सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

६६० समराङ्गणसूत्रधारे
हंसपक्षत्वमानीय कुर्यात् कमलवर्तिताम् ।
तथा द्रुतभ्रमौ कृत्वा रेचितौ पार्श्वयोः शनैः ॥ २३८ ॥
रेचिताचित(विति)विज्ञेयौ हस्तौ हस्तविशारदैः ।
इति रेचितौ ॥
व्यावृत्तपरिवृत्तिभ्यां वर्तितौ चतुरश्रवत् ॥ २३९ ॥
कूर्परांसावि(श्वि)तौ हस्तौ नीतौ च त्रिपताकताम् ।
(शंकिञ्चि आश्रस्थितावेतौ ज्ञेयावुत्तानवञ्चितौ ? ) ॥ २४० ॥
इत्युत्तानवञ्चितौ ॥
बाहू(हु)वर्तनया कृत्वा पूर्वव्यावर्तितक्रियाम् ।
चतुरश्रक(? )परिवृत्तिभ्यां चतुरश्रः कृता(तो) यदा ॥ २४१ ॥
वामहस्त(स्त)दितरः (कृत्वादेष्वित ?)रेचितः करः ।
अर्धरेचितसंज्ञौ तौ विज्ञातव्यौ तदा बुधैः ॥ २४२ ॥
इत्यर्धरेचितौ ॥
बाहू(हु)वर्तनया बाहुशीर्षद्वौ(र्षाद् व्या)वर्तनेन वा ।
करणेन वि(निष्)क्रान्तौ (३मितं ?) वाभ्यर्णमागतौ २४३ ॥
पतकावेव निर्दिष्टौ पल्लवौ नामतः करौ ।
इति पल्लवौ ॥
उद्वेष्टितवर्तनया गत्या (वॅसंत्रास्रया ? ) स्थितौ मूर्द्ध्नः ।
पार्श्वद्वितये पल्लवसंस्थने(नौ) केशबन्धाख्यौ ॥ २४४ ॥
इति केशबन्धौ ।
अभिमुखमुखौ निविष्टौ (भुवेष्टितवर्तनक्रमादसौ ? ) ।
पल्लवहस्तौ पार्श्वद्वितये स्यातां लतासंज्ञौ ॥ २४५ ॥
इति लताहस्तौ ॥
१ मु. पु. अयं सार्धश्लोकः अर्धरेचितलक्षणानन्तरं निवेश्यो भाति । २ मु पु. ‘किञ्चित् त्र्यश्र-
स्थितवितौ ज्ञेयावुत्तानवञ्चितौ’ इति स्यात् । अक्षरसाम्यादेवमुन्नीतम् । ‘किञ्चित् तिर्यक्तलावि’ति तु
मुद्रितमुनिपाठः । ३ मु. पु. ‘यदि’ इति स्यात् । ४ मु. पु. ‘च स्रस्तया’ इति स्यात् ।

पताकादिचतुष्षष्ठिहस्तलक्षणं नाम त्र्यशीतितमोऽध्यायः । ६६१
व्यावर्तितकरणाभ्यां ( करिहस्ते ) दक्षिणो लताहस्ता ( स्त ) ः ।
उन्नतविलोलितः स्यात् त्रिषक्त( पता )को वामहस्तस्तु ॥ २४६ ॥
इति करिहस्तः ॥
उद्वेष्टित( परि ? )वर्तनया त्रिपताकावभिमुखौ यदा घटितौ ।
करिहस्तसन्निविष्टौ करौ तदा पक्षवञ्चितकौ ॥ २४७ ॥
इति पक्षवञ्चितकौ ॥
तावेव त्रिपताकौ हस्तौ कटिशीर्षसन्निविष्टाग्रौ ।
विपरावृत्तिविधानात् पक्षप्रच्योतकौ नाम्ना ॥ २४८ ॥
इति पक्षप्रच्योतकौ १ ॥
( त्रिंप शाखौ हस्तावधोमुखा हि तद् २ ? ) विज्ञेयौ गरुडपक्षाख्यौ ।
इति गरुडप(क्ष)कौ ३ ।
[ आवर्तितपरिवर्तितकरणकृतौ हंसपक्षकौ गम् ॥ २४९ ॥
पक्षतिरूपत्वमानान्तौ प्रसृतौ च यदा भवेत् उपक्षौ ।
*व्यावर्तितपरिवर्तितयोगौ यदि मण्डलाकृती स्याताम् ॥ २५० ॥
ऊर्ध्ववर्तितादघवदा स्मृतावूर्ध्वमण्डलिनौ ।
तथोर्ध्वमण्डलिसंज्ञौ वावर्तितं विधाया परिवर्तितकरणतारौ ॥
ऽ इति पार्श्वमण्डलिनौ ॥
१ ‘पक्षप्रयोतकौ इति उद्देशानुसरेण पाठ्यम् । २ वलयान्तर्गतमशुद्धप्रायं लुप्तकतिपयपदमिदं
वाक्यम् ‘अधोमुखतलाविद्धौ ज्ञेयौ गरुडपक्षको’ इति मुनिना सङ्गृहोक्तं लक्षणवाक्यमवष्टभ्य शोधनीयम् ।
‘त्रिपताकौ’ इति विशेष्यम् । ३ इत उपरि श्लोकत्रयं दण्डपक्षोर्ध्वमण्डलिपार्श्वमण्डल्युरोमण्डल्याख्यानां
चतुर्णां हस्तविशेषाणां लक्षणप्रदर्शनपरमशुद्धपदप्रक्षेपादिना तथा मिश्रितं यथा तत् प्रायो विवेक्तुमपि न
पार्येत । अतस्तदर्थज्ञानाय मुन्युक्तं तल्लक्षणमिह प्रदर्श्यते । यथा—‘‘हंसपक्षकृतौ हस्तौ व्यावृतपरिवर्तितौ
तथा प्रसारितभुजौ दण्डपक्षाविति स्मृतौ ॥ ऊर्ध्वमण्डलिनौ हस्तादूर्ध्वदेशविवर्तनात् । तावेव पार्श्वविन्यस्तौ
पार्श्वमण्डलिनौ स्मृतौ ॥ उद्वेष्टितो भवेदेको द्वितीयश्चापवेष्टितः । आञ्चितावुरसः स्थाने ह्युरोमण्डलिनौ
स्मृतौ ॥’ ( नाट्यशा० अ० ९, श्लो० १७९-१८१ ) इति ।

  • इत उपरि श्लोकानां यथावद् विभागाद्यनुपलम्भात् संख्या न निवेशिता ।

६६२ समराङ्गणसूत्रधारे
उद्वेष्टितौ यदैक एव भ्रमित उरसः स्थाने तौ द्वावपि स्याताम् ? ]
नियतमुरोमण्डलिनौ विज्ञातव्यौ तदा तज्ज्ञैः ।
इत्युरोमण्डलि(नौ) ॥

      • पल्लवो हस्तस्तथाराला( हा वापरा ? ) ।
        व्यावर्तनाकृतश्चैकस्तयोरन्योपवेष्टनात् ॥
        उरोर्धयोगात् पार्श्वार्धयोगाच्च क्रमशः( स्थितौ ) ।
        ( एतौ विद्वा )न् विजानीयादुरःपार्श्वार्धमण्डलौ ॥ *
        ( इत्युरःपार्श्वार्धमण्डलौ ॥)

शुभं भूयात् ॥

  • एतावानेव ग्रन्थ उपलभ्यते हस्तलिखितादर्शे ।

इस पृष्ठ पर कोई पाठ (टेक्स्ट) उपलब्ध नहीं है। यह पृष्ठ रिक्त (कोरा) है।

CATALOGUED.

Central Archaeological Library,
NEW DELHI.
64800
Call No. Sa TV/ Bho/ Gan
Author— Ganapati Shastri
Title— Samarangaṇa-
Sutradhara -
Borrower No. | Date of Issue | Date of Return