सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 206, कुल 837 में से
संदर्भ में पढ़ेंकर्म से वह उत्कर्ष प्राप्त करता है । इसलिये अपने अधिकार में रह कर वह
सर्वदा भगवदाराधन करे ॥ ५४ ॥
सर्वत्राधिकृतो विप्रो वासुदेवादिपूजने ।
यथा तथा न क्षत्राद्यास्तस्माच्छास्त्रोक्तमाचरेत् ॥ ५५ ॥
भगवदाराधने ब्राह्मणवत् (न) क्षत्रियादीनामपि सर्वत्राधिकारोऽस्ति, अतो
यथाधिकारमनुष्ठेयमित्याह—सर्वत्रेति ॥ ५५ ॥
वासुदेव के पूजन में सर्वत्र ब्राह्मण का जैसा अधिकार है, वैसा अधिकार
क्षत्रियादि वर्णों का नहीं है । इसलिये शास्त्रोक्त वचन का पालन करे ॥ ५५ ॥
नयेन्नक्ताशनैर्भक्त्या दिनान्येतानि मौद्गलः ।
व्रताद्यन्ते तु विहितं परिपीडं हि तस्य वै ॥ ५६ ॥
शूद्रस्य प्रतिपक्षमेकादश्यां नक्ताशनम्, व्रताद्यन्तैकादश्योरेवोपवास इत्याह—
नयेदिति ॥ ५६ ॥
शूद्र प्रतिपक्ष की एकादशी के दिन रात्रि में भोजन करे और भक्तिभावपूर्वक
दिन बितावे । व्रत के अन्त में उसे उपवास न करने का विधान है ॥ ५६ ॥
द्वादशवार्षिकव्रतविधानम्
यथाभिमतमासाद् वै समारभ्य क्रमेण तु ।
इतिकर्त्तव्यतासक्तैर्मोक्षकामैस्तु चाग्रजैः ॥ ५७ ॥
दशम्यां चैव सङ्कल्पः कार्यो द्वादशवार्षिकः ।
प्राग्वदब्दं तु सम्पूर्य दानेर्मासानुमासिकैः ॥ ५८ ॥
व्रतेश्वरं जगन्नाथं प्रीणयेद् वत्सरे गते ।
पुनरारम्भमासाच्च त्वग्र्यमासस्य तद्दिनात् ॥ ५९ ॥
आरभ्य वत्सरं प्राग्वत् पूजयेत् प्रीणयेत् प्रभुम् ।
क्रमेणानेन सम्पाद्य द्वादशाब्दं व्रतं महत् ॥ ६० ॥
तदन्ते तु यथाशक्त्या दानेर्वस्त्रानुलेपनैः ।
द्विषट्कं ब्राह्मणानां तु यष्टव्यमधिकारिणा ॥ ६१ ॥
अथ ब्राह्मणस्य द्वादशवार्षिकं व्रतान्तरमाह—यथाभिमतमासादित्यारभ्य यष्टव्य-
मधिकारिणेत्यन्तम् । पूर्वोक्तैरित्यर्थः । पूर्वं प्रतिमासं यद्दानं विहितं तदत्र प्रतिसंवत्सरं
कार्यम् । संवत्सरान्तविहितदानं त्वत्र द्वादशवर्षान्ते कार्यमित्यर्थः ॥ ५७-६१ ॥
इतिकर्त्तव्यता में सम एवं मोक्ष की कामना वाला ब्राह्मण यथाभिमत मास से
व्रत आरम्भ करे । यथाभिमत मास पक्ष में दशमी तिथि को द्वादश वार्षिक व्रत का