ते सम्प्रसार्य च ॥ ५६ ॥
खातभूभागपर्यन्तं तत्पदाद् वटपत्रवत् ।
जायते सर्वकुण्डानां योनिरैवंविधा शुभा ॥ ५७ ॥
इसी प्रकार कुण्ड के पश्चिम भाग में योनि निर्माण के लिये मध्यसूत्र के
दक्षिण भाग के कोष्ठों में तथा वाम भाग के दोनों कोष्ठों में अर्ध चन्द्राकार दो
लाञ्छन बना कर दक्षिण लाञ्छन के दक्षिण शृङ्गाग्र में एक सूत्र, वाम भागस्थ
लाञ्छन के वाम शृङ्गाग्र से एक सूत्र, दोनों मिलाकर उन दोनों को वटपत्र के
समान खात भाग पर्यन्त फैला देवे । ऐसा करने से योनि बन जायेगी । इस प्रकार
योनि का निर्माण आगे कहे जाने वाले कुण्डों में भी करना चाहिये ॥ ५६-५७ ॥
भागार्धमानसूत्रेण योनेरभ्यन्तरे पुनः ।
अर्धवृत्तद्वयं दद्यात् तद्वत् सूत्रद्वयान्वितम् ॥ ५८ ॥
खातस्यान्तर्गतो वर्ज्यश्चतुर्थांशस्तु कोष्ठकात् ।
कोष्ठार्धं निखनेच्छेषं तत्समं वा पुरोदितम् ॥ ५९ ॥
दैर्घ्यात् पादाधिका कार्या योनिर्वे पृष्ठतोन्नता ।
गजोष्ठसदृशी चाग्रात् स्पृशन्ती दशनच्छदम् ॥ ६० ॥
तद्बहिःपङ्क्तिमारभ्य खातपर्यन्तं प्रागादिषु योनिनिर्माणप्रकारं खातस्य परितः
कोष्ठचतुर्थांशेनौष्ठनिर्माणप्रकारं चाह—जीवसूत्रस्येत्यारभ्य स्पृशन्ती दशनच्छदमित्य-
न्तम् । जीवसूत्रस्य मध्यसूत्रस्येत्यर्थः । पार्श्वद्वये मध्यसूत्रस्य दक्षिणवामभागयोरि-
त्यर्थः । तत्समं निखनेत् । खातभूभागविस्तारायामतुल्यं खातं कुर्यादित्यर्थः । अथवा
पुरोदितं "त्र्यंशेनार्धेन वांशेन खाताद् व्यासो विधीयते" (६।७७) इति नित्याग्नि-
कार्यप्रकरणोक्तं वेत्यर्थः । एवमेवोक्तं पारमेश्वरेऽपि—
खातार्थमन्तरावृत्तादन्तरं निखनेत् समम् ॥
त्रिपादमर्धपादं वा (२६।१२-१३) इति ।
दशनच्छदमोष्ठमित्यर्थः ॥ ५५-६०॥
अथ पाश्चात्ये भागे योनिसिद्ध्यर्थं मध्यसूत्रदक्षिणभागकोष्ठद्वये वामभागकोष्ठ-
द्वये चार्धचन्द्राकारलाञ्छनद्वयं विलिख्य दक्षिणलाञ्छनस्य दक्षिणशृङ्गाग्र एकं सूत्रं
वामभागस्थलाञ्छनस्य वामशृङ्गाग्रेणैकं सूत्रं संयोज्य तद्द्वयमपि वटपत्रवत् खातभाग-
पर्यन्तं प्रसारयेत् । एवं कृते योनिः सिद्ध्यति । इयं योनिवक्ष्यमाणकुण्डनामपि
साधारणा ॥ ५६-५७ ॥
पुनस्तद्योनेरभ्यन्तरे मध्यसूत्रस्य दक्षिणकोष्ठे च कोष्ठार्धमानसूत्रेण पूर्ववदर्ध-
चन्द्राकारं लाञ्छनद्वयं विलिख्य पूर्ववत् तयोः शृङ्गाग्राभ्यां सूत्रद्वयं प्रसारयेत् । अथ
खातस्य परित ओष्ठसिद्धयर्थं खातस्यान्तः परित एकं कोष्ठं चतुर्धा विभज्य तेष्वेकं