सामग्री पर जाएँ
सर्वकोश
सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

Sangita Darpana of Damodara Pandita (TMSSML Edition)

दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा

DevanagariSanskritpublished258 पृष्ठ

पृष्ठ 154, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 154

123
चतुरश्रस्तथात्र्यश्रः इति तालो द्विधा मतः ।
चच्चत्पुटश्चाचपुट इति नाम्नी तयोः क्रमात् ॥ ७२४ ॥
यथाक्षरश्चद्विकलश्चतुष्कल इति त्रिधा ।
प्रत्येकं तैर्नामगतैः गलैस्तत्र यथाक्षरैः ॥ ७२५ ॥
अयमेककलश्चच्चत्पुटेत्वन्त्यंप्लुतं विदुः ।
गुरुः कलात्वद्विकलेऽष्टावाद्येन्त्यत्र षट्कलाः ॥ ७२६ ॥
चतुष्कलौ तौद्विगुणौ ताळशास्त्रेसुसम्मतौ ।
षट्पितापुत्रकस्त्र्यश्रभेदः सोपि तथात्रिधा ॥ ७२७ ॥
यथाक्षरे विशेषोत्र प्लुतआद्यन्तयोर्भवेत् ।
संपक्केष्टाकोपि भेदः षट्पितापुत्रकस्य च ॥ ७२८ ॥
तद्वद्यथाक्षरः कार्यः प्लुतआद्यन्तयोर्भवेत् ।
उद्घट्टोपित्र्यश्रभेदः स प्रस्तारे तथात्रिधा ॥ ७२९ ॥
युग्मश्चच्चत्पुटो ज्ञेयो अयुग्मस्व्यश्र एव च ।
ओजोपि त्र्यस्र संज्ञःस्यात् संज्ञात्तुकथिता बुधैः ॥ ७३० ॥
उत्तरः पञ्चपाणिश्च षट्पितापुत्रके भवेत् ।
718-730 The angas of the marga talas
சு-718-730 மார்க்க தாளங்களின் அங்கங்கள்.
एषां पातकळायोगं श्रेयसेव्याहरामहे ॥ ७३१ ॥
आद्यवर्णैः पातकळा निश्शङ्कः पर्यभाषत ।
चच्चत्पुटेत्वेककले संशताशा यथा क्रमम् ॥ ७३२ ॥