सामग्री पर जाएँ
सर्वकोश
सङ्गीतमकरन्द (देवर्षि नारद - प्राचीन भारतीय सङ्गीत, राग-रागिनी वर्गीकरण व नाद-ब्रह्म)

सङ्गीतमकरन्द (देवर्षि नारद - प्राचीन भारतीय सङ्गीत, राग-रागिनी वर्गीकरण व नाद-ब्रह्म)

Sangitamakaranda of Narada (Musicology & Raga-Ragini)

देवर्षि नारद (सम्पादक: एम. आर. तेलंग) द्वारा

DevanagariSanskritpublished76 पृष्ठ

पृष्ठ 47, कुल 76 में से

संदर्भ में पढ़ें
पृष्ठ 47

३२ सङ्गीतमकरन्दे १
अथ पुष्पाञ्जलिः ।
ब्रह्मा तालधरो हरिश्च पटही वीणाकरी भारती
वंशज्ञौ शशिभास्करौ श्रुतिधराः सिद्धाप्सराः किन्नराः ।
नन्दीभृङ्गिरिटादिमर्द्दलधराः सङ्गीतको नारदः
शम्भोर्नृत्तकरस्य मङ्गलतनोर्नाट्यं सदा पातु नः ॥ ३७ ॥
लक्ष्मीस्ते सदने सदा निवस्तां चित्ते च चिन्तामणिः
स्वर्धेनुस्तव गोकुले सुरतरुश्चारामभूमौ तव ।
वाणी ते वदने दया नयनयोर्दानं करे तेऽन्वहं
विष्णुश्चेतसि ते मतिश्च सुकृते कीर्तिश्च लोकत्रये ॥ ३८ ॥
इन्दुं कैरविणीव कोकपटरीवाम्भोजिनीवान्धवं
मेघं चातकमण्डलीव मधुपश्रेणीव पद्माकरम् ।
माकन्दं पिकसुन्दरीव रमणीवात्त्मेश्वरं प्रोषितं
चेतोवृत्तिरियं मम क्षितिफ्ते त्वां द्रष्टुमुत्कण्ठते ॥ ३९ ॥
इति पूर्वपुष्पाञ्जलिः ।
अथ पञ्चतालोत्पत्तिनिरूपणमाह ।
सदाशिवमुखोद्भूतास्तालाः पञ्चविधाः स्मृताः ।
सद्योजातमुखात्पूर्वमृग्वेदादुद्भवस्तथा ॥ ४० ॥
तस्माच्चञ्चत्पुटो ज्ञेयः कान्तिर्गोक्षीरवर्णकः ।
ब्रह्मजातिसमाख्यातो गोपुच्छ इति संज्ञकः ॥ ४१ ॥
वामदेवे दक्षिणे च मुखे याजुपसम्भवम् ।
तस्माच्चाञ्चपुटाख्यं (?) हि तालः क्षत्रियजातिकः ॥ ४२ ॥
पिपीलिका इति ज्ञेया वर्णकुङ्कुमकेसरी ।
दक्षिणे यजुषामाहुर्नारदेन प्रकीर्तितः ॥ ४३ ॥
अघोरे पश्चिमे संज्ञे मुखे जातो ह्यथर्वणः ।
षट्पितापुत्रकस्तालस्तस्मादुद्भवचिप्यते (?) ॥ ४४ ॥
वैश्यजातिरिति प्रोक्तः कनकाभ इति स्मृतः ।
मुरजा इति नामाख्यं नारदेन प्रशंसितम् ॥ ४५ ॥
१ 'पटलीवा' इति समीचीनः पाठः स्यात् ।