सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 15, कुल 837 में से
संदर्भ में पढ़ें१२ सात्त्वतसंहिता
स्वमुखारविन्दनिःसृतशब्दैः कृतम् । तत्र चतुर्वेदसांख्यशास्त्रसमावेशाय च स 'पाञ्च-रात्र'
इति संज्ञया अभिहितः । नारदपाञ्चरात्रमतेन परमतत्त्व-मुक्ति-भुक्ति योगविषयाख्यपञ्च-
शब्दार्थनिरूपणप्रसङ्गात् पाञ्चरात्रसंज्ञा प्राप्ता । रात्रशब्दस्तु ज्ञानस्यैव संज्ञान्तरम् । तदुक्तं
नारदपाञ्चरात्रे—'रात्रं च ज्ञानवचनं ज्ञानं पञ्चविधं स्मृतम्' (१।१४) इति ।
पाञ्चरात्रीयं वाङ्मयं तु अतीव विपुलतरम्, परन्तु साम्प्रतमप्रकाशितरूपेणैव
तिष्ठति । कालप्रभावेणास्य बहवोंऽशा विलुप्ताः । अस्य प्राचीनसंहितासु प्राक्-
स्थितानां संहितानामुल्लेखेनास्य विपुलता विलुप्तता च ज्ञायते । तमवलम्ब्य
'इन्ट्रोडक्शन टू दी पाञ्चरात्र' इति नाम्ना ख्याते श्रोडरमहोदयेन सम्पादिते आङ्ग्ल-
भाषोपनिबद्धग्रन्थे पाञ्चरात्रसंहितानां संख्या पञ्चविंशत्यधिकशतत्रयमिता (३२५)
निर्दिष्टा । तासु संहितासु—अगस्त्यसंहिता, सनत्कुमारसंहिता, वासुदेवसंहिता,
नारदीयसंहिता, विष्णुरहस्यसंहिता—इत्यादिसंहितानां चर्चा कृता । प्रकाशितरूपेण
साम्प्रतं निम्ननिर्दिष्टाः संहिता एव दृश्यन्ते—
पाञ्चरात्रागमस्य प्रकाशिताः संहिताः
१. ईश्वरसंहिता (सुदर्शन प्रेस, काञ्ची); २. कपिञ्जलसंहिता; ३. जयाख्य-
संहिता (गायकवाड ओरियण्टल सीरीज); ४. पाराशरसंहिता (तिरुपति); ५. पाद्म-
तन्त्रम्; ६. लक्ष्मीतन्त्रम् (आड्यारसंस्करणम्, हिन्दीसहित चौखम्बासंस्करणम्) ७.
बृहद्ब्रह्मसंहिता (आनन्दाश्रम, पूना); ८. सात्त्वतसंहिता (काञ्ची, अलशिङ्ग भाष्य
सहिता, सम्पूर्णानन्द संस्कृत विश्वविद्यालय); ९. भारद्वाजसंहिता (आड्यार-
संस्करणम्, मद्रास, हिन्दीसहित खेमराज संस्करणम्); १०. श्रीप्रश्नसंहिता; ११.
विष्णुसंहिता; १२. विष्णुतिलकम्; १३. अहिर्बुध्न्यसंहिता (आड्यारसंस्करणम्,
हिन्दी सहित चौखम्बासंस्करणम्, दिल्ली) ।
निर्दिष्टासु संहितासु जयाख्यसंहिताया ऐतिहासिकं महत्त्वं प्रामाणिकरूपेणाव-
गन्तव्यम् । इयं संहिताऽतिविस्तृतत्रयस्त्रिंशत्पटलेषु समाप्ता ।
विष्णूपासका एव सात्त्वत-पाञ्चरात्र-भागवतेत्यादिसंज्ञाभिः समलङ्कृताः । सुदीर्घ-
कालादेव विष्णूपासनपरम्परा भारतीये वाङ्मये दरीदृश्यते । कालक्रमेण विष्णुभक्तौ
विविधानि परिवर्तनानि समजायन्त ।
वैदिकसंहितायां विष्णुः
आदिमग्रन्थ ऋग्वेदे विष्णुसम्बद्धा बहवो मन्त्रा उपलभ्यन्ते—
(क) इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । —१.२२.१७
(ख) द्वे इदस्य क्रमणे स्वर्दृशोऽभिख्याय मर्त्यो भुरण्यति ।
तृतीयमस्य नकिरा दधर्षति वयश्चन पतयन्तः पतत्रिणः ॥
—१.१५५.५