सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 21, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 21

१८ सात्वतसंहिता
संक्षेपतो व्यूहवादस्यैतत् स्वरूपम्—सृष्टिकाले वासुदेवोऽव्यक्तां प्रकृतिमेव न
सृजति, किन्तु प्रकृत्या सार्धं सङ्कर्षणाख्यस्य विशिष्टजीवस्यापि रचनां करोति । तस्य
सङ्कर्षणस्य प्रकृत्या संयोगे सति मनस उत्पत्तिर्जायते, यत् सांख्यस्य बुद्धिस्थानापन्न-
त्वेन ज्ञातुं शक्यते । एवं तस्मिन्नेव काले तस्य प्रतिरूपभूतस्य प्रद्युम्नस्योत्पत्ति-
र्भवति । प्रद्युम्नत एव मनःसंयोगे सति सांख्याभिमतस्याहङ्कारस्योत्पत्तिर्जायते । एवं
तस्मिन् क्षण एव तस्य तृतीयप्रतिरूपभूतस्यानिरुद्धस्य प्रादुर्भावो भवति । अनिरुद्धत
एव सांख्यसम्मतस्याहङ्कारस्य संयोगे सति महाभूतानामेवं तेषां गुणानामाविर्भावो
भवति । तस्मिन्नेव क्षणे विविधानि तत्त्वान्यादाय पृथिव्यादिनिर्माणक्षमस्य ब्रह्मणः
प्रादुर्भावो भवति । ईश्वरस्य षड्गुणाः पूर्वमेव वर्णिताः । तेषु गुणेषु गुणद्वयस्य
प्राधान्ये सति त्रित्वसंख्याविशिष्टस्य व्यूहस्य रचना भवति । उदाहरणं यथा—
सङ्कर्षणे ज्ञानस्य बलस्य चाधिक्यं भवति, प्रद्युम्ने ऐश्वर्यस्य वीर्यस्य चाधिक्यमस्ति,
अनिरुद्धे शक्तितेजसोराधिक्यं भवति । एवं क्रमशॊ यथापूर्वं वर्णनानुसारं व्यूहरचना
सम्पादिता भवति ।
अयमेव चतुर्व्यूहवादः । श्रीशङ्कराचार्येण शारीरकभाष्ये (२।२।४२-४५)
अस्य खण्डनं कृतम् । किन्तु रामानुजाचार्यस्य एतद्विषयकं मण्डनमपि मननीयम् ।
सृष्टौ शुद्धाध्वा अथ च विशाखयूपविमर्शः
श्रियः सिसृक्षया चत्वारो भगवद्व्यूहा आविर्भूताः, ते यथा—वासुदेवः,
सङ्कर्षणः, प्रद्युम्नः, अनिरुद्धः । एते व्यूहा जगद्व्यापारकरणार्थं चतुर्व्यूहोपासन-
निरतानां योगिनां ध्यानालम्बनार्थं चाविर्भूय ध्यानसौकर्याय रूपचतुष्केण प्रकाशन्ते ।
यथा—
तुर्यस्थानम् —|— व्यूहचतुष्कं रेखारूपेणापि न दृश्यम् ।
सुषुप्तिस्थानम् —|— व्यूहचतुष्कं रेखारूपेण दृश्यम् ।
स्वप्नस्थानम् —|— व्यूहचतुष्कं अत्यन्तमलिनरूपम् ।
जाग्रत्स्थानम् —|— व्यूहचतुष्कं स्पष्टरूपम् ।
इदं च ध्वजस्तम्भाकारं रूपं विशाखयूपनाम्ना प्रथितम् । पूजितस्तम्भाभिप्रायेण
यूपशब्दप्रयोगः । एभ्यो व्यूहेभ्यो द्वादश देवा व्यूहान्तरनाम्ना आविर्भूताः । यथा—
वासुदेवात् केशवनारायणमाधवाः । सङ्कर्षणात् गोविन्दविष्णुमधुसूदनाः । प्रद्युम्नात्
त्रिविक्रमवामनश्रीधराः । अनिरुद्धात् हृषीकेशपद्मनाभदामोदराः । शुद्धाध्वगता एते
सर्वेऽपि देवा अप्राकृतलोके विराजन्ते, शुद्धसत्त्वमयाश्च ।
पूर्वोक्तात् विशाखयूपात् पद्मनाभादयोऽष्टत्रिंशत् विभवदेवा आविर्भूताः । एभ्यो
विभवेभ्यो विभवान्तरनामानः बहवोऽवतारा बादरायणादिरूपेणास्मिन् लोके भवन्ति ।
पूर्वोक्तात् विशाखयूपादेवाचार्चारूपा देवा आविर्भूय देवालयेषु सम्पूजिता विराजन्ते ।